________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
.
विशेषा
किन्तु शिष्यमतिमङ्गलपरिग्रहार्थम्, शिष्यो हि तस्मिन्नभिहिते 'मालमेतच्छास्त्रम् ' इत्येवं स्वमतौ तन्मङ्गलतापरिग्रहं करोतीति भावः॥ इति गाथार्थः॥ २०॥
आह-कि मङ्गलमपि मङ्गलघुद्ध्या गृहीतमेव स्वकार्य करोति, नान्यथा ? । एवमेतत् , इत्याह- इह मंगलं पि मंगलबुद्धीए मंगलं जहा साहू । मंगलतियबुद्धिपरिग्गहे वि नणु कारणं भणिअं ॥२१॥
___ इह लोके, मङ्गलमपि सद् वस्तु मङ्गलबुद्धया गृह्यमाणमभिनन्धमानं वा मङ्गलं भवति । यथा साधुः, साधुर्हि स्वयं मालभू तोऽपि तद्बुद्ध्या गृह्यमाण एव प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्य करोति, अमङ्गलबुद्ध्या तु गृह्यमाणं मङ्गलमपि तत्कार्य न करोति, यथा स एव साधुः कालुष्योपहतचेतोवृत्तेरभव्यस्य । अत्राह कश्चित्- नन्वेवं सत्यऽमङ्गलमप्यसाध्वादिकं मङ्गलबुद्ध्या गृह्यमाणं तत्कार्य फरिष्यति, न्यायस्य समानत्वात् । तदयुक्तम् , असाधोः स्वतो मङ्गलरूपताया अभावात् , सत्यमणिहि सत्यमणितया गृह्यमाणो ग्रहीतुर्गी रवमापादयति, न त्वसत्यमणिः सत्यमणितया, इत्यलं जेन । आह-- यद्येवम . तयेकमेव मालमस्तु, तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति, कि मालत्रयकरणेन ?, इत्याह- 'मंगलतियेत्यादि' मङ्गलत्रये हि कृते शिष्यस्य बुद्धौ तत्परिग्रहो भवति । तेनापि किमिति चेत् १, इत्याह- ननु तत्रापि 'पंढमं सत्थत्थाविग्धपारगमणाय निदिई' इत्यादिना कारणं निमित्तं मागेव भणितं किमिति विस्मार्यते । न च वक्तव्यमेकेनैव मङ्गलेन तत कारणत्रयं सेत्स्यति, यतो यथैव शास्त्रं मङ्गलमपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गल न भवति साधुवत् , तथा शास्त्रस्याऽऽदि-मध्या-ऽवसानानि मङ्गलरूपाण्यपि मङ्गलबुद्धिपरिग्रहं विना न मङ्गलकार्य कुर्वन्ति, इति मङ्गलप्रयाभिधानम् ॥ इति गाथार्थः ॥२१॥ तदेवं मालाभिधानमुपपत्तिभिर्व्यवस्थाप्य मङ्गलशब्दार्थ निरूपयितमाह
मंगिजएंऽधिगम्मइ जेण हि तेण मंगलं होइ । अह्वा मंगो धम्मो तं लाइ तयं समादत्ते ॥२२॥
'अगि-रगि-लगि-वगि-मगि' इत्यादौ मगिर्गत्यर्थो धातुः, अतस्तस्याऽलच्प्रत्ययान्तस्य मङ्ग्यतेऽधिगम्यते साध्यते यतो हितमनेन तेन कारणेन मङ्गलं भवति । अथवा मा इति धर्मस्याऽऽरव्या, 'ला आदाने' धातुः, ततश्च मङ्गं लाति समादत्ते इति मङ्गलं
इह मजलमपि मालबुख्या मङ्गलं, यथा साधुः । मङ्गलनिकवुद्धिपरिग्रहे ऽपि ननु कारणं भणितम् ॥२१॥२ गाथा 12055-1
