________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
13
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
मुच्यत इति भावः । तथा द्रवति तांस्तान् पर्यायान् गच्छतीति दुः सत्ता तस्या एवावयवो विकारो वेति द्रव्यम्, अवान्तरसत्तारूपाणि हि द्रव्याणि महासत्ताया अवयवो विकारो वा भवन्त्येवेति भावः । तथा गुणा रूपरसादयस्तेषां संद्रवणं संद्रावः समुदायो घटादिरूपो द्रव्यम् । तथा 'भव्यं भावस्स त्ति' भविष्यतीति भावस्तस्य भावस्य भाविनः पर्यायस्य यद् भव्यं योग्यं तदपि द्रव्यम्, राज्य पर्यायाऽर्हकुमारवत् । तथा भूतभावं चेति- भूतः पश्चात्कृतो भावः पर्यायो यस्य तद् भूतभावं तदपि द्रव्यम्, अनुभूतघृताधारत्व पर्याय रिक्तघृतघटवत् । चशब्दाद् भूतभविष्यत्पर्यायं च द्रव्यमिति ज्ञातव्यम्, भूतभविष्यद्धृताधारत्व पर्याय रिक्तघृतघटवदिति । एतदपि भूतभावं तथा भूतभविष्यद्भावं च कथंभूतं सद् द्रव्यम् १, इत्याह- यद् योग्यम्, भूतस्य भावस्य भूतभविष्यतोश्च भावयोरिदानीमपि यद् योग्यमर्ह तदेव द्रव्यमुच्यते, नाऽन्यत्, अन्यथा सर्वेषामपि पर्यायानामनुभूतत्वादनुभविष्यमाणत्वाच्च सर्वस्यापि पुद्गलादेर्द्रव्यत्वप्रसङ्गात् ।। इति गाथार्थः ॥ २८ ॥
आह विनेयः - ननु सामान्येन द्रव्यलक्षणमत्रगतम्, परं द्रव्यमङ्गलं किमभिधीयते । इति प्रस्तुतं निवेद्यताम्, इत्याह
ओगमओsaउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिसहिओ वि नोवउत्तो त्ति तो दव्वं ॥ २९ ॥ इह द्रव्यमङ्गलं तावद् द्विधा भवति - आगमतः- आगममाश्रित्य नोआगमतश्च- नोआगममाश्रित्य तत्राऽगमो मङ्गलशब्दार्थज्ञानस्वरूपोऽत्राऽभिप्रेतः, तमाश्रित्य 'द्रव्यं' द्रव्यमङ्गलमिति पर्यन्ते संबन्धः । कोऽसौ ?, इत्याह- वक्ता मङ्गलशब्दार्थप्ररूपकः । किं सर्वोऽपि १, न, इत्याह- अनुपयुक्तः तदुपयोगशून्यः । किं विशिष्टः १, इत्याह- मङ्गलशब्दानुवासितः मङ्गलशब्दार्थज्ञानावरणक्षयोपशम संस्कारानुरञ्जितमनाः तज्ज्ञानलब्धिमानिति यावत् । ननु यदि तज्ज्ञानलब्धिमांस्तर्हि किमिति द्रव्यम् १, इत्याह- 'तनाणेत्यादि' तज्ज्ञानलब्धिसहितोऽपि मङ्गलशब्दार्थज्ञानावरणक्षयोपशमवानपि नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्मादसौ, 'तो त्ति' तस्माद् द्रव्यमङ्गलम् । इदमुक्तं भवति - ' अनुपयोगो द्रव्यम् ' इति वचनाद् मङ्गलशब्दार्थ जानन्नपि तत्रानुपयुक्तस्तं प्ररूपयंस्तज्ज्ञानलब्धिसहितोऽप्यागमतो द्रव्यमङ्गलमेव ।। इति गाथार्थः ॥ २९ ॥
अत्राह कश्चित् - ननु कोऽयमागमो यमाश्रित्य द्रव्यमङ्गलमिदमभिधीयते १ । अत्रोच्यते- मङ्गलशब्दार्थज्ञानमत्राऽऽगमः । तर्हि प्रेर्यते, किम् ?, इत्याह
१ ग 'भवत्येव' । २ आगमतोऽनुपयुक्तो मङ्गलशब्दानुवासितो वक्ता । तज्ज्ञानलब्धिसहितोऽपि नोपयुक्त इति तस्माद् द्रव्यम् ॥ २९ ॥
