________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
पत् कस्मिंश्चिद् भृतकदारकादौ इन्द्रायभिधानं क्रियते, तद् नाम भण्यते । कथंभूतं तत् १, इत्याह- पर्यायाणां शक्र-पुरन्दरपाकशासन-शतमख-हरिप्रभृतीनां समानार्थवाचकानां ध्वनीनामनभिधेयमवाच्यम् , नामवतः पिण्डस्य संबन्धी धर्मोऽयं नाम्न्यपचरिता स हि नामवान् भृतकदारकादिपिण्डः किलैकेन संकेतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते, न तु शेषैः शक्र-पुरन्दर-पाकशासनादिशब्दैः. अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति । पुनरपि कथंभूतं तन्नाम ?, इत्याह- "ठिअमण्णत्थे त्ति' विवक्षिताद भृतकदारकादिपिण्डादन्यश्वासावर्थश्चाऽन्यार्थो देवाधिपादिः, सद्भावतस्तत्र यत् स्थितम् ,भृतकदारकादौ तु संकेतमात्रतयैव वर्तते अथवा सद्भावतः स्थितमन्वर्थे- अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः शचीपत्यादिः। सद्भावतस्तत्र स्थितं भृतकदारकादौ तहिं कथं वर्तते ?. इत्याह- तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः परमैश्वर्यादिस्तस्य निरपेक्षं संकेतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते, इति पर्यायानभिधेयम् , स्थितमन्यार्थे, अन्वर्थे वा तदर्थनिरपेक्षं यत् कचिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम, इतीह तात्पर्यार्थ प्रकारान्तरेणापि नाम्नः स्वरूपमाह- यादृच्छिकं चेति, इदमुक्तं भवति-न केवलमनन्तरोक्तम्, किन्त्वन्यत्रावतमानमपि यदेवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते, तदपि नाम, यथा डित्थो डवित्थ इत्यादि । इदं चोभयरूपमपि कथंभूतम, इत्याह-यावद् द्रव्यं च प्रायेणेति-यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाऽप्यवतिष्ठत इति भावः । किं सर्वमपि ?; न, इत्याह- प्रायेणेति, मेरु-द्वीप-समुद्रादिकं नाम प्रभूतं यावद्र्व्यभावि दृश्यते; किश्चित् त्वन्यथाऽपि समीक्ष्यते, देवदत्तादिनामवाच्यानां द्रव्याणां विद्यमानानामप्यपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यदुक्तम्- "नाम आवकहिअंति" तत. तिनियतजनपदादिसंज्ञामेवाऽङ्गीकृत्य, यथोत्तराः कुरव इत्यादि । तदेवं प्रकारद्वयेन नाम्नः खरूपमत्रोक्तम्, एतच्च तृतीयपकारस्योपलक्षणम. पुस्तक-पत्र-चित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्याऽप्यन्यत्र नामत्वेनोक्तत्वादिति । एतच्च सामान्येन नानो लक्षणमुक्तम् , प्रस्तुते त्वेवं योज्यते- यत्र मङ्गलार्थशून्ये वस्तुनि मङ्गलमिति नाम क्रियते, तद् वस्तु नाम्ना नाममात्रेण मङ्गलमिति कृत्वा नाममङ्गलमित्युच्यते । पुस्तकादिलिखितं च यद् मङ्गलमिति वर्णावलीमात्रम्, तदपि नाम च तद् मङ्गलं चेति कृत्वा नाममङ्गलमित्यभिधीयते ॥ इति गाथार्थः ॥२५॥