३ मण्यतेऽधिगम्यते येन हितं तेन मङ्गलं भवति । अथवा मङ्गो धर्मस्तं लाति तकं समादत्ते ॥ २२ ॥ धर्मोपादानहेतुरित्यर्थः ॥ इति गाथार्थः ॥ २२॥
अहवा निवायणाओ मंगलमिठ्ठत्थपगइपञ्चयओ। सत्थे सिद्धं जं जह तयं जहाजोगमाओजं ॥ २३ ॥
अथवा निपातनाद् मङ्गलमिति साध्यते । कथम् ?, इत्याह-इष्टार्थप्रकृतिप्रत्ययतः, तत्रेप्टो विवक्षितोऽर्थो यास ता इष्टार्थाः प्रकृतयः तद्यथा-'मकि मण्डने' 'मन ज्ञाने 'मदी हमें 'मुद मोद-स्वम-गति' 'मह प्रजायाम' इत्येवमादिः प्रत्ययस्त्वेतासा प्रकृतीना सर्वत्र 'अल' एव विधीयते, ततो मङ्गलमिति रूपं निपात्यते । व्युत्पत्तिस्त्वेवम-मक्यतेऽलंक्रियते शास्त्रमनेनेति मङ्गलम् , तथा मन्यते ज्ञायते निश्चीयते विघाभावोऽनेन तथा माद्यन्ति दृष्यन्ति मदमनभवन्ति, मोदन्ते. शेरते विघ्नाभावेन निष्पकम्पतया सुप्ता इव जायन्ते, शास्त्रस्य पारं गच्छन्त्यनेनेति, तथा मान्ते पूज्यन्तेऽनेनेति मङ्गलमिति । एवमादि व्याकरणशास्त्रे यद् यथा निपातनं सिद्धम्, तद् यथायोगं यथासंबन्धमत्र खधियाऽऽयोज्यं लक्षणः ।। इति गाथार्थः ॥ २३॥
में गालयइ भवाओ मंगलमिहेवमाइ नेरुत्ता । भासंति सत्थवसओ नामाइ चउव्विहं तं च ॥ २४ ॥
अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः। इह मङ्गलविचारे एवमादि नैरुक्ताः शब्दविदः शास्त्रवशतं व्याकरणानुसारेण भाषन्ते मङ्गलशब्दार्थ व्याचक्षते । आदिशब्दात शास्त्रस्य मा भूद् गलो विघ्नोऽस्मादिति मङ्गलम्, अथवा शास्त्रए मा भूद् गलो नाशोऽस्मिन्निति मङ्गलम, सम्यगदर्शनादिमार्गलयनाद वा मालमित्यादि द्रष्टव्यम्, इत्यलं विस्तरेण । इह तच्च-प याय-भदव्याख्या, तत्र तत्त्वं शब्दार्थरूपम, तत्तावद् निर्णीतम। पर्यायास्तु मङ्गलं, शान्तिः, विघ्नविद्रावणमित्यादयः स्वयमेव द्रष्टव्याः भेदास्तु स्वयमेव निरूपयितुमाह- 'नामाइ चउबिह तं चेति, तच्च मङ्गलं नामादिभेदतश्चतुर्विधं भवति । तद्यथा-नाममङ्गलम् , स्थाप नामङ्गलम् , द्रव्यमङ्गलम् , भावमङ्गलं च ॥ इति गाथार्थः ॥ २४॥
तत्र नाम किमुच्यते । इत्याशक्य सामान्येन नाम्नस्तावल्लक्षणमाहपेज्जायाऽणभिधेयं ठिअमण्णत्थे तयत्थनिरवेक्खं । जाइन्छिअंच नामं जावदव्वं च पाएण ॥ २५ ॥
१ अथवा निपातनाद् मंगलमिष्टार्थप्रकृतिप्रत्ययतः । शास्त्रे सिद्धू यद् गथा तद् यथायोगमायोज्यम् ॥ २३॥ उज्ज-1. स्वसू२ मां गालगानि भगात् मालमिढवमादि नैरुताः । भाषन्ते शास्त्रवशतो नामादि चतुर्विध तज ॥ २४॥+गति-कान्तिपु३ पर्यायाना रिवनमाया (अवर्ष वा) तदर्थनिरपेक्षम् । यादृच्छिकं च नाम गायदद्वयं प प्रायेण ॥ २५॥ अलीय।
For Private and Personal Use Only