________________
: ३६८ : तत्वार्थविवरणमूढार्थदीपिका । पञ्चत्रिंशत्तम. टी. " अयं न संशयः कोटे रक्यान्न च समुच्चयः । न विनमो यथार्थत्वा-दपूर्णत्वाच्च न प्रमा ॥१॥” इति, : तथा “ न समुद्रोऽसमुद्रो वा, समुद्रांशो यथोच्यते । नाप्रमाणं प्रमाण वा, प्रमाणांशस्तथा नयः ॥१॥ इति, तवभत्र त्यमस्मत्कृतनयामृततरङ्गिण्याम् ।। उदाहरणदर्शितमेव नयलक्षणं संक्षिप्तरुचीनामनुग्रहार्थमा- .. याभिर्वतुकामः प्रक्रमते । आह-चेत्यादि । आह चेत्यात्मानमेव पर्यायान्तरवर्तिन निर्दिशति । नैगमः निगमो जनपदस्तत्र भवा ये शब्दास्तेषामर्था अभिधेयास्तेषाम् , एको विशेषः, अनेक सामान्यमनकव्यक्तिवृत्तित्वात् , तावेव यावौँ तयोर्नयः प्रकटनं स एव गमोऽन्यव्यावृत्तिप्रकार तभपेक्षतेऽभ्युपैति यः स तथा, देशसमग्रे विशेषसामान्ये ग्रहीतुं शीलं यस्य स तथा, व्यवहारी सामान्यविशेषाभ्यां परस्परविमुखान्या अस्ति वस्त्विति व्यवहाँ शीलं यस्य स तथा, नैगमो नयो ज्ञेयः । परस्परविमुखत्वं च तयोः पदा. बोधात्मकं प्रमाणज्ञानम्, नयज्ञानं त्येकै कमङ्गजन्य वस्तुगतकधर्मप्रकार कखण्डवोधरूपमिति ततस्तद्विलक्षणमिति भावः । यद्यपि नयज्ञानस्य तद्वति तत्प्रकारकत्वाल्लौकिकप्रवृत्युपयोगिप्रमात्यमस्त्येव, अन्यथा लौकिकन्यवहार एव न स्यात, तथाप्यत्रालौकिक तत्वविचारोपथिक प्रधानमावार्पितसकलांशावगाहिज्ञाननिष्ठप्रमात्वं नास्त्येवेति प्राधान्यनकाशावगानिस्तस्य ना लौकिकमामाण्यम्, न वाप्रामाण्यम् , लौकिकत्रामाण्यस्यापि सत्वात् , संशयसमुच्चयविपर्ययविलक्षणत्वाचेति तज्जात्यन्तरमेवेत्याह-जात्यन्तरमेवेति । स्वकृतनयोपदेशग्रन्थतिमाह-अयं न संशय इत्यादि। एतच्च पूर्वमेव विकृतम् । एतेन नयस्य प्रमाणत्वनिषेधेप्रमाणत्वं स्थात् , तनिषेधे प्रमाणत्वं स्यात् , विरोधिद्वयमध्ये एकनिषेधस्यापर विधानरूपत्वाव, राय
रामावात् , तथा च प्रमाणानयस्य पृथगुपन्यासो व्यर्थ एवेत्यपि निरस्तम्, प्रमाणविषयकदेशवाहित्येन तस्य रूपान्तरस्यात् । एतदेव समुद्रांशदृष्टान्तेन व्यवस्थापयितुमाह न समु. द्रोऽसमुद्रोवेत्यादि। समुद्रैकदेशस्य समुद्रत्यासमुद्रत्वनिषेधवत् प्रमाणकदेशस्य नयस्थ प्रमाणत्वाऽप्रमाणत्वनिषेधोपपत्ति व्या। उक्तश्व समानतान्त्रिकैरपि तत्वार्थश्लोकवार्तिके "नाऽप्रमाण प्रमाणं वा, नयो ज्ञानात्मको मतः । स्वात्प्रमाणेकदेशस्तु, सर्वथाऽज्यविरोधतः ।।" इति । अधिक पूर्वमेव भावितमिति । एको विशेषः, अनेक सामान्यमनेकन्यनिवृत्तित्वादिति यद्यपि यावन्ति नित्यद्रव्याणि तावन्तो विशेषा इति नित्यद्रव्याणामान त्याद् विशेषा अनन्ताः, सामान्यन्त्वनेकव्यक्त्यनुगतमेकामिति वैशेषिका अभ्युपगच्छन्ति, एवञ्चैकं सामान्यमनेको विशेष इत्येवं वक्तुमुचितम् , एको विशेषः अनेकं सामान्यमिति तु विपरीताभिधानभित्र प्रतिभासते, सकलविशेषापेक्षया सकलसामान्यापेक्षया चाभिधाने यथाविशेषाणामानन्त्यं तथा परापरभेदभिन्नानां सामान्यानामपि आनन्त्यमिति विशेष सामान्यमपि अनेकमित्येक सामान्यमित्यपि ' वक्तुभयुक्तम् , तथाप्यत्र विशेषव्यक्तिसामान्यव्यक्त्यपेक्षयेकानेकनिर्वचनं, तत्र विशेषव्यक्तिरेकैकय वर्तत इति न तस्या आश्रय भेदात् स्वरूपतश्च भेद इति भवत्येको विशेषः, सर्वथैकस्यानेक . वृत्तित्वं न सम्भवति, यतः कथञ्चिभेदाभेद एवाधा राधेयभाव इति सामान्यसाधारण सह कथश्चिदभेदादाधारभेदे तस्यापि भेद इत्येकस्य सामान्यस्यानेकाधारकृत्तित्वादनेकत्वामिति भवत्यनेक .