Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीवीरज़िनस्तुतयः 421 - - किंविशिष्टे गजारौ ? | 'नीहारतारावलक्षे' नीहारो-हिमं तारा-नक्षत्राणि तद्वद् वलक्षे-धवले / “वलक्षधघलार्जुनाः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 29) / पुनः किंविशिष्टे ? / 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिरुचिराभिः-विद्युद्दीप्तिभिः उरुभिः चञ्चन्तीभिः सटाभिः सङ्कट:उत्कृष्टो यः कण्ठो-गलकन्दलस्तेन उद्भटे-कराले / हे ‘सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !' सरभसं-वेगेन नतः-प्रणतो यो नाकिनारीजन:-अमरवधूवर्गः तस्य उरोजपीठीषु-स्तनपर्यङ्किकासु लुठतां-इतस्ततश्चलतां हाराणां स्फुरद्रश्मिभिः सारे-कवुरे क्रमाम्भोरुहेचरणकमले यस्याः सा तस्या आमन्त्रणम् / हे अजिते !-अतिरस्कृते ! / हे राजिते !-शोभिते ! / कस्याम् ? | भासि-दीप्तिविपये / हे अम्ब !-हे मातः ! / अम्बादीनां धौ ह्रस्वः (सा० सू० 201) इति सूत्रेणात्वहस्वः / एतानि सर्वाणि देव्याः सम्बोधनपदानि / / इति चतुर्थदण्डकार्थः / / इति श्रीशत्रुञ्जयकरमोचनाद्यनेकसुकृतकारिमहोपाध्यश्री 5 श्रीभानुचन्द्रगणिशिष्येण पण्डितप्रकाण्डमण्डलाखण्डलेन पण्डितश्रीश्री१०८श्रीदेवचन्द्रेण कृतायां शोभनस्तुतिशिशुवोधिनीटीकायां समाप्तिमागाच्चतुर्विंशतितमजिनस्तुतिः।। ॥शुभं भवतु // श्रीरस्तु / श्री / / श्री / / छ / / श्री / / श्री // 4 / 24 / 96 // ___ध० टीका-सरभसेति / सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !' सरभसं नतः-प्रणतो यो नाकिनारीजनः तस्योरोजपीठीषु-स्तनपर्यङ्किकासु लुठतां तारहाराणां स्फुरदी रश्मिभिः सारे-कवुरे क्रमाम्भोरुहे यस्याः सा संवोध्यते / परमवसुतराङ्गजा' अतिशयेन परमवसूपरमतेजसौ अङ्गजौ-पुत्रौ यस्याः सा | ‘आरावसन्नांशितारातिभारा' आरावेण-ध्वनिना सन्नाशितः-सम्यग् अदर्शनं नीतः अरातिभारः-शत्रुसन्दोहो यया सा / 'अजिते !' अनभिभूते ! | ‘भासिनी' भासनशीला / 'हारतारा' मौक्तिकमालोज्ज्वला / 'वलक्षेमदा' बलं-सामर्थ्य क्षेमं-कल्याणं ते ददाति या सा | 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिरुचिराभिः-विद्युद्दीप्तिभिः उरुभिश्चञ्चन्तीभिः सटाभिः सङ्कट-उत्कृष्टो यः कण्ठः तेनोद्भटे-कराले / सिंहस्य विशेषणमेतत् / 'संस्थिते !' निषण्णे ! / 'भव्यलोकं' भव्यजनम् / 'त्वं' भवन्ती / ‘अम्ब !' मातर् ! / 'अम्बिके !' अम्बादेवि ! / 'परम्' उत्कृष्टम् / 'अव' रक्ष / 'सुतरां' अत्यर्थम् / ‘गजारौ' केसरिणि / 'असन्ना' अखिन्ना / 'सितारातिभा' आरशब्देन रीतिकांगारकश्चोच्यते सितस्य-तनूकृतस्यारस्य वा अतिशयेन भा-दीप्तिर्यस्याः सा / ‘राजिते' भ्राजिते / भासि' दीप्तिविषये / 'नीहारतारावलक्षे' नीहारं-हिमं तारा-नक्षत्राणि तद्वद् वलक्षे-धवले / 'अमदा' मदरहिता / हे अम्बिके ! गजारौ नीहारतारावलक्षे संस्थिते सुतरां त्वं भव्यलोकं अवेति सम्वन्धः / इति श्रीमहाकविधनपालेन कृता शोभनचतुर्विंशतिकाया वृत्तिः समाप्ता // 4 / 24 / 96 //

Page Navigation
1 ... 228 229 230 231 232 233 234