________________
-वार्थ विवरणगूढार्थदीपिका । त्रयो० सू० टी० : २०१.: सम्बन्धोऽप्यनेनैव गृह्यते इति संज्ञाशब्दोऽन्वर्थः । चिन्ताज्ञानमागामिनो वस्तुन एवं निष्पत्तिर्भवत्यन्यथा नेत्याकारम् । आभिनिवोधिकमभिमुखो निश्चितो यो विषयतत्परिच्छेदोऽशेऽप्ययोग्यस्पर्शरहितो योग्यसाक्षात्कार इति यावत् ॥ १३ ॥ . .. अनेनैव संज्ञाज्ञानेनैवेत्यर्थः । एतेन गयो गवयपदयाच्य इत्युपमितिफलमपि संज्ञाज्ञानरूपमेवेति तस्य मंतिज्ञान एवान्तावान तज्जनकमतिरिक्तमुपमानप्रमाणमभ्युपगन्तव्यमिति सूचितम् , न चोपमिनोमीति प्रत्ययरलात्तद्भिनं सिद्धमिति वाच्यम् , अनुमितित्यादिकमियोपमितित्वमपि भतिज्ञानवव्याप्यमेवेत्य युपगमे दोपाभायात् । अभिमुख इति-सन्मुखः यथार्थबोधोत्पादनक्षम इति यावत्, एतेन भ्रमात्मकनिश्चयाविषयस्य व्यवच्छेदः कृतः । अभिमुखोऽपि विषयः क्षयोपशमाधपाटवे निश्चितोऽपि स्थादित्यत आह निश्चित इति । एतेन सन्दिग्धविषयस्य व्यवच्छेदः कृतः । यो यसाक्षात्कार इति-अत्र योग्यताऽऽभिनिबोधिज्ञानप्रतिवन्धकीभूतस्त्रावरणकर्मक्षयोपशमलक्षणा, सैव च तत्तत्प्रतिनियतप्रत्यक्षविषयत्वे प्रयोजिका, न तु स्वजनासनिकश्रियत्वं तन्त्रम्, नाप्यर्थः, तथा च प्रत्यक्षस यद्विपयत्यावच्छेदेन सावरणकर्मक्षयोपशमलक्षणयोग्यताऽऽविर्भवति तद्विपक-यमेव भवति, नान्यविषयकत्वम्, एवं विषयस्यापि स्वावच्याविभूतावरणक्षयोपशमादिलक्षणयोग्यताविशिष्टं जन्यतासम्बन्धेन यज्ज्ञानं तद्विपयत्वमेव, नान्यज्ञानविषयत्यम् । अत एव परोक्षज्ञानस्यार्थसन्निकर्पाद्यऽजन्यतया परेणाप्यभिप्रेतस्य प्रतिनियतविषयत्वव्यवस्थोपपत्तिः, यदर्थांशे परोक्षज्ञानावरणकर्मक्षयोपशमलक्षणयोग्यता तदर्थविषयकत्वस्यैव भावात् । नन्वय द्रव्यचाक्षुषादौ तत्प्रतिबन्धककर्मक्षयोपशमत्यादिना हेतुता वाच्या, तद्धतुता च चक्षुःसनिकदिश्व, तथा च तद्धतोरित्यादिन्यायेन प्रत्यक्षे इन्द्रियार्थसनिकस्य हेतुत्वं युक्तमिति चेत्, मैवम् , यतोऽन्तरजाहिरङ्गयोमध्येऽन्तरण स्यैव बलीयस्त्वमिति न्याय एकातरङ्गरूपक्षयोपशमस्य हेतुत्वे विनिगमक इति स एव हेतुर्युक्तः । एतेन स्थैर्यपक्षे विषयनिष्ठाया योन्यताया अपरावृत्तेनयनसन्निकर्षस्या हेतुत्वे भित्याधावृतस्य चाक्षुपापत्तिरित्यादिकमपातम् , भिन्यादिना चाक्षुषजनककर्मक्षयोपशमस्य प्रतिवन्यात् , अप्रतिवन्धे वा तद्वतां चाक्षुषापत्तेरिष्टत्वात् । अपरेषां तु मते दिव्याञ्जनादिसंस्कृतचक्षुषामनुभूयमानाभित्याद्यावृत्तार्थचाक्षुपानुपपत्तिः, चक्षुस्सन्निकाभावात् , तत्र चाक्षुपत्यापलापे च घटादिज्ञानेऽपि तदपलापप्रसङ्गः । किञ्च प्रत्यासत्तिहेतुत्ववादिना नेत्राञ्जनसूक्ष्मतारकाचप्रत्यक्षत्वायाऽत्यासचतिदुरत्वयोपित्वं वाच्यम्, आदर्शसा मुख्याञ्जनादिसन्निधाने च तत्प्रत्यक्षत्वाय तत्तद्विपये तदभावविशिष्टतत्तदासत्यतिदूरत्वाभावस्य चाक्षुपहेतुत्वं वाच्यमित्यतिगौरवम् । मम तु क्षयोपशमे आदर्शसा ख्याञ्जनादिसन्निधानस्य विशिष्य हेतुता, न तु चाक्षुषादौ, तत्र तु सा विलक्षपक्षयोपशमत्वेनैव समानप्रत्यासत्येति लाववम् , किश्वेन्द्रियप्रत्यासत्तेरपि क्षयोपशमाधायकत. यैव प्रत्यक्षहेतुता वाच्या, असल्येयसमयप्रविष्टानामेव पुद्गलानां ग्रहणयोग्यताथी: पारम२७