________________
तत्वार्थविवरणगूढार्थदीपिका ! डा० सू० टी०
प्रयत्नः । अन्यस्य प्रत्यक्षत्वं कुत इत्याशङ्कयाह- अतीन्द्रियत्वात् । योगिसाक्षात्कारानुरोधेनात्माभिमुखत्वलक्षणमतीन्द्रियत्यमेव प्रत्यक्षलक्षणमभ्यर्हितमिति भावः । तत्प्रमाणे इति द्वित्वसंख्यां विभागेनोपदर्थं प्रमाणशब्दार्थं कथयति-प्रमीयन्ते इति, प्रमीयन्ते यथावन्निश्रीयन्तेऽर्था जीवादयो यैस्तानि प्रमाणानीति करणे ल्युट्, आहितप्रधान कारणस्य स्वतन्त्रस्य कर्तुरनेककारकशक्तिप्रयुक्तस्य साधकतमत्यविवक्षात्रशादवच्छेदिका शक्तिरर्थस्य करणव्यपदेशमस्तुत इति टीकाकृतः । एवं सति लब्धीन्द्रियं प्रमाणं स्यात्, तच्चायुक्तं, शक्तिरूपस्य तस्य कार्यार्थापत्त्यैव गम्यत्येन 'स्वपरूयवसायि ज्ञानं प्रमाणम्' इत्यस्य भङ्गापत्तेः, द्रव्यार्थ प्रत्यक्षतायाश्या तिप्रस] कवात्,
: २०१ :
1
निश्वयतः, आधे प्रत्यक्षं व्यवहारतः, अन्यदित्यनेन सह प्रत्यक्षमित्येव सम्बध्यते, न परोक्षम्, तथा च ततोऽन्यत् अवध्यादित्रयमेकान्तेन प्रत्यक्षमेवेति योगविभागतो लभ्यत इति तदर्थं "प्रत्यक्षमन्यत्" इति सूत्रकरणमित्यर्थः । अतीन्द्रियत्वादिति - उत्पत्ताविन्द्रयमनोनिरपेक्षत्वादित्यर्थः । व्यवहार प्रत्यक्षत्वे इन्द्रियजन्यस्त्रवनिश्चयप्रत्यक्षत्वे इन्द्रियाद्यजन्यत्वस्यापि प्रयो जकत्वादिति । न च प्रत्यक्षत्वमेवेन्द्रियजन्यतावच्छेदकं लाघवादितीन्द्रियव्यापाराभावेऽतीन्द्रियप्रत्यक्षानुपपत्तिरिति शङ्कनीयम् परेणापीश्वरत्रत्यक्षव्यावृत्यर्थं प्रत्यक्षनिष्ठवै जात्यस्यैथेन्द्रियजन्यतावच्छेदकत्त्रोपगमात्, अस्माभिस्तत्र निश्चयप्रत्यक्ष व्यावृत्यर्थ सांव्यवहारिकत्वाख्वस्य प्रत्यक्ष निष्ठवैजात्यस्येन्द्रियजन्यतावच्छेदकत्वापगमे दोषाभावादिति भावः । " अश व्याप्तौ " अश्नुते व्याप्नोति ज्ञानात्मना सर्वार्थान्, " अश् भोजने " अश्नाति स्वःसमृद्ध्यादीन् पालयति भुङ्क्ते वेति उणादिनिपातनाद् अक्षो जीवः, तम्प्रति साक्षाद्भतं तमेवाभिमुखीकृत्य. प्रवृत्तमिति प्रत्यक्षशब्दस्य वास्तविकार्थमनुसृत्याह योगिसाक्षात्कारेत्यादि । अवच्छेदिका शक्रिर्थस्येति- अर्थस्यावच्छेदिका निश्चायिका शक्तिः, अर्थनिश्चयानुकूलशक्तिरिति यावत् । शक्तिरूपस्य तस्य कार्यार्यापत्त्यैव गम्यत्वेनेति-शक्तिर्हि कार्यानुमेया, तस्या अतीन्द्रियत्वात् न हि केनापि चर्मचक्षुपा वहन्यादिगतरूपमिव तद्गतशक्तिरपि साक्षाद्दृश्यत इत्यर्यग्रहणशक्त्यात्मफलब्धीन्द्रियमन्तरेण प्रमात्मकत चदर्थविषयकज्ञान कार्यानुपपत्तिरूपलिङ्गेनैव शक्तिरूपस्य प्रमाणस्याऽनुमीयमानस्येनेत्यर्थः । भगापत्तेरिति उक्तसूत्रेण तादृशज्ञानं प्रमाणमित्युक्तम्, न तु शक्ति: प्रमाणमित्यभिहितम्, ज्ञानश्च स्वप्रका शत्वा तदात्मकप्रमाणं स्वेनैव सिद्ध्यति, न त्वनुमानेनेति तद्विरोधस्स्यादित्यर्थः । किञ्चार्थग्रहणश-क्तिलक्षणस्य लब्धीन्द्रियस्य प्रमाणत्वे तस्योपयोगात्मना करणेन फले व्यवथानात्, सन्निकर्षादिबंदुपचारत एव प्रमाणत्वमभ्युपगतं स्यादिति, द्रव्यार्थतः प्रत्यक्षाग्रहणशक्तिः, पर्यायार्थतस्तु परोक्षेत्यभ्युपगमे दोषमाह-द्रव्यार्थप्रत्यक्षतायाश्चातिप्रसज्ञ्जकत्वादिति-अयमर्थ:-- स्वपरपरिच्छित्तिरूपात् फलात्कथञ्चिदपृथग्भूते आत्मनि परिच्छिन्ने तथाभूता तजननशक्तिरपि પરિઋિષતિ દૂન્વાર્યતા પ્રત્યક્ષુતિ વેત્, વર્ધમÄનામતતાનાાતવર્સેનાનીચાણામ
२६