Book Title: Tattvarthadhigama Sutra
Author(s): Umaswati, Umaswami, Vijaydarshansuri, Yashovijay
Publisher: Motiji Kapurchand Tarachand

View full book text
Previous | Next

Page 434
________________ : ३६८ : तत्वार्थविवरणमूढार्थदीपिका । पञ्चत्रिंशत्तम. टी. " अयं न संशयः कोटे रक्यान्न च समुच्चयः । न विनमो यथार्थत्वा-दपूर्णत्वाच्च न प्रमा ॥१॥” इति, : तथा “ न समुद्रोऽसमुद्रो वा, समुद्रांशो यथोच्यते । नाप्रमाणं प्रमाण वा, प्रमाणांशस्तथा नयः ॥१॥ इति, तवभत्र त्यमस्मत्कृतनयामृततरङ्गिण्याम् ।। उदाहरणदर्शितमेव नयलक्षणं संक्षिप्तरुचीनामनुग्रहार्थमा- .. याभिर्वतुकामः प्रक्रमते । आह-चेत्यादि । आह चेत्यात्मानमेव पर्यायान्तरवर्तिन निर्दिशति । नैगमः निगमो जनपदस्तत्र भवा ये शब्दास्तेषामर्था अभिधेयास्तेषाम् , एको विशेषः, अनेक सामान्यमनकव्यक्तिवृत्तित्वात् , तावेव यावौँ तयोर्नयः प्रकटनं स एव गमोऽन्यव्यावृत्तिप्रकार तभपेक्षतेऽभ्युपैति यः स तथा, देशसमग्रे विशेषसामान्ये ग्रहीतुं शीलं यस्य स तथा, व्यवहारी सामान्यविशेषाभ्यां परस्परविमुखान्या अस्ति वस्त्विति व्यवहाँ शीलं यस्य स तथा, नैगमो नयो ज्ञेयः । परस्परविमुखत्वं च तयोः पदा. बोधात्मकं प्रमाणज्ञानम्, नयज्ञानं त्येकै कमङ्गजन्य वस्तुगतकधर्मप्रकार कखण्डवोधरूपमिति ततस्तद्विलक्षणमिति भावः । यद्यपि नयज्ञानस्य तद्वति तत्प्रकारकत्वाल्लौकिकप्रवृत्युपयोगिप्रमात्यमस्त्येव, अन्यथा लौकिकन्यवहार एव न स्यात, तथाप्यत्रालौकिक तत्वविचारोपथिक प्रधानमावार्पितसकलांशावगाहिज्ञाननिष्ठप्रमात्वं नास्त्येवेति प्राधान्यनकाशावगानिस्तस्य ना लौकिकमामाण्यम्, न वाप्रामाण्यम् , लौकिकत्रामाण्यस्यापि सत्वात् , संशयसमुच्चयविपर्ययविलक्षणत्वाचेति तज्जात्यन्तरमेवेत्याह-जात्यन्तरमेवेति । स्वकृतनयोपदेशग्रन्थतिमाह-अयं न संशय इत्यादि। एतच्च पूर्वमेव विकृतम् । एतेन नयस्य प्रमाणत्वनिषेधेप्रमाणत्वं स्थात् , तनिषेधे प्रमाणत्वं स्यात् , विरोधिद्वयमध्ये एकनिषेधस्यापर विधानरूपत्वाव, राय रामावात् , तथा च प्रमाणानयस्य पृथगुपन्यासो व्यर्थ एवेत्यपि निरस्तम्, प्रमाणविषयकदेशवाहित्येन तस्य रूपान्तरस्यात् । एतदेव समुद्रांशदृष्टान्तेन व्यवस्थापयितुमाह न समु. द्रोऽसमुद्रोवेत्यादि। समुद्रैकदेशस्य समुद्रत्यासमुद्रत्वनिषेधवत् प्रमाणकदेशस्य नयस्थ प्रमाणत्वाऽप्रमाणत्वनिषेधोपपत्ति व्या। उक्तश्व समानतान्त्रिकैरपि तत्वार्थश्लोकवार्तिके "नाऽप्रमाण प्रमाणं वा, नयो ज्ञानात्मको मतः । स्वात्प्रमाणेकदेशस्तु, सर्वथाऽज्यविरोधतः ।।" इति । अधिक पूर्वमेव भावितमिति । एको विशेषः, अनेक सामान्यमनेकन्यनिवृत्तित्वादिति यद्यपि यावन्ति नित्यद्रव्याणि तावन्तो विशेषा इति नित्यद्रव्याणामान त्याद् विशेषा अनन्ताः, सामान्यन्त्वनेकव्यक्त्यनुगतमेकामिति वैशेषिका अभ्युपगच्छन्ति, एवञ्चैकं सामान्यमनेको विशेष इत्येवं वक्तुमुचितम् , एको विशेषः अनेकं सामान्यमिति तु विपरीताभिधानभित्र प्रतिभासते, सकलविशेषापेक्षया सकलसामान्यापेक्षया चाभिधाने यथाविशेषाणामानन्त्यं तथा परापरभेदभिन्नानां सामान्यानामपि आनन्त्यमिति विशेष सामान्यमपि अनेकमित्येक सामान्यमित्यपि ' वक्तुभयुक्तम् , तथाप्यत्र विशेषव्यक्तिसामान्यव्यक्त्यपेक्षयेकानेकनिर्वचनं, तत्र विशेषव्यक्तिरेकैकय वर्तत इति न तस्या आश्रय भेदात् स्वरूपतश्च भेद इति भवत्येको विशेषः, सर्वथैकस्यानेक . वृत्तित्वं न सम्भवति, यतः कथञ्चिभेदाभेद एवाधा राधेयभाव इति सामान्यसाधारण सह कथश्चिदभेदादाधारभेदे तस्यापि भेद इत्येकस्य सामान्यस्यानेकाधारकृत्तित्वादनेकत्वामिति भवत्यनेक .

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472