Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 328 शोभनस्तुति-वृत्तिमाला लक्ष्यीकृत्य / 'गमनयातत !' गमाश्च नयाश्च गमनयास्तैः आतत-विस्तीर्ण ! / 'मोदयितः !' प्रमोदजनक ! / हे जिनोत्तमकृतान्त ! त्वं याततमोदयितः सुधियां अनुमानसं वसत् चरणं स्वभिदधत् भवाद् अवनतानवेत्यन्वयः / / 79 / / अवचूरिः हे जिनोत्तमसमय ! त्वमवनतान्-प्रणमतो विदुषोऽव-रक्ष भवात्-संसारात् / सद्-शोभमानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं-संगतिर्यस्य तस्य संबोधनम् / त्वं किंविशिष्ट: ? / यातं तमो येभ्यस्ते याततमसो-मुनयस्तेषां दयितः-अभीष्टः / मोक्षसुखप्रापकं चरणं-चारित्रं स्वभिदधत्-स्वाख्यन् / किंभूतम् ? / सुधियां मानसमनु-लक्ष्यीकृत्य वसत्-तिष्ठत् / हे गमनयातत ! गमाः-सदृशपाठाः नयाश्चनैगमादयस्तैरातत-विस्तीर्ण ! / हे मोदयितः !-प्रमोदकारक ! / / 79 / / श्रीगौरीसंस्तवःअधिगतगोधिका कनकरुक् तव गौर्युचिता- .. कमलकराजि' तामरसभास्यतुलोपकृतम् / मृगमदपत्रभङ्गतिलकैर्वदनं दधती कमलकरा जितामरसभाऽस्यतु लोपकृतम् / / 4 / / 80 // (1) ज० वि०-अधिगतेति / भो भव्यात्मन् ! गौरी-गौर्याख्या देवता तव-भवतः लोपकृतं-विनाशकृतं अर्थाद् विपक्षादिकं अस्यतु-क्षिपतु अथवा विनाशयतु इति क्रियाकारकयोगः / अत्र ‘अस्यतु' इति क्रियापदम् / का की ? 'गौरी' / कं कर्मतापन्नम् ? 'लोपकृतम्' / कस्य ? 'तव' / गौरी कथंभूता ? 'अधिगतगोधिका' अधिगता-प्राप्ता गोधा-देववाहनविशेषो यया सा तथा / अत्र स्वार्थे कः प्रत्ययः / पुनः कथं० ? 'कनकरुक्’ सुवर्णच्छविः / गौरी किं कुर्वती ? 'दधती' बिभ्राणा / किं कर्मतापन्नम् ? 'वदनं' मुखम् / कथंभूतं वदनम् ? 'उचिताङ्कम्' उचिता-योग्या अङ्का-लाञ्छनानि यस्य तत्.तया / किं कृत्वा ? 'मृगमदपत्रभङ्कतिलकैः' मृगमदेन-कस्तूरिकया ये पत्रभङ्गतिलकाः-पत्रच्छेदोपलक्षित 1. 'राजितामरस०' इत्यपि सम्भवति /

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234