Book Title: Tattvarthadhigama Sutra
Author(s): Umaswati, Umaswami, Vijaydarshansuri, Yashovijay
Publisher: Motiji Kapurchand Tarachand
View full book text ________________
तत्वार्थविवरणगूढार्थदीपिका | पंचत्रिंशचमसू० टी०
घटादिपदादुपस्थितस्य शाब्दबोधे प्रवेशवारणाय वृतिजन्यपदार्थोपस्थितिरेव हेतुः तथाप्यत्राश्रयतया वृत्तिमत्त्वस्य सत्त्वान्नानुपपत्तिः, निरूपकताश्रयतान्यतरसम्वन्धेन वृत्तिमतः शाब्दबोधे वृत्तिज्ञानत्वेन हेतुत्वकल्पने दोषाभावात्, सम्बन्धस्योभयनिरूप्यत्वात्पदादर्थस्येवार्थादुद्बोधकत्वेन शब्दस्यापि ज्ञानसम्भवाच्च । तदुक्तं वाक्यपदीये "ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथभानं तथैव घटमानयेत्यादौ घटादिपदानामपि तां सामग्रीमादाय मानस्य दुर्वारतया शाब्दबोधमात्रस्य शब्दविषयकत्वसिद्धिरिति । प्रवेशवारणायेति-घटोऽस्तीत्यादिवाक्यजन्यशाब्दबोधे भानापत्तिवारणायेत्यर्थः । वृत्तिजन्येति-वृत्तिज्ञानजन्येत्यर्थः । वृत्तिजन्यपदाथपस्थितिरेव हेतुरिति-अत्र यद्यपि शाब्दबोधे समानविषयत्वप्रत्यासत्या वृत्तिजन्योपस्थितिरेव हेतु:, यत्र पदार्थे यस्य पदस्य वृत्तिः तत्पद वृत्तिजन्या तत्पदार्थस्योपस्थितिर्भवतीत्येतावता वृत्तिजन्यपदार्थोपस्थितिः शाब्दबोधे हेतुरित्यभिधीयते, न तु कारणावच्छेदकतया पदार्थविपयकत्वमप्युपस्थितौ निवेश्यत इति लाघवम्, आत्मनिष्ठप्रत्यासत्योपस्थितिशाब्दबोधयोः कार्यकारणभावे तु समवायेन तत्पदार्थविषयकशाब्दबोधम्प्रति समवायेन वृत्तिजन्यपदार्थोपस्थितिर्हेतुरिति गौरवं स्यात् एवञ्च वृत्तिजन्यपदार्थोपस्थितिरेव हेतुरित्यत्र पदार्थविषयकत्वेनोपस्थितेरभिधानमसङ्गतमित्र प्रतिभाति, तथापि घटमुच्चारयतीत्यादानुच्चारणकर्मत्वस्य कम्बु ग्रीवादिमत्यभावाद् घटपदस्यैव कर्मान्त्रिततया शाब्दबोधविषयत्वमिति वृत्तिजन्या पदरूपस्य पदार्थस्य योपस्थितिः सैव हेतुर्न तु सम्बन्धान्तरजन्यपद रूपपदार्थोपस्थितिः, शाब्दबोध हेतुरि त्यर्थे नासङ्गतिः, अत्र पदार्थविषयकत्वं न कारणतावच्छेदककोटौ निवेश्यते, किन्तु कारणीभूतोपस्थितिः पदार्थविपयिकेति पदस्यापि पदार्थत्वेन तद्विषयकत्वं तत्र समस्तीति तद्बलात्पदरूपपदार्थस्य शाब्दबोधे भानोपपत्तिरित्यभिप्रेत्य तदुक्तिरिति । सत्त्वान्नानुपपत्तिरिति-शब्दे सत्त्वात्तस्य न शाब्दबोधविषयत्वानुपपत्तिरित्यर्थः । नन्वाश्रयतासंसर्गेण वृत्तिमत्यस्यैव शाब्दबोधविपयत्येतन्त्रत्वे निरूपकतासम्बन्धेन वृत्तिमतोऽर्थस्य शाब्दे भानानुपपतिरत आह निरूपकेति । वृत्तिमतः शाब्दबोध इति-उक्तान्यतरसम्बन्धेन वृत्तिमानर्थः शब्दचेति तद्विपयकशाब्दबोध इत्यर्थः । ननु पदाद् वृत्तिज्ञानद्वारा तद्वाच्यार्थशाब्दबोधोत्पत्तौ तत्र वृत्तिज्ञानद्वारोपस्थितार्थमानसम्भवेऽपि तत्र शब्दस्यापि मानं कथमित्याशङ्कानिवृत्यर्थमाह सम्बन्धस्योभयनिरूप्यत्वादिति-सम्बन्धस्योभयनिष्ठत्वेनोक्त सम्वन्धाश्रयस्यार्थस्येव श ०दस्यापि शाब्दबोधे भानं स्यादेवेत्यर्थः । हेत्वन्तरमप्याह- पदादर्यस्येवेत्यादि-यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टस्सन संज्ञां स्मारयितुं क्षमः ॥ १ ॥ इति । अस्मिन् श्लोके दृष्ट इत्यस्योपस्थित इत्यर्थः । अत्रार्थस्मरणजन्यशब्दस्मरणं शाब्दबोधार्थमेवीपन्यस्तमिति तज्जन्यशाब्दबोधः शब्दस्मरणानन्तरमेव भवितुमर्हतीति क्षणविलम्बोऽर्थादवगभ्वते । उक्तार्थे हरिसम्मतिमाह प्रात्यत्वं ग्राहकत्वं चेत्यादि । यथा तेजरत्रोपलब्धौ તૈનોન્ડાનપેહ્લેન વિધયીભાવમાપનમેવવવા દેવાઘાહિન્દી મિતિ તંત્ર તેનસિ
: ३३०:
Loading... Page Navigation 1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472