अथ सामान्येनैव स्थापनायाः खरूपमाहजे पुण तयत्थसुन्नं तयभिप्पाएण तारिसागारं । कीरइ व निरागारं इत्तरमियरं व साठवणा ॥ २६ ॥ नाम यावत्कथिकमिति। २ यत् पुनस्तदर्थशून्यं तदभिप्रायेण तादृशाकारम् । क्रियते वा निराकारमित्वरमितरत् वा सा स्थापना ॥ २६ ॥
सा स्थापनाऽभिधीयते, यत् किम् ?, इत्याह-यत् क्रियते इन्द्रादिस्थापनारूपतया विधीयते वस्तु, पुनःशब्दो नामलक्षणात् स्थापनालक्षणस्य वैसदृश्यद्योतकः । केन', इत्याह- तदभिप्रायेण तस्य सद्भूतेन्द्रस्याभिमायोऽध्यवसायस्तेन । कथंभूतं तद् वस्तु, इत्याह- तदर्थशन्यं स चाऽसावर्थश्च तदर्थः सद्भूतेन्द्रलक्षणस्तेन शून्यं तदर्थशून्यम् । पुनरपि कथंभूतम् , तादृशाकारं सद्भूतेन्द्रसमा. नाकारम् , वाशब्दस्य भिन्नक्रमत्वाद् निराकारं वा सद्भूतेन्द्राकारशून्यमित्यर्थः, चित्र-लेप्य-काष्ठ-पाषाणादिषु तादृशाकारं भवति, अक्षादिपु तु निराकारमित्यर्थः । पुनः किंभूतम् ?, इत्वरम्-अल्पकालीनम् , इतरता यावत्कथिकम् । तत्रत्वरं चित्राक्षादिगतम् , यावत्कथिक तु नन्दीश्वरचैत्यमतिमादिः तदपि हि तिष्ठतीति स्थापना' इति स्थापनात्वेन समये निर्दिष्टमेव । तदिदमिह तात्पर्यम-यद वस्तु सद्भतेन्द्रार्थशून्यं सत् तबुद्ध्या तादृशाकारं निराकारं वा, स्तोककालं यावत्कथिकं वा स्थाप्यते सा स्थापनेति । प्रकृते योजना त्वित्थं क्रियते-चित्रकर्मादिगतः परममुनिः स्थापनं स्थापना तया मङ्गलम्, स्थाप्यत इति वा स्थापना तया मङ्गलं स्थापनामङ्गलमिति व्यपदिश्यते ॥ इति गाथार्थः ॥ २६ ॥
अथ भाष्यकारः स्वयमेव नाम-स्थापनामङ्गलयोरुदाहरणमुपदर्शयन्नाह- . ___ जंह मंगलमिह नामं जीवा-ऽजीवो-भयाण देसीओ । रूढं जलणाईणं ठवणाए सोथिआईणं ॥ २७ ॥ __ यथाशब्द उदाहरणोपन्यासार्थः । क यथा ?, इत्याह- जीवा-ऽजीवोभयानां ज्वलनादीनां देशीतो देशीभाषया मङ्गलमिति नाम रूढम, तत्र जीवस्याऽप्रेमङ्गलमिति नाम रूढम् , सिन्धुविषयेऽजीवस्य दवरकवलनकस्य मङ्गलमिति नाम रूढम् , लाटदेशे जीवाजीवोभयस्य तु मङ्गलमिति नाम रूढं वन्दनमालायाः, दवरिकादीनामिहाऽचेतनत्वात् , पत्रादीनां तु सचेतनत्वाज्जीवाजीवोभयत्वं भावनीयम् । स्वस्तिकादीनां तु या स्थापना लोके तस्या रूढं स्थापनामङ्गलत्वमिति शेषः ॥ इति गाथार्थः ।। २७॥ अथ द्रव्यलक्षणमाह
देवए दुयए दोरवयवो विगारो गुणाण संदावो । दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं ॥ २८ ॥ 'दु द्रु गतौ' इति धातुः, ततश्च द्रवति तांस्तान् स्वपर्यायान् प्रामोति मुञ्चति वेति तद् 'द्रव्यम्' इत्युत्तरार्धादानीय सर्वत्र संबध्यते, तथा दूयते स्वपर्यायैरेव प्राप्यते गुच्यते चेति द्रव्यम् , यान् किल पर्यायान् द्रव्यं प्रामोति तैस्तदपि प्राप्यते, यांश्च मुञ्चति तैस्तदपि
, यथा मालमिह नाम जीवा जीवो-भगाना देशीतः । रूढं ज्वलनादीनां स्थापनायाः स्वस्तिकादीनाम् ॥ २७॥ दवाए२ द्रवति दूपते दोलयवो विकारो (वा) गुणानां संद्रावः । द्रव्यं भव्यं भावस्य भूतभावं च यद् योग्यम् ॥ २८॥
For Private and Personal Use Only