Book Title: Tattvarthadhigama Sutra
Author(s): Umaswati, Umaswami, Vijaydarshansuri, Yashovijay
Publisher: Motiji Kapurchand Tarachand

View full book text
Previous | Next

Page 384
________________ ३१८ : तत्वार्थविवरणगूढार्घदीपिका | पंचत्रिंशत्तमसू० टी० " साम्प्रतः । न च कालानिति साप्रतिक इति भवितव्यम् संप्रतिशब्दस्य वर्तमानवस्त्वध्यवसाये लाक्षणिकत्वेन तद्भवशब्देप्रत्यायकाप्रत्यये प्रज्ञादित्वात् स्वार्थिकाश्रयणे वा दोषाभावात् । यां या संज्ञा“ठस्येकः” इत्यनेन ठसेकादेशे आदिवृद्धौ "यथेति च" इत्यनेन कारलोपे साम्प्रतिक इति प्रयोगेण भाव्यमित्याशय निराकरोति-न चेति, निरासे हेतुमाह-सम्प्रनिशन्दस्येत्यादिनासम्प्रतिशब्दो नात्र शक्त्या वर्तमानकालात्मकार्थवाचकः किन्तु लक्षणया वर्तमानवस्त्वध्यवसायार्थक इति कालवाचित्वाभावात् ठञोऽप्राप्त " तत्र भव:" इत्यनेनाणि प्रत्यये साम्प्रत इति सिद्ध्यति । अथवा “ प्रसादिभ्योऽण् इत्यनेन स्वार्थिकाणि प्रत्यये साम्प्रत इति प्रयोगसाधुरेवेति भावः । एष साम्प्रतनयो मूलशब्दनयामिप्रायाऽविशिष्ट इति न पृथगुदाहरणैर्विभावित इति । यां यां संज्ञामभिधत्ते इत्यादि । यां यां संज्ञां घटः कुम्भः कलश इत्यादिरूपामभिधत्ते वदति तां तां भिन्नभिन्नार्थवाचकत्वेन समभिरोहति प्रमाणीकरोतीति सममिष्ठः, यद्यपि अर्थक्रियाकारित्वात् सल्लक्षणं वर्त्तमानक्षणवर्त्तिनमृजुमुत्रास्युपगतमेकमपि वस्तु वटस्वटी तटं, दारा कलत्रं, यास्यसि त्वं, यास्यति भवान्, वभूव भवति भविष्यति सुमेरु, संतिष्ठते अवतिष्ठते इत्यादौ यथाक्रमं लिसङ्ख्या पुरुप कालोपसर्गभेदभिन्नशब्दवाच्यं चेत्तदा शब्दनयतदैक्यं नाभ्युपगच्छति, स्त्रीपुंनपुंसकलिङ्गादीनां गुणानां भिन्नत्वात् तथाप्यभिभलिङ्गकपर्यायशब्दवाच्यमर्थमेकमुरीकरोति सः, समभिरूडनयस्तु नैवं प्रमाणीकरोति, अभिन्नलिङ्गकपर्यायशब्द मेदेनापि तदर्थभेद इति मूलत एवं शब्दभेदेन तद्वाच्यार्थभेदस्यैव प्रमाणहत्यात्, यतो यो घटशब्दवाच्योऽर्थस्वं कुटकुम्भकलशादिपर्यायशब्दवाच्यं नेच्छत्यसौ, एतन्मते व्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वेन तद्भेदेनार्थ भेदाभ्युपगमादित्यर्थः । अयमत्र भावार्थ: इन्द्रपुरन्दरादिशब्दान् घटकुटकुम्भादिशब्दश्चानन्तरं शब्दनयेनैकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं मिनाभिधेयानभिमन्यते भिन्नव्युत्पत्तिनिमित्तकत्वात् सुरमनुजादिशब्दवत्, तथाहि इन्दति परमैवमनुभवतीति इन्द्रः, शक्नोतीति शक्रः पुरन्दारयतीति पुरन्दरः, “ घट चेष्टायां " घट विशिष्टयां करोतीति घटः, कुट कौटिल्ये " कुटति कौटिल्यं करोतीति कुट:, उभ उम्भ पूरणे " कूम्मनात् कुस्थितिपूरणात्कुम्भः, कं जलमुम्भति पूरयतीति वा कुम्भः, शकन्ध्यादिषु च " इति वार्त्तिकेन पररूपम् ॥ इह परमैश्वर्यादीनि भिन्नान्येवात्र व्युत्पत्तिनिमित्तानि, एत्रमध्ये कार्यत्वे घटपटादिशब्दानामप्येकार्थत्वापचिस्स्यात्, युक्तेरसास्यात् न च पर्यायशब्दानामेकार्थत्वमभ्युपगम्यत इति नेन्द्र पुरन्दरादिषटकुटकुम्भादिशब्दवद् घटपटादिशब्दः पर्यायशब्दाः एकार्थवाचकत्वाभावादिति नैकार्थास्ते इति वाच्यम् । एवं सतन्द्रश०दस्य शक्रादिशब्देन सहकार्यतयेन्द्रार्थे शक्रादिप्रयोगे इन्द्रार्थस्य परमैश्वर्यस्य शक्रशब्दार्थे शकनलक्षणे वस्त्वन्तरे संक्रान्तिः कृता स्यात्, तयोरेकत्वमापादितं भवेदिति यावत्, तच्च न युक्तम्, यतो न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्याय भवितुमर्हति, अन्यथा सर्वपर्ययसाङ्कर्यापतिस्स्यात् तस्मादेतन्मतेऽयैक्याभावात् 46 46 66 75241 TYTOW

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472