३ क. ख. ग. ' रूपो । ४ ख. 'मङ्गलशब्दार्थज्ञानवानपि ।
ts नाणमागमो तो कह दव्वं दव्वमागमो कह णु ? | आगमकारणमाया देहो सद्दो यतो दव्वं ॥३०॥
यदि मङ्गलशब्दार्थज्ञानमागमः तर्हि तद्वक्ताऽसौ कथं द्रव्यमङ्गलम् ?, आगमस्य भावमङ्गलत्वेन द्रव्यमङ्गलत्वानुपपत्तेः । अथ द्रव्यम् - द्रव्यमङ्गलमसौ तर्हि आगमः कथम् ? येनाऽऽगमत आगममाश्रित्येत्युच्यते; द्रव्ये आगमस्याऽभावात्, भावे वा भावमङ्गलत्वमसङ्गात् । तस्मादागमतो द्रव्यमङ्गलमिति दूरविरुद्धमिदम् । इति परेणोक्ते आचार्यः प्राह- आगमेत्यादि, इदमुक्तं भवति - आगमत इत्युतेनैतद् भवता बोद्धव्यं यदुत - न साक्षादेवाऽऽगमोऽत्रास्ति, किं तर्हि ?, आगमस्य मङ्गलशब्दार्थज्ञानलक्षणस्य यत् कारणं निमित्तं तदेवेह विद्यत इत्यवगन्तव्यम् । किं पुनस्तदागमस्य कारणमिहात्रसेयम् १, इत्याह- अनुपयुक्तस्य वक्तुः संवन्धी आत्मा जीवो देहः शब्दश्व, जीवशरीरे हि तावदागमस्य कारणम्, तदाधारविरहितस्याऽऽगमस्याऽसंभवात् । शब्दोऽपि प्रत्याय्य शिष्यगताऽऽगमस्य कारणमेव, तमन्तरेण तस्याऽभावात् । यच्च कारणं तद् द्रव्यं भवत्येव “ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम् " इत्यादिवचनात्, इत्याह- 'तो त्ति' यत एवम् तस्माद् द्रव्यं द्रव्यमङ्गलमिदमित्यर्थः । यद्यागमकारणमेवेह विद्यते, तर्हि कथमिदमागमो येनाssगमतो द्रव्यमङ्गलं स्यात् ? इति चेत् । उच्यते- आगमस्य कारणभूता आत्मादयोऽपि कारणे कार्योपचारादागमत्वेनोच्यन्ते, भवति च कारणे कार्यव्यपदेशः, यथा - ' तन्दुलान् वर्षति पर्जन्यः ' । तस्मादागमतो द्रव्यमङ्गलं न विरुध्यते ।। इति गाथार्थः ॥ ३० ॥
44
अथ
“नैत्थि नयेहिं विह्नणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नये नयविसारओ बूया" ॥ १ ॥ इति वचनाज्जनमते सर्वेऽपि पदार्था नयैर्विचारणीयाः, इत्यतो द्रव्यमङ्गलमपि नयैर्विचारयन्नाह -
गो मंगलमेगं गा गाई णेगमनयस्स । संगहनयस्स एकं सव्वं चिय मंगलं लोए ॥ ३१ ॥
वक्ष्यमाणशब्दार्थस्य नैगमनयस्य मतेनैकोऽनुपयुक्तो मङ्गलशब्दार्थमरूपक एक द्रव्यमङ्गलम् अनेके त्वनुपयुक्तास्तत्मरूपका अनेकानि द्रव्यमङ्गलानि । अयं हि नयः सामान्यं विशेषांश्चाऽभ्युपगच्छत्येव, तंत्र विशेषवादित्वपक्षे एकोऽनुपयुक्त एकं द्रव्यमङ्गलम् ; अनेके त्वनुपयुक्ता अनेकानि द्रव्यमङ्गलानीत्युपपद्यत एव विशेषाणां पृथग्भिन्नत्वादिति । संग्रहनयस्य तु वक्ष्यमाणस्वरूपस्य केवलसामान्यवादिनो मतेन
१ यदि ज्ञानमागमस्तस्मात् कथं द्रव्यं, द्रव्यमागमः कथं नु ? । आगमकारणमात्मा देहः शब्दो यतो द्रव्यम् ॥ ३० ॥ भगलता । २ नास्ति नयैर्विहीनं सूत्रमर्थश्च जिनमते किञ्चित् । आसाद्य तु श्रोतारं नयेन च विशारदो ब्रूयात् ॥ १ ॥ ३एको मङ्गलमकमनेऽनेकानि नैगमनयस्य । संग्रहनयस्यैकं सर्वसेव मङ्गलं लोके ॥ ३१ ॥ ४ ख. ' त्युच्यते ' ।
For Private and Personal Use Only