Book Title: Tattvarthadhigama Sutra
Author(s): Umaswati, Umaswami, Vijaydarshansuri, Yashovijay
Publisher: Motiji Kapurchand Tarachand

View full book text
Previous | Next

Page 278
________________ : २०२: तत्वार्थविवरणपूढार्थदीपिका । द्वा० सू.टी. तस्मादुपयोगन्द्रियमेव प्रदीप इव प्रकाशस्य स्वाभिन्नप्रमायाः करणमे-यमिति देवसरिप्रभृतयः । प्रमाणशेवः सम्यग्ज्ञाने ४ एव, फलं तु यथासम्भवं दोपनिवृत्तिः केवलं तु स्वयं फलभेवेति तु युक्तम् । शेषाणामपि द्रव्यार्थतः प्रत्यक्षवाद्यथा ज्ञानं स्वसंविदितमेवं तेऽपि वसंविदिताः किं न स्युः ?, तथा च बौद्धाप्रति सुखादीनां स्वसंविदितत्वप्रतिपेवप्रयासो निसार एवं स्यात् , तदिह यत् स्वयमात्मानं वेत्ति तत् संविदितमुच्यते, उपयोग एवं तादृशो, न शक्तिः सुखादयश्च । शक्तिहि द्रव्याधिगमद्वारग्रहणा, सुखादयश्च पुनरुपयोगात्यपर्यायान्तरसमधिगम्या इति । किञ्च यदि द्र०यार्थतः प्रत्यक्षत्वात् स्वसंविदिता ज्ञानशक्तिस्तदाऽहं पटज्ञानेन वर्ट जानामीति करणाल्लेखों न स्यात् , न हि कलशसमाकलनलायां द्रव्यार्थतः प्रत्यक्षत्वेऽपि प्रतिक्षणपरिणामिनामततिानागतानां च कुशलकपालादीनामुल्लेखोऽस्ति, तत उपयोग. एवं साधकतमः प्रत्यक्षेऽपि प्रमाफलं प्रतीत्य सिद्धः, तस्यैव तत्र घटमानत्यादिस्थाशयेनोपसंहारमाह-तस्मादुपयोगेन्द्रियमेवेत्यादि । साभिन्नप्रमायाः करणमेटव्यमिति-प्रदीपः स्त्र प्रकाशात्मना स्वेनैव प्रकाशयतीनि प्रतीतेः प्रदीपात्मनः कः कथञ्चिदभिन्नस्य प्रकाशात्मककरणस्य प्रकाशनक्रियायाश्च प्रदीपात्मिकायाः कथञ्चिदभेदसिद्धेयथा प्रकाशनक्रियात्मकफलस्य. स्वाभिन्नप्रदीपः करणं. तथा स्वार्थव्यवसितिरूपग्रमात्मकज्ञप्तिफलस स्वामिन्नोपयोगन्द्रियमेव करणमभ्युपगन्तव्यम् , ज्ञानं स्मात्मनैव स्मं प्रकाशयतीति प्रतीतेः । एतेनोपयोगात्मकज्ञानस्य प्रमाणत्वे फलत्वं कस्य कथ्यते जिनानुगः, स्वार्थसवित्तरेवेति चेत्तर्हि स्त्रपरव्यवसायित्वं प्रमाणे कथं घटनामियादित्यारेकाऽपि निरस्ता, प्रमाणप्रमाफलयोः कथञ्चिदभेदे दूषणकणस्थाप्यनवकाशात्, नन्ये कस्मिन्नेत्र ज्ञाने प्रमाणत्वप्रमात्वविरोध एवं दुद्धरो दोपोति चेत्, स्यादेतत् यधेकस्वभावेन तदुभयाभ्युपगम स्यात्, न चैवम्, पावको दहत्यायनत्यत्र यथा दहनक्रिया तत्करणमौष्ण्यं च पावके युगपदाहकत्वस्वभावेनौण्यत्वरममावन च स्वीकृत तथा साधकतमत्वस्वभावेन ज्ञाने प्रमाणत्वं ज्ञप्तिक्रियात्वस्वभावेन प्रभाफलस्वमित्येवमुरलीकारा । घटाभावीयप्रतियोगितावान् ५८ इत्यत्र प्रतियोगितामा प्रतियोग्यात्मकत्वपक्षे एकत्रच घटत्वेन प्रतियोगितात्वनाश्रयत्वाश्रितत्ववत् प्रतियोगिताया अवच्छेदकात्मकत्वपक्षे च घटामावीयप्रतियोगिता- घटत्वावच्छिन्नत्यत्रैकत्रैव पटवन प्रतियोगिता नावच्छेदकत्वावच्छिन्नत्ववच्च नैव तत्र स्वभावभेदापेक्षयोस्तयोः कोऽपि विरोधः, प्रमाणप्रमालयोश्च कथञ्चिदभेदात्तदुभयस्य स्वपरव्यवसायित्वमप्युपपद्यत एव । यदुक्त स्थाद्वादरत्नाको प्रथमपरिच्छेदे १४-"ज्ञानस्याथ प्रमाणत्वे, फलत्वं कस्य कथ्यते ? । स्वार्थसवित्तिरस्स्येव, ननु किं न विलोक्यने ? ॥ ४० ॥ स्यात्कलं स्वार्थसंवित्ति-यदि नाम तदा कथम् ।। पर०यवसायित्वं, प्रमाणे घटनामियातः॥४१॥ उच्यते स्याद भेदात्प्रमाणस्य, स्वार्थव्यवसितः फलात् ।। नैव ते सर्वथा. कश्चिद्, दूषणक्षण ईक्ष्यते ॥ ४२ ॥ आश्चर्यमाश्चर्यभहो तदेतद्, , · · विलोक्यतां अपलपटाङ्गितानाम् । ज्ञानं यदेकं नितरा विरुद्ध-प्रमाप्रमाणत्वपदं वदन्ति ॥४३॥ .

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472