Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 410 शोभनस्तुति-वृत्तिमाला अत्यर्थम् / किंविशिष्टे निकाय्ये ? / हतिः-हननं तदस्यास्तीति हतिमान्, न हतिमान् अहतिमान्, तस्मिन् 'अहतिमति' / पुनः किंविशिष्टे निकाय्ये ? / 'महति' महत्प्रमाणे, पञ्चचत्वारिंशल्लक्षयोजनप्रमाणत्वात् / [अतिशयेन महत् अतिमहत्, तस्मिन् ‘अतिमहति' / ] ‘अहतिं' इति भिन्नपदं वासपदस्य विशेषणं, तत्र नास्ति हतिः-विनाशो यस्मिन् सः अहतिः तं 'अहतिम्' / पुनः किंविशिष्टे निकाय्ये ? / ('अतिमते' अतिशयेन अभिप्रेते) [ अतिहिते' अतिशयेन हितकारिणि / ] कस्य ? / 'ते' (तव) / हे इति भिन्नपदम् / ते कथंभूतस्य ? 'शस्यमानस्य' स्तूयमानस्य, नरामरेन्द्रैः इति गम्यम् / कथम् ? / 'सदा' निरन्तरम् / किंविशिष्टस्य ते ? | ‘आनन्दधानस्य' परमानन्दस्थानस्य / पुनः किंविशिष्टस्य ते ? / 'अमानिनः' निरहङ्कारस्य, यद्वा अमानिनः(भिः) सहितस्य सामानिनः / (पुनः किंविशिष्टस्य ते ? / ईशस्य' स्वामिनः जगतामिति गम्यम् / ) पुनः किंविशिष्टा भारती ? | जननानि-जन्मानि मृतयः-मरणानि ता एव तरङ्गाऊर्मयः यस्मिन् स जननमृतितरङ्गः, तादृशः 'निष्पारः' नास्ति पारः-पर्यन्तः (यत्र) तादृशः संसारो-भव एव नीराकरो-जलधिः तस्मिन् अन्तर-मध्ये निमज्जन्तो-बुडन्तो ये जनाः-लोकाः तेषामुत्तारः-पारप्रापणं तदर्थं तस्मिन् वा नौरिव नौः-द्रोणीव द्रोणी 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः' / पुनः किंविशिष्टा भारती ? / 'संसत् (इव)' सभा इव सभा / कस्य ? / 'मानस्य' पूजायाः / पुनः किं कुर्वती भारती ? / 'तन्वती' विस्तारयन्ती / कानि कर्मतापन्नानि ? | सामानि-प्रियाणि / वाशब्द इवार्थे / पुनः किंविशिष्टस्य ते ? / 'दधानस्य' बिभ्रतः पुष्यतो वा / कं कर्मतापन्नम् ? / तापः-संसारोष्मा तस्य दानं (-खण्डन) 'तापदानम्' / कस्मै ? / मतिमते' बुद्धिमज्जनाय प्राज्ञाय | पक्षे हे अंतन्वतीतापत् इति तीथकृत्संबोधनं कृतं, एतद्विशेषणं भारत्या अपि भवति तत्र अतनवः-महत्यः अतीता-गता आपद: यस्याः सा अतन्वतीतापत् / एतादृशी तव भारती नः-अस्माकं निकाय्ये-मोक्षे वासं वितीर्यात्तराम् / इति पदार्थः // अथ समासः-परेषां मतानि परमतानि, परमतान्येव तिमिराणि परमततिमिराणि, भानोः प्रभा भानुप्रभा, उग्रा चासौ भानुप्रभा च उग्रभानुप्रभा, परमततिमिरेषु उग्रभानुप्रभा परमततिमिरोग्रभानुप्रभा / भूरयश्च ते भङ्गाश्च भूरिभङ्गाः, तैः भूरिभङ्गैः / विश्वेषु वर्यं विश्ववर्य, तस्मिन् विश्ववर्ये / अतिशयेन वितीर्यात् इति वितीर्यात्तराम् / हननं हतिः, न हतिः अहतिः, अहतिः यस्यासौ अहतिमान्, तस्मिन्नहतिमति / यद्वा नास्ति हतिर्यस्यासौ अहतिः, तं अहतिम् / अतिशयेन मतिमान् अतिमतिमान्, तस्मै अतिमतिमते / शस्यते-प्रशस्यते इति शस्यमानः, तस्य शस्यमानस्य / न तनवः अतनवः, बबयः (महत्यः?) इत्यर्थः, अतनवः-महत्यः अतीताः आपदः यस्मात् सः अतन्वतीतापद, तस्य सं० हे अतन्वतीतापत् !| आनन्दस्य धानं आनन्दधानं, तस्य आनन्दधानस्य / मानोऽस्यास्तीति मानी, न मानी अमानी, यद्वा न विद्यते मानो 12. [ ] एतच्चिहान्तर्गतः पाठः प्रामादिकः /

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234