Book Title: Tattvarthadhigama Sutra
Author(s): Umaswati, Umaswami, Vijaydarshansuri, Yashovijay
Publisher: Motiji Kapurchand Tarachand

View full book text
Previous | Next

Page 415
________________ पवार्थविवरणदार्थदीपिका । पंचशित्तमम० टी० अत्र पश्य मृगो धावतीत्यादिभाष्यसिद्वैकवाक्यत्वानुरोधेन क्रियाप्रधानमाख्यातमिति वाक्याश्रयणेन चाल्या. तस्थले क्रियामुख्यविशेष्यक एव शा०६बोधः, तथा च पचतीत्यत्रै काश्रयका पाकानुकूला भावना, पच्यत इत्यत्रकायिका या विक्लितिस्तदनुकूला भावनेति बोधः । शतादीनां व्यापारफलयोराश्रयान्वयद्योतकत्वात् । देवदत्तादिपदप्रयोगत्वाख्यातार्थकादिभिस्तदर्थस्याभेदा-वयः । वटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकूलो व्यापार इति बोधः । स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् । अत ५५ तस्यां सत्यां नश्यति तदऽत्यये नटस्तदभावे नंक्ष्यतीति प्रयोगोपपत्तिः । देवदत्तो जानातीच्छतीत्यादौ च वैयाकरणमतं प्रतिक्षेप्तुमुपन्यस्यति-अत्रेति-पश्येत्यारभ्य रीत्योधमित्यन्तं तन्मतम् । पश्य भृगो धावतीत्यादिभाष्यसि द्वैकवाक्यत्वानुरोधेनेति-पश्य मृगो धावतीत्यत्र धावनानुकूल कृत्याश्रयमृगकर्मकदर्शनाभ्युपगमे मृगस्य दृशिवात्वर्थनिरूपितकर्मत्वाद् द्वितीयापत्तिः, तमित्यध्याहारे मृगो पावतीत्येक वाक्य, तं पश्येत्यपरमित्येवं वाक्यभेदापतिरित्यतो मृकtकवर्तमानधावनक्रियायाः कर्मत्वसम्बन्धेन दृशिक्रियायाम-चयः, तथा च न द्वितीयापत्तिशङ्का पि, मृगस प्रातिपदिकत्वेऽपि कर्मत्वाभावात् , क्रियायाः कर्मत्वेऽपि तद्वाचकस्य धाविधातो: धावतीति तितस्य च प्रातिपदिकन्याभावाच तस्याः प्रसकेरेवाभावात् । आदिपदग्राह्ये पचति भवतीत्यादाकवि देवदत्तकर्तृकपचिक्रियाया वर्तमानभवनक्रियायामन्वयः, "सुवन्त हि यथाऽनेक, तिअन्तस्य विशेषणम् । तया तिङन्तमप्याहु,-स्तिङन्तस्य विशेषणम् ॥१॥" इत्युक्तेः तिङन्तक्रियायां सुबन्तविशेषणमिव तिअन्तविशेषणमपि युक्तियुक्तमेवेति । भाष्यसिद्धति-क्रियाऽपि कृत्रिमं कर्म, क्रियापि हि क्रिययेप्सिता भवति, कया-संदर्शनप्रार्थनादिक्रियया" इति "कर्मणा यम" पा० सू० ११४।३२॥ इति सूत्रस्थभाष्यमिद्धेत्यर्थः । विकृतिरिति विक्लितिलक्षणविकृतिरित्यर्थः । शप्तकादीनां व्यापारफलयोराश्रयान्वयद्योतकत्वादिति-कर्तृप्रत्ययस्थले शश्नभानमादीनां धात्वर्थे व्यापार आश्रयान्न यस्य कर्मप्रत्यस्थले तङ्न्यकचिणादीनां धात्वर्थे फले आश्रयान्वयस्य द्योतकत्वात्तात्पर्यग्राहकवादित्यर्थः । देवदत्तादिप्रयोगे त्वाख्यातार्थकत्रादिभिस्तदर्थस्याभेदान्वय इति-तथा च देवदत्तः पचतीत्यादौ देवदत्ताभिन्नैकातको विक्लितिफलानुकूलो वर्तमानो व्यापार इति शाब्दबोधः । तत्र व्यापारी भावनाकारनामिका साध्यत्वनाऽभिधीयमाना क्रिया । एतेन समानविभक्ति कयोरेवाभेदान्य इति नैयायिकोक्तो नियमोऽपि निरस्तः, स्तोकं पचतीत्यादौ व्यभिचाराच, अकर्मकस्थलेऽपि फलव्यापारोभयार्थकत्वं धातोरन्यैरपि स्वीकार्यमिति सूच-छाब्दयोधप्रकारमाह-घटो नश्यतीत्यत्रापीति । तयापाराशायामाह-स चेति । प्रतियोगित्वविशिष्टेति-अत्र वैशिष्टयं निरूपकता. सम्बन्धेन-बोध्यम् । सामग्रीसमवधानभिति-तदनुकूलो व्यापार इत्यर्थः। अन्य प्रतियोगिकनाशसामग्रीसमधानेऽपि घटो नश्यतीत्यप्रयोगात् स्वप्रतियोगित्वविशिष्टार्थक मुक्तविशे; पणमुपात्तम् , अत एवेति-नग्धातोः प्रतियोगित्वविशिटनाशकलकतत्सामग्यर्थकत्वादेव, तदत्यये प्रतियोगित्वविशिष्टनाशसामग्रीविनाशे । तदभावे उत्सामग्रीमानमात्रे ।

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472