________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
10
. गङ्गलम् , तर्हि 'तं मंगलमाईए' इत्यादिवचनात् मङ्गले तत्र किमित्युपादीयते । सत्यम् , किन्तु 'सीसमइमंगलपरिग्गहत्यमेत्तं तदभिहाण' इत्यादिना वक्ष्यते सर्वमत्रोत्तरम् , मा त्वरिष्ठाः ॥ इति गाथार्थः ॥ १६ ॥ अथ समर्थवादितयार्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयबाह
अत्यंतरे वि सइ मंगलम्मि नामंगला-पुणवत्थाओ। स-पराणुग्गहकारिं पईव इव मंगलं जम्हा ॥ १७ ॥
शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाऽप्यनवस्था । कुतः १, इत्याह- यस्मात् स्व-परानुग्रहकारि मङ्गलम् , प्रदीपवत्-यथा हि प्रदीप आत्मानं प्रकाशयमानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तु घटपटाद्यर्थानाविष्कुवर्वाणः परेपामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते; यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् खप
रानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते । एवमर्थान्तरभूतं मङ्गलमपि निजसामर्थ्याच्छास्ने स्वात्मनि च मजालतां । व्यवस्थापयत् स्व-परानुग्राहकं भवति । ततो मङ्गलाद् मङ्गलरूपताप्राप्ती शास्त्रस्य तावद् नाऽमलता। यदा च मङ्गलमात्मनो मङ्गलरूपतायां मालान्तरं नापेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितेंव ॥ इति गाथाथः ।। १७ ।। पुनरन्यथा परःप्रेरयति
मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते । जइ वा सव्वं सत्थं मंगलमिह किं तियग्गहणं १ ॥१८॥
इह मालविचारमक्रमे, अर्थतोऽर्थापच्या एतत् ते तव आचार्य ! प्रसक्तं प्राप्तम् । किं तत् ?, इत्याह- मङ्गलानामादि-मध्याआसानलक्षणं त्रिकं मङ्गलत्रिकं तस्याऽन्तरालद्वयलक्षणमन्तरालं न मङ्गलमिति । यदा हि " मंगलमाईए मज्झे पतए य सत्थस्स' इत्यादिवचनादादिमध्यावसानलक्षणेषु विष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदव्याप्तमन्तरालद्वयमर्थापत्यवाऽमङ्गलं मामोतीति भावः । पर एवाह- यदि वा सिद्धान्तवादिन् ! एवं ब्रूयास्त्वं यदुत-सर्वमेव शास्त्रं मङ्गलमिति प्रागेवोक्तम् , अतः किमेवं प्रेर्यते । हन्त ! तर्हि 'तं मंगलमाईए' इत्यादिना किमिह मङ्गलत्रिकग्रहणं कृतम्। न हि सर्वस्मिन्नपि शास्त्रे मङ्गले 'आदौ मध्येऽवसाने च मङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति । तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्व, मङ्गलत्रयग्रहणं वा मा कृथा इति भावः ।। इति गाथार्थः ॥१८॥ १ गाथा २०। २ अर्थान्तरेऽपि सति मङ्गले नामङ्गलाऽनवस्थे । स्व-परानुग्रहकारि प्रदीप इव मङ्गलं यस्मात् ॥ १७ ॥ मिन-1
३ मङ्गलग्निकान्तरालं न मङ्गलमिहाऽर्थतः प्रसक्तं ते । यदि वा सर्व शास्त्रं मङ्गलमिह किं त्रिकग्रहणम् ॥ १८॥ गाथा १३ । आचार्यः प्राह- ..
सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो ? । सव्वं च निज्जरत्थं सत्थमओऽमंगलमजुत्तं ॥१९॥
बुद्ध्या शास्त्रे त्रिधा विभक्ते तस्य शास्त्रस्यान्तरालं तदन्तरालं तस्य परिकल्पनं कुतः संभवति ?- न कुतश्चिदित्यर्थः । यथा हि संपूर्ण मोदकादिवस्तुनि त्रिखण्डे विकल्पितेऽन्तरालंन संभवतिः तथाऽत्रापि, इति कस्याऽमङ्गलता स्यात् । इति । यदि नाम शास्त्रं त्रिधा विभक्तम् , तथापि कथं तस्य सर्वस्याऽपि मङ्गलता ? इत्याह- सर्व चावश्यकादि शास्त्र निर्जरार्थ कर्मापगमरूपा निर्जरा
यम् । तथा च सात तपोवत् स्वयमेव मङ्गलमिदमिति सामाद् गम्यते । यदि नाम निर्जरार्थत्वात् तपोवत खयमेवाऽऽश्यकादिशास्त्रं मङ्गलम् । ततः किम् ?, इत्याह-अतोऽमङ्गलमयुक्तम्, यतः सर्वमेव शास्त्र मङ्गलम्, अतो मङ्गलात्मान तस्मिंत्रिधा विभक्ते यदुच्यते 'अपान्तरालद्वयममङ्गलम् तदयुक्तमित्यर्थः । यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमङ्गलाऽव्याप्तत्वात् कापि तदमङ्गलं भवेत् , यदा तु सर्वमपि स्वयमेव तद् मङ्गलम् , तदा कापि तस्याऽमलता न युक्तेति भावः ॥ इति गाथार्थः ॥ १९॥
अथ प्रेरकः पाह
जैइ मंगलं सयं चिय सत्थं तो किमिह मंगलग्गहणं ? । सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं ॥२०॥ ___ यदि हि स्वयमेव शास्त्रं मालमिष्यते तदा त मंगलमाईए मज्झे' इत्यादिवचनात् किमिह मङ्गलग्रहणं क्रियते ?, स्वत एक मङ्गले मङ्गलविधानस्याऽनर्थकत्वादिति भावः । इति परेण प्रेरिते गुरुराह- 'सिस्सेत्यादि' शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽथेः प्रयोजनमस्य तत तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानं मङ्गलाभिधानमित्यर्थः इदमुक्तं भवति-- शास्त्रादनान्तरभूतमेव मङ्गलमुपादीयते, नार्थान्तरमिति मागेवोक्तम. नन्दिर्हि मङ्गलत्वेनाभिधास्यते, सा च पश्चज्ञानात्मिका, ततः शास्त्राण्यावश्यकादीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्वन्तर्गतान्येव, नन्दिरपि श्रुतरूपत्वेनाऽऽवश्यकादिशास्त्रान्तर्गतैव । तस्माद् नन्दमंगलत्वेनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमाभिहितं भवति । तत्रापि नाऽमङ्गलस्य सतः शास्त्रस्य मङ्गलताऽऽपादनार्थ तदभिधानम् ,
, शास्त्रे निधा विभक्ते तदन्तरालपरिकल्पनं कुतः । सर्व घ निर्जराथ शास्त्रमतोऽमङ्गलमयुक्तम् ॥ १९॥xमित्त२ यदि मङ्गलं स्वयमेव शास्त्रम्, तदा किमिह मङ्गलग्रहणम् । शिष्यमतिमङ्गलपरिप्रहार्थमात्रं तदभिधानम् ॥ २०॥ ३ गाथा ।।
For Private and Personal Use Only