________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा० दसकालिअस्स तह उत्तरज्झमा-ऽऽयारे, सूयगडे निज्जुत्ति" इत्यादिग्रन्थे आवश्यकस्य नियुक्ति प्रतिज्ञाय नमस्कारस्य नियुक्तिकरणमसंगतमेव स्यात् । तस्मात् तत्करणादेव सर्वश्रुताभ्यन्तरताऽस्य प्रतीयते। अतो व्यवस्थितमिदम्- आवश्यकानुयोगप्रतिज्ञाविधानेनैव ननस्कारानुयोगः संगृहीत एव, करिष्यते च नमस्कारनियुक्तिव्याख्यानावसरे भाष्यकारोऽपि तदनुयोगम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ तदेवं समसङ्गमभिहितं योगद्वारम् ॥ ११ ॥ अथ तृतीयं मङ्गलद्वारमधिकृत्याऽऽह
बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । घेत्तव्यो सो सुमहानिहित्व जह वा महाविज्जा ॥ १२ ॥ "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि" इति वचनाद् येन बहुविघ्नानि श्रेयांसि भवन्ति तेन कारणेन परमश्रेयोरूपत्वात् कृतमजालोपचारैरेव स आवश्यकानुयोगो ग्रहीतव्यः । किंवत् १, इत्याह- शोभनमहारत्नादिनिधिव, महाविद्यावद् वा ॥ इति गाथार्थः॥१२॥
क्व पुनस्तन्मङ्गल शास्त्रस्येष्यते १, इत्याह
ते मंगलमाईए मज्झे पजन्तए य सत्थरस । पढमं सत्थत्थाऽविग्धपारगमणाय निद्दिठं ॥ १३ ॥
तद् मङ्गलं शास्त्रस्यादौ क्रियते, तथा मध्ये, पर्यन्ते चेति । अथैकैकस्य करणफलमाह- प्रथममङ्गलं तावच्छास्त्रार्थस्याऽविघ्नेन पारगमनाय निर्दिष्टम् ॥ इति गाथार्थः ॥ १३ ॥
तेरसेव य थेजत्थं मज्झिमयं, अंतिम पि तस्सेव । अब्बोच्छित्तिनिमित्तं सिरसपसिस्साइवंसस्स ॥१४॥ तस्यैव शास्त्रस्य प्रथममङ्गलफरणाऽनुभावादविघ्नेन परम्परांमुपागतस्य स्थैर्यार्थ स्थिरताऽऽपादनार्थ मध्यमं मङ्गलम् , निर्दिष्टमिति वर्तते, 'अन्तिम पीति' अन्त्यमपि मङ्गल तस्यैव शास्त्रार्थस्य मध्यममङ्गलसामर्थ्येन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम् , फस्य, योऽसौ शास्त्रार्थः १, इत्याह- शिष्यपशिष्यादिवंशगतस्येत्यर्थः । शिष्यपशिष्यादिवंशे शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः ॥ इति गाथार्थः॥ १४ ॥
, बहुविघ्नानि श्रेयांसि तेन कृतमङ्गलोपचारैः । ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या ॥ १२॥ २ सद् मङ्गलमादी मध्ये पर्यन्तके च शास्त्रस्य । प्रथम शास्त्रार्थाऽविघ्नपारगमनाय निर्दिष्टम् ॥१३॥x परंपार ।'
३ तस्यैव च स्थैर्यार्थ मध्यमकम् , अन्तिममपि तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशस्य ॥४+शास्त्र (अर्थस्योमंगलकरणा सत्थं न मंगलं, अह च मंगलस्सावि । मंगलमओऽणवत्था न मंगलममंगलत्ता वा ॥१५॥
प्रेरकः प्राह- भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति । कुतः १, इत्याह- मङ्गलकरणात् अमङ्गले हि मङ्गलमुपादीयते, यतु स्वयमेव मङ्गलं तत्र किंमङ्गलविधानेन ?, न हि शुक्लं शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्माद् तन्मङ्गलोपादानान्यथानुपपत्तेः शास्त्रं न मङ्गलम् । अथ मङ्गलं शास्त्रम् , मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्यभ्युपगम्यते; अत एवं सति तनवस्था-मङ्गगानामवस्थान न क्वचित् प्राप्नोति, तथाहि- यथा मङ्गलस्याऽपि सतः शास्त्रस्याऽन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य मनोऽन्यद् मङ्गलमुपादेयम् , तस्याऽप्यन्यत् , अपरस्याऽप्यन्यत् , इत्येवमनवस्था आपतन्ती केन वार्यते? ! अथ शास्त्रे यदुपातं मङ्गलं नस्यान्यमङ्गलकरणाभावत इयं नेष्यते । तत्र दूषणमाह- 'न मङ्गलमिति' शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्याऽनवस्थाभयेनाऽन्यमङ्गलाकरणेन तद् मङ्गलं न स्यात् , अन्यमङ्गलाभावात् , शास्त्रवत् , इत्यर्थः; इदमुक्तं भवति- यदि मङ्गलस्याऽपरमङ्गलविधानाभावेनाऽनवस्था नेष्यते, तर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत् , न्यायस्य समानत्वात् । तथा च किमनिष्टं स्यात् १, इत्याह- अमङ्गलता मङ्गलाभावः- शास्त्रे यद् मङ्गलमुपात्तं तदन्यमङ्गलशून्यत्वाद् न मङ्गलम् , तस्य च मङ्गलवाभावे शास्त्रमपि न मङ्गलम्, इति व्यक्त एव मङ्गलाभाव इति भावः । वाशब्दः पक्षान्तरसूचका- अनवस्था, मङ्गलीभावो वेत्यर्थः ॥ इति गाथार्थः ॥ १५॥
अत्रोत्तरमाह
सत्थत्थन्तरभूयम्मि मंगले होज कप्पणा एसा । सत्थम्मि मंगले किं अमंगलं काऽणवत्था वा? ॥ १६ ॥
शास्त्रादावश्यकादेरर्थान्तरभूते भेदवति मङ्गले उपादीयमाने भवेद् घटेत परेण विधीयमाना • मंगलकरणा सत्यं न मंगलं' इत्यादिका कल्पना दोषोत्प्रेक्षालक्षणा; शास्त्रे त्वावश्यकादिके परममङ्गलस्वरूपेऽभ्युपगम्यमाने, तद्भिन्ने मङ्गले. चाऽनुपादीयमाने हन्त ।
किममङ्गलम् , का वाऽनवस्था त्वया प्रेयते । तस्मादाकाशरोमन्थनमेव परस्य दोपोद्भावनमिति भावः । आह- यदि शास्त्रं स्वयगर ..त्यभावो- मङ्गलकरणाय्छास्त्रं न मङ्गलम् , अथ च मङ्गलस्याऽपि । मङ्गलमतोऽनवस्था न मङ्गलममङ्गलत्वाद् वा ॥ १५॥लत्याभाव
२ शास्त्रार्थान्तरभूते मङ्गले भवेत् कल्पनेपा । शाख्ने मङ्गले (मङ्गलरूपे) किममङ्गलं काऽनवस्था वा ॥ १६॥ ३ गाथा १५ ।
For Private and Personal Use Only