________________
: २०२:
तत्वार्थविवरणपूढार्थदीपिका । द्वा० सू.टी. तस्मादुपयोगन्द्रियमेव प्रदीप इव प्रकाशस्य स्वाभिन्नप्रमायाः करणमे-यमिति देवसरिप्रभृतयः । प्रमाणशेवः सम्यग्ज्ञाने ४ एव, फलं तु यथासम्भवं दोपनिवृत्तिः केवलं तु स्वयं फलभेवेति तु युक्तम् । शेषाणामपि द्रव्यार्थतः प्रत्यक्षवाद्यथा ज्ञानं स्वसंविदितमेवं तेऽपि वसंविदिताः किं न स्युः ?, तथा च बौद्धाप्रति सुखादीनां स्वसंविदितत्वप्रतिपेवप्रयासो निसार एवं स्यात् , तदिह यत् स्वयमात्मानं वेत्ति तत् संविदितमुच्यते, उपयोग एवं तादृशो, न शक्तिः सुखादयश्च । शक्तिहि द्रव्याधिगमद्वारग्रहणा, सुखादयश्च पुनरुपयोगात्यपर्यायान्तरसमधिगम्या इति । किञ्च यदि द्र०यार्थतः प्रत्यक्षत्वात् स्वसंविदिता ज्ञानशक्तिस्तदाऽहं पटज्ञानेन वर्ट जानामीति करणाल्लेखों न स्यात् , न हि कलशसमाकलनलायां द्रव्यार्थतः प्रत्यक्षत्वेऽपि प्रतिक्षणपरिणामिनामततिानागतानां च कुशलकपालादीनामुल्लेखोऽस्ति, तत उपयोग. एवं साधकतमः प्रत्यक्षेऽपि प्रमाफलं प्रतीत्य सिद्धः, तस्यैव तत्र घटमानत्यादिस्थाशयेनोपसंहारमाह-तस्मादुपयोगेन्द्रियमेवेत्यादि । साभिन्नप्रमायाः करणमेटव्यमिति-प्रदीपः स्त्र प्रकाशात्मना स्वेनैव प्रकाशयतीनि प्रतीतेः प्रदीपात्मनः कः कथञ्चिदभिन्नस्य प्रकाशात्मककरणस्य प्रकाशनक्रियायाश्च प्रदीपात्मिकायाः कथञ्चिदभेदसिद्धेयथा प्रकाशनक्रियात्मकफलस्य. स्वाभिन्नप्रदीपः करणं. तथा स्वार्थव्यवसितिरूपग्रमात्मकज्ञप्तिफलस स्वामिन्नोपयोगन्द्रियमेव करणमभ्युपगन्तव्यम् , ज्ञानं स्मात्मनैव स्मं प्रकाशयतीति प्रतीतेः । एतेनोपयोगात्मकज्ञानस्य प्रमाणत्वे फलत्वं कस्य कथ्यते जिनानुगः, स्वार्थसवित्तरेवेति चेत्तर्हि स्त्रपरव्यवसायित्वं प्रमाणे कथं घटनामियादित्यारेकाऽपि निरस्ता, प्रमाणप्रमाफलयोः कथञ्चिदभेदे दूषणकणस्थाप्यनवकाशात्, नन्ये कस्मिन्नेत्र ज्ञाने प्रमाणत्वप्रमात्वविरोध एवं दुद्धरो दोपोति चेत्, स्यादेतत् यधेकस्वभावेन तदुभयाभ्युपगम स्यात्, न चैवम्, पावको दहत्यायनत्यत्र यथा दहनक्रिया तत्करणमौष्ण्यं च पावके युगपदाहकत्वस्वभावेनौण्यत्वरममावन च स्वीकृत तथा साधकतमत्वस्वभावेन ज्ञाने प्रमाणत्वं ज्ञप्तिक्रियात्वस्वभावेन प्रभाफलस्वमित्येवमुरलीकारा । घटाभावीयप्रतियोगितावान् ५८ इत्यत्र प्रतियोगितामा प्रतियोग्यात्मकत्वपक्षे एकत्रच घटत्वेन प्रतियोगितात्वनाश्रयत्वाश्रितत्ववत् प्रतियोगिताया अवच्छेदकात्मकत्वपक्षे च घटामावीयप्रतियोगिता- घटत्वावच्छिन्नत्यत्रैकत्रैव पटवन प्रतियोगिता
नावच्छेदकत्वावच्छिन्नत्ववच्च नैव तत्र स्वभावभेदापेक्षयोस्तयोः कोऽपि विरोधः, प्रमाणप्रमालयोश्च कथञ्चिदभेदात्तदुभयस्य स्वपरव्यवसायित्वमप्युपपद्यत एव । यदुक्त स्थाद्वादरत्नाको प्रथमपरिच्छेदे १४-"ज्ञानस्याथ प्रमाणत्वे, फलत्वं कस्य कथ्यते ? । स्वार्थसवित्तिरस्स्येव, ननु किं न विलोक्यने ? ॥ ४० ॥ स्यात्कलं स्वार्थसंवित्ति-यदि नाम तदा कथम् ।।
पर०यवसायित्वं, प्रमाणे घटनामियातः॥४१॥ उच्यते स्याद भेदात्प्रमाणस्य, स्वार्थव्यवसितः फलात् ।। नैव ते सर्वथा. कश्चिद्, दूषणक्षण ईक्ष्यते ॥ ४२ ॥ आश्चर्यमाश्चर्यभहो तदेतद्, , · · विलोक्यतां अपलपटाङ्गितानाम् । ज्ञानं यदेकं नितरा विरुद्ध-प्रमाप्रमाणत्वपदं वदन्ति ॥४३॥ .