Book Title: Tattvarthadhigama Sutra
Author(s): Umaswati, Umaswami, Vijaydarshansuri, Yashovijay
Publisher: Motiji Kapurchand Tarachand
View full book text ________________
१३५६ : वायविवरणपूढार्थदीपिका । पंचशिसमसू० टी० -तत्तदर्शनाश्रयणमपीत्यनाविलः स्याद्वादमार्गः “ ज्ञात्वा सदूपणं वायवैयाकरणभूषणम् । कण्ठे निर्दूपर्ण . कुर्मः स्याद्वादं हैमभूषणम् ॥१॥" अत्र नयशब्दाथै निरूपिते प्रेरक आह-किमेते वस्त्वंशपरिच्छे. दयापृता नैगमादयो नयाः तन्त्रान्तरीयाः, तन्यन्ते विस्तार्यन्ते जीवादयः पदार्था अस्मिन्निति तन्त्रं जैनं प्रवचनं, तम्मादन्यत् काणभुजादिशास्त्रं तन्त्रान्तरं तस्मिन् भवाः कुशला वा, वादिनी वैशेषिकादयः, आहोश्चिदिनि पक्षान्तरे, स्वताना एव स्वं आत्मीयं तन्त्रं शास्त्र येषां ते तथा, जिनवचनमेव स्वबुद्धया विभजन्त इत्यर्थ. | चोदकस्य दोपसूचकस्य परस्य पक्षमाहिणो मतिभेदेन विप्रधाविता अयथार्थनिरूपका इति । तन्त्रान्तरीयत्वे एकत्र स्वसमयाभ्युपगतभागभावावलम्बित्वेनापादयिष्यमाणविप्रतिपत्तित्वानुपपसि., स्वतन्त्रत्वे चाशननिक्षेपित्येन मिथ्यादृष्टित्वप्रसङ्गः । एकस्यापि पदस्यारोचनातद्भावस्यावादिति चोदकस्याशयः । सूरिस्तूभयमप्येतत् त्यतया पक्षान्तरमाश्रयन्नाह अत्रोच्यत इति । ते तत्रारीया नापि स्वतन्त्रा-मिन्नमतयः । किन्तु ज्ञेयस घटादरच्यवसायान्तराणि ज्ञानभेदा, एतानि नैगमादीनि पञ्च । इदमुक्तं भवति-वस्त्वेवानेकधर्मात्मकमनेकाकारेण ज्ञानेन निरूप्यत इत्यतः स्वशास्त्रनिरूपशान्दबोधः । तथा च देवदत्तो गच्छतीत्याकवाक्यादेव ततनयभेदेन विभिन्नाकारशाब्दबोधोपपत्तरापक्षिकतथाविधशाब्दबोधन नकवाक्यस्य स्याहादत्वं युक्तियुक्त मेवेति भावः । यावन्ति तीर्थकरवचनानि तावन्ति नयगर्भितान्येव अत एवं तीर्थकरवचनमूलभूता नया इति सपा स्वरूपप्रदर्शनेन सुनयत्वप्रतिपत्तये भाष्ये भूमिकामाह-अत्राह-किमेते तन्त्रान्तरीया वादिन इत्यादि । क एवमाहेत्यत आह अत्र न यशव्दार्थ निरूपिते प्रेरक आहेत। तन्त्रान्तरीया इत्यस्यार्थमाह-तन्यन्त इत्यादि । मतिभेदेनेति विभिन्नाभिप्रायेणेत्यर्थः । स्याद्वादविषयाने कान्तात्मकवस्तु नस्त तदंशानादाय विज्ञानविशेषलक्षणाध्यवसायनानात्वात् पूर्वपूर्वनयाभ्युपगतविषयापेक्षया सूक्ष्मसूक्ष्मतरसूक्ष्मतमायंशविषयका उत्तरोत्तरनया इति तत्तत्रयप्रतिपाद्यविरु द्वधर्मप्रकार कविप्रतिपत्तित्वप्रसङ्गः "एवमिदानीमकस्मिनऽध्यवसायनानात्वान्ननु विप्रतिपत्तिप्रसङ्गः" इत्युत्तरग्रन्येनापादयिष्यमाणोऽसङ्गतस्स्यादित्याधपक्षे दोपमाह तन्त्रान्तरीयत्वे एकत्रेत्यादि । “पय मक्खरंपि इक्कंपि, जो न रोएइ सुत्तनिदि । सेसं रोयतो वि हु. मिच्छदिट्ठी जमालिव्ध ॥१॥" इति पारमोक्तिमनुस्मरन्मियादृष्टित्वप्रसङ्ग हेतुमाहे-एकस्थापि पदस्यारोचनादिति । सत्यासत्यभेदाभेद नित्यत्वानित्यत्वादयो धर्माः परस्परविरहरूपत्वेन वह्निनद भाववद्विरुद्धा इति नैकस्मिन्नेवार्थेऽवच्छेद कभेद मन्तरेणावतिष्ठन्ते इति तेपामविरोवद्योतनायावच्छेद कभेदोऽपेक्षणीयः, तथा च नितम्बशिखरावच्छेदेन पर्वते वहितःभाववत् भिन्नभिन्नतत्तदवच्छेदकावच्छेदेनैकार्थे तेवतिष्ठमाना अपि न विरुद्धः, अवच्छेदभेदश्च नयभेदेनैव प्रतिपादनीय इत्यविरोधप्रतिपत्तयेऽपेक्षणीया नया न तन्त्रान्तीयाः, स्याहादासद्धान्तानभिमतकान्तधर्माप्रतिपादकत्वात् , न वा स्वतन्त्री, आर्हतसिद्धान्तविरुद्ध स्वमतिकल्पनाकल्पितांशमादायाप्रवृत्तत्वात् , किन्तु स्याद्वादलक्षणप्रमाणराजमार्गानुगमनपरोनोमयविलक्षणा एवेत्याशयकमत्रोच्यत इत्यस्यावतरणमाह-सूरिस्तू भयमप्येतदितिा अनेकाकारेण ज्ञानेन निरूप्यत इति एकमेव वस्तु महदपेक्षयाई, अण्यपेक्षया
Loading... Page Navigation 1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472