Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 222
________________ श्रीवीरजिनस्तुतयः 413 अतन्वतीतापत् ! | आनन्दधानस्य-प्रमोदस्थानस्य / सा इत्थंभूता / अमानिनो-निरहंकारस्य / नौःतरणिः / महति-विस्तीर्णे / हे हित !-प्रियकारिन् ! / यद्वा मतिमता-मनीषिणा ईहिता / ईशस्य-स्वामिनः / वा इवार्थे भिन्नक्रमश्च / मानस्य-पूजायाः संसद् वा-सभेव / तापदानं-संतापखण्डनमातन्वती / सामानिप्रियाणि दधानस्य / नः-अस्माकम् / / 95 / / श्रीअम्बिकायाः स्तुतिःसरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराऽजिते भासिनी हारतारा बलक्षेमदा / क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे संस्थिते ! भव्यलोकं त्वमम्बा म्बिके !' परमव सुतरां गजारावसन्ना शितारातिभा रोजिते भासि नीहारतारावलक्षेऽमदा // 4 // 96 // - अर्णव० (1) - ज० वि०-सरभसेति / हे अम्बिके !-अम्विकानाम्नि देवि ! त्वं-भवती भव्यलोकं-भव्यजनं, भव्यलोकानां वहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः, परं-उत्कृष्टं यथा स्यात् तथा सुतरां-अत्यर्थं यथा स्यात् तथा अव-रक्ष त्रायस्वेति यावत् इति क्रियाकारकप्रयोगः / इयं कवुक्तिः / अत्र ‘अव' इति क्रियापदम् / का की ? 'त्वम्' / कं कर्मतापन्नम् ? 'भव्यलोकम्' / कथम् ? ‘परम्' / पुनः कथम् ? 'सुतराम्' / त्वं कथंभूता ? 'परमवसुतराङ्गजा' अतिशयेन परमवसू-उत्कृष्टतेजसौ अङ्गजौ-पुत्रौ यस्याः सा तथा / पुनः कथं० ? ‘आरावसन्नाशितारातिभारा' आरावः-ध्वनिस्तेन सन्नाशितः-सम्यगदर्शनं नीतः अरातिभारः-शत्रुसमूहो यया सा तथा / पुनः कथं० ? भासिनी' भासनशीला | पुनः कथं० ? 'हारतारा' हारेणोज्ज्वला / पुनः कथं० ? 'बलक्षेमदा' बलं-सामर्थ्य क्षेम-कल्याणं ते ददातीति बलक्षेमदा / पुनः कथं०? 'असन्ना' अखिन्ना / पुनः कथं० ? 'शितारातिभा' शितं-तनूकृतं यद आरं तस्येव अतिभाअतिशयेन प्रभा यस्याः सा तथा / पुनः कथं० ? ‘अमदा' मदरहिता | कस्याम् ? 'भासि' दीप्तिविषये / अवशिष्टानि सर्वाण्यप्यम्बिकाया देव्याः सम्बोधनानि, तद्व्याख्या यथा-हे सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !' सरभसं-सवेगं नतः-प्रणतः यो नाकिनारीजनः-देवाङ्गनाजनः तस्योरोजपीठीषु-स्तनपर्यन्तिकासु लुठन्तः-इतस्ततश्चलन्तः तारा उज्ज्वला ये हाराः१-२. सम्बोधनार्थे वा / 3.. 'भासिनीहार०' इत्यपि सम्भवति /

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234