Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 414 शोभनस्तुति-वृत्तिमाला कण्ठाभरणानि तेषां स्फुरन्तः-प्रसरन्तः ये रश्मयः-किरणाः तैः सारे-कर्बुरीभूते क्रमाम्भोरुहे-चरणारविन्दे यस्याः सा तथा तत्सम्बो० हे सरभ० / हे 'संस्थिते ! अधिरूढे ! / कस्मिन् ? 'गजारौ' मतङ्गजरिपौ, केसरिणीत्यर्थः / गजारौ कथंभूते ? 'अजिते' केनाप्यनभिभूते / पुनः कथं० ? 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिः-विद्युत् तद्वद् रुचिराः-चाळः उरवः-विशालाः चञ्चन्त्योदीप्यमाना एवंविधा याः सटाः-केसराः ताभिः सङ्कटः-व्याप्तः उत्कृष्टः-अतिशायी यः कण्ठः-निगरणं तेनोद्भटः-करालस्तस्मिन् / पुनः कथं० ? ‘राजिते' शोभिते / पुनः कथं० ? 'नीहारतारावलक्षे' नीहारःहिमं तारा-नक्षत्राणि तद्वद् वलक्षः-उज्ज्वलस्तस्मिन् / हे 'अम्ब !' मातः ! / अजिते राजिते इति विशेषणे द्वे गजारेः सप्तम्यन्तत्वेन व्याख्याते ते अम्बिकायाः सम्बोधने घटेते च / / . अथ समासः-सह रभसेन वर्तते यत् तत् सरभसं 'तत्पुरुषः' / सरभसं नतं सरभ० 'तत्पुरुषः' / नाकिनां नार्यो नाकिनार्यः 'तत्पुरुषः' / नाकिनार्यश्चासौ जनश्च नाकि० 'कर्मधारयः' / सरभसनतश्चासौ नाकिनारीजनश्च सरभ० 'कर्मधारयः' / उरसि जायन्त इत्युरोजाः 'तत्पुरुषः' / पीठा इव पीठ्यः / उरोजाश्च ताः पीठ्यश्च उरोजपीठ्यः ‘कर्मधारयः' / सरभसनतनाकिनारीज़नस्योरोजपीठ्यः सरभ० 'तत्पुरुषः' / सरभसनतनाकिनारीजनोरोजपीठीषु लुठन्तः सरभ 'तत्पुरुषः' / ताराश्च ते हाराश्च तारहाराः 'कर्मधारयः' / सरभसनतनाकिनारीजनोरोजपीठीलुठन्तश्च ते तारहाराश्च सरभ० 'कर्मधारयः' / स्फुरन्तश्च ते रश्मयश्च स्फुर० 'कर्मधारयः' / सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणां स्फुरद्रश्मयः सरभ० 'तत्पुरुषः' / सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः सारे सरभ० 'तत्पुरुषः' / अम्भसि रोहन्तीत्यम्भोरुहाणि 'तत्पुरुषः' / अम्भोरुहे इवाम्भोरुहे / क्रमौ च ते अम्भोरुहे च क्रमाम्भोरुहे 'कर्मधारयः' / सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे यस्याः सा सरभ० 'बहुव्रीहिः' / तत्सम्बो० हे सरभ० / परमं वसु ययोस्तौ परमवसू / अतिशयेन परमवसू परमवसुतरौ / अङ्गाज्जायते इत्यङ्गजौ 'तत्पुरुषः' / परमवसुतरौ अङ्गजौ यस्याः सा परम० 'बहुव्रीहिः' / सम्यग् नाशितः सन्नाशितः तत्पुरुषः' / आरावेण सन्नाशितः आराव० 'तत्पुरुषः' / अरातीनां भारोऽरातिभारः 'तत्पुरुषः' / आरावसन्नाशितोऽरातिभारो यया सा आरा० 'बहुव्रीहिः' / न जितोऽजितः 'तत्पुरुषः' / तस्मिन्नजिते / अम्बिकासम्बोधनपक्षे तु न जिता अजिता 'तत्पुरुषः' / तत्सम्बो० हे अजिते ! / हारेण हारवद् वा तारा हारतारा 'तत्पुरुषः' / बलं च क्षेमं च बलक्षेमे 'इतरेतरद्वन्द्वः' / बलक्षेमे ददातीति बलक्षेमदा 'तत्पुरुषः' / क्षणं रुचिर्यस्याः सा क्षणरुचिः ‘बहुव्रीहिः' / क्षणरुचिवद् रुचिराः क्षणरुचि० 'तत्पुरुषः' / चञ्चन्त्यश्च ताः सटाश्च चञ्चत्सटाः ‘कर्मधारयः' / उरवश्च ताः चञ्चत्सटाश्च उरुचञ्चत्सटाः ‘कर्मधारयः' / क्षणरुचिरुचिराश्च ता उरुचञ्चत्सटाश्च क्षणरुचि० 1. 'नार्य एव जनः नाकि-' इति प्रतिभाति /

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234