________________
: २०८ :
तत्वार्थविवरणगूढार्थदीपिका । ३० सू० टी० सूत्रम् भतिः स्मृतिः संज्ञा चिन्ताभिनियोध इत्यनान्तरम् ॥१॥१३॥ (भाष्यम्) मतिनानं स्मृतिज्ञानं साक्षानं चिन्ताज्ञान आभिनियोधिज्ञानमित्यनान्तरम् ।
(4शो० टीका) तथा च मत्यायन्यतरज्ञानं मतिज्ञानमित्यत्र लक्षणे तात्यर्थम् । अनयन्तिरमिति यावद्विशेषाणामेव सामान्यरूपत्वादित्यर्थः । मतिज्ञानमित्यादि भाष्यम्, प्रत्येकं ज्ञानशब्दो विशेषाणां पृथगूलक्षणीयत्वद्योतनार्थः । मतिज्ञानं नाम यदिन्द्रियानिन्द्रियनिमित्तं . वर्तमानकालविषयपरिच्छेदि । रतिज्ञानमतीत कालावच्छिन्नार्थपरिच्छेदि । न च प्रमृष्टतत्ताकस्मरणेऽव्याप्तिः, तस्यापि वस्तुत ईशत्वात् ,. न च प्रत्यभिज्ञानेऽतिव्याप्तिः, अनुभवाजन्यत्वेन विशेषणात् , प्रत्यभिज्ञानं चानुभवर तिहेतुकं तिर्यतासामान्यविषयं प्रसिद्धम् , अनुभवानन्यत्वमपि साक्षाद्विवक्षणीयम्, अन्यथा स्मृतिमात्रस्य संस्कारद्वाराऽनुभवहेतुकत्वादसम्भवापत्तेः । संज्ञाज्ञानं प्रत्यभिज्ञानं पूर्वापरसंकलनात्मकम् । अत एव संज्ञासंज्ञि
सामान्यरूपत्वादिति-मविज्ञानवतित्यादीनां मतिज्ञानत्वरूपसामान्यधर्मव्याप्यावातरधर्मत्वेन मतिस्मृत्यादिपु तत्सत्वे तचापक्रीभूतमतित्वसामान्यधर्मस्यापि तत्र सत्वेन तेषां तद्रूपेण मतिसामान्यस्वरूपत्वादित्यर्थः, तथा चाम्रनिभ्वाशिंशपादियाबवृक्षाविशेषान्यतमस्त्ररूपव्यतिरेकेण वृक्षसामान्यस्वरूपस्यानुपलम्भात्ताशवृक्षविशेषाणामेव वृक्षत्वावच्छिनसामान्यस्वरूपत्वमिव मतिरमृत्यादियाबविशेषान्यतमस्वरूपव्यतिरेकेण मतित्वावच्छिन्नसामान्य स्वरूपस्थानुपल मान्मतित्वावच्छिन्नसामान्य निरुक्तविशेषस्वरूपतां परिहाय नैव स्वस्वरूपतां यत्तुं शक्नोतीत्यतसामान्यविशेषयोः क्रयश्चिद्भेदेऽप्यभेदसद्भावादनान्तरत्वं ज्ञेयमिति भावः । स देवदत्त इत्याकार के स्मरणे ततांशभानादेवानुभवकालरूपातीतकालावच्छिन्नार्थस्य भानम् , तत्तांशप्रमोपे च न तद्भानमिति प्रमृष्टतत्ताकस्मरणेऽव्याप्तिरित्याशय निषेधति नचति । निषेधे हेतु. माह-तस्थापनि । तस्यापि प्रमतत्ताकस्मरणस्यापि, वस्तुत:-परमार्थतः, ईशित्वात्अतीतकालावच्छिन्नार्थपरिच्छेद रूपत्वात् । अतीतकालावच्छिन्नत्वं छुपलक्षणम्, न त्वर्थस्य विशेषणमिति तद भानेऽपि न क्षतिरिति भावः। यहाऽतीतकालावच्छिन्नार्थपरिच्छोदज्ञानवृतिमातिज्ञानत्वच्याप्यधर्मवर स्मृतिज्ञानत्वमित्येवं लक्षणकरणे नोक्ताव्यातिदोष इति । तिर्यगूतासामान्यविषयमिति-देशानुतिसशपरिणामलक्षणतिर्यसामान्यविषयक तजातीयोऽयं घट इत्याधाकारं परापरविवर्तव्यापिद्रव्यलक्षणोध्यतासामान्यविषयकं कुण्डलाङ्गदादिषु तदेव सुवर्ण स एवायं जिनदत्त इत्याधाकारमित्यर्थः । तथा च प्रत्यभिज्ञानस्यानुभवजन्यत्वादनुभवजन्यत्वघटितोततिलक्षणस्य तत्र सङ्घटनामानानातिव्याप्तिरिति भावः । सज्ञाज्ञानमिति-अस्थार्थमाह-प्रत्यभिज्ञानमिति। तदर्थमाह-पूर्वापरसङ्कलनात्मकमिति-पूर्वोत्तरकालावच्छिभव्यत्यभेदाचाहि य एव पूर्व मया दृष्टस्स एवायमित्याधकिारमित्यर्थः। एवं तजातीयोऽयं घटः अंपण्डलादिषु तदेव सुवर्णमित्यादिज्ञानमपि संज्ञाज्ञान प्रत्यभिज्ञानापरनामक शेयम् ।
.