Book Title: Tattvarthadhigama Sutra
Author(s): Umaswati, Umaswami, Vijaydarshansuri, Yashovijay
Publisher: Motiji Kapurchand Tarachand

View full book text
Previous | Next

Page 285
________________ -वार्थ विवरणगूढार्थदीपिका । त्रयो० सू० टी० : २०१.: सम्बन्धोऽप्यनेनैव गृह्यते इति संज्ञाशब्दोऽन्वर्थः । चिन्ताज्ञानमागामिनो वस्तुन एवं निष्पत्तिर्भवत्यन्यथा नेत्याकारम् । आभिनिवोधिकमभिमुखो निश्चितो यो विषयतत्परिच्छेदोऽशेऽप्ययोग्यस्पर्शरहितो योग्यसाक्षात्कार इति यावत् ॥ १३ ॥ . .. अनेनैव संज्ञाज्ञानेनैवेत्यर्थः । एतेन गयो गवयपदयाच्य इत्युपमितिफलमपि संज्ञाज्ञानरूपमेवेति तस्य मंतिज्ञान एवान्तावान तज्जनकमतिरिक्तमुपमानप्रमाणमभ्युपगन्तव्यमिति सूचितम् , न चोपमिनोमीति प्रत्ययरलात्तद्भिनं सिद्धमिति वाच्यम् , अनुमितित्यादिकमियोपमितित्वमपि भतिज्ञानवव्याप्यमेवेत्य युपगमे दोपाभायात् । अभिमुख इति-सन्मुखः यथार्थबोधोत्पादनक्षम इति यावत्, एतेन भ्रमात्मकनिश्चयाविषयस्य व्यवच्छेदः कृतः । अभिमुखोऽपि विषयः क्षयोपशमाधपाटवे निश्चितोऽपि स्थादित्यत आह निश्चित इति । एतेन सन्दिग्धविषयस्य व्यवच्छेदः कृतः । यो यसाक्षात्कार इति-अत्र योग्यताऽऽभिनिबोधिज्ञानप्रतिवन्धकीभूतस्त्रावरणकर्मक्षयोपशमलक्षणा, सैव च तत्तत्प्रतिनियतप्रत्यक्षविषयत्वे प्रयोजिका, न तु स्वजनासनिकश्रियत्वं तन्त्रम्, नाप्यर्थः, तथा च प्रत्यक्षस यद्विपयत्यावच्छेदेन सावरणकर्मक्षयोपशमलक्षणयोग्यताऽऽविर्भवति तद्विपक-यमेव भवति, नान्यविषयकत्वम्, एवं विषयस्यापि स्वावच्याविभूतावरणक्षयोपशमादिलक्षणयोग्यताविशिष्टं जन्यतासम्बन्धेन यज्ज्ञानं तद्विपयत्वमेव, नान्यज्ञानविषयत्यम् । अत एव परोक्षज्ञानस्यार्थसन्निकर्पाद्यऽजन्यतया परेणाप्यभिप्रेतस्य प्रतिनियतविषयत्वव्यवस्थोपपत्तिः, यदर्थांशे परोक्षज्ञानावरणकर्मक्षयोपशमलक्षणयोग्यता तदर्थविषयकत्वस्यैव भावात् । नन्वय द्रव्यचाक्षुषादौ तत्प्रतिबन्धककर्मक्षयोपशमत्यादिना हेतुता वाच्या, तद्धतुता च चक्षुःसनिकदिश्व, तथा च तद्धतोरित्यादिन्यायेन प्रत्यक्षे इन्द्रियार्थसनिकस्य हेतुत्वं युक्तमिति चेत्, मैवम् , यतोऽन्तरजाहिरङ्गयोमध्येऽन्तरण स्यैव बलीयस्त्वमिति न्याय एकातरङ्गरूपक्षयोपशमस्य हेतुत्वे विनिगमक इति स एव हेतुर्युक्तः । एतेन स्थैर्यपक्षे विषयनिष्ठाया योन्यताया अपरावृत्तेनयनसन्निकर्षस्या हेतुत्वे भित्याधावृतस्य चाक्षुपापत्तिरित्यादिकमपातम् , भिन्यादिना चाक्षुषजनककर्मक्षयोपशमस्य प्रतिवन्यात् , अप्रतिवन्धे वा तद्वतां चाक्षुषापत्तेरिष्टत्वात् । अपरेषां तु मते दिव्याञ्जनादिसंस्कृतचक्षुषामनुभूयमानाभित्याद्यावृत्तार्थचाक्षुपानुपपत्तिः, चक्षुस्सन्निकाभावात् , तत्र चाक्षुपत्यापलापे च घटादिज्ञानेऽपि तदपलापप्रसङ्गः । किञ्च प्रत्यासत्तिहेतुत्ववादिना नेत्राञ्जनसूक्ष्मतारकाचप्रत्यक्षत्वायाऽत्यासचतिदुरत्वयोपित्वं वाच्यम्, आदर्शसा मुख्याञ्जनादिसन्निधाने च तत्प्रत्यक्षत्वाय तत्तद्विपये तदभावविशिष्टतत्तदासत्यतिदूरत्वाभावस्य चाक्षुपहेतुत्वं वाच्यमित्यतिगौरवम् । मम तु क्षयोपशमे आदर्शसा ख्याञ्जनादिसन्निधानस्य विशिष्य हेतुता, न तु चाक्षुषादौ, तत्र तु सा विलक्षपक्षयोपशमत्वेनैव समानप्रत्यासत्येति लाववम् , किश्वेन्द्रियप्रत्यासत्तेरपि क्षयोपशमाधायकत. यैव प्रत्यक्षहेतुता वाच्या, असल्येयसमयप्रविष्टानामेव पुद्गलानां ग्रहणयोग्यताथी: पारम२७

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472