Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीवीरजिनस्तुतयः 415 'कर्मधारयः' / क्षणरुचिरुचिरोरुचञ्चत्सटाभिः सङ्कटः क्षणरुचि० 'तत्पुरुषः' / उत्कृष्टश्चासौ कण्ठश्च उत्कृष्टकण्ठः ‘कर्मधारयः' / (क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटश्चासौ उत्कृष्टकण्ठश्च क्षणरुचि० 'कर्मधारयः' / ) क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठेन उद्भटः क्षणरुचि० 'तत्पुरुषः' / तस्मिन् क्षणरुचि० / भव्यश्चासौ लोकश्च भव्यलोकः 'कर्मधारयः' / तं भव्य० / गजानामरिर्गजारिः 'तत्पुरुषः' तस्मिन् गजारौ / न सन्ना असन्ना 'तत्पुरुषः' / शितं च तदारं च शितारं 'कर्मधारयः' / अतिशयेन भाऽतिभा 'तत्पुरुषः / शितारवदतिभा यस्याः सा शिता० ‘बहुव्रीहिः' / नीहाराश्च ताराश्च नीहा० 'इतरेतरद्वन्द्वः' / नीहारतारावद् वलक्षो नीहार० 'तत्पुरुषः' / तस्मिन्नीहा० / न विद्यते मदो यस्याः साऽमदा ‘बहुव्रीहिः' / इति काव्यार्थः // 4 / 24 / 96 // // इति श्रीमद्बद्धपण्डितश्री५श्रीदेवविजयगणिशिष्यपं०जयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्ती श्रीवर्धमानस्वामिनः स्तुतेर्व्याख्या // इति श्रीशोभनस्तुतिवृत्तिः सम्पूर्णा // अथ प्रशस्तिःश्रीविजयसेनसूरीश्वरस्य राज्ये सुयौवराज्ये तु / श्रीविजयदेवसूरेरिन्दुरसाब्धीन्दुमितवर्षे // 1 // - आर्या समधीत्य वाचकेन्द्र-श्रींमत्कल्याणविजयगणिशिष्यात् / श्रीधर्मविजयवाचक-शिरोमणेः श्रुतनिधेः किञ्चित् // 2 // - आर्या श्रीदेवविजयविदुषां, शिष्योऽकृत शोभनस्तुतेर्वृत्तिम् / जयविजयः सुखबोधा-मल्पमतीनुपचिकीर्षुरिमाम् // 3 // - आर्या श्रीशोभनस्तुतेर्वृत्तेर्ग्रन्थाग्रं प्रतिपाद्यते / पञ्चाशत्रिशतीयुक्तं, सहस्रद्वितयं मया // 4 // - अनुष्टुप् ग्रन्थाग्रं 2350 / सि० वृ०-सरभसनतेति / हे अम्बिके ! अम्बिकानाम्नि देवि ! त्वं-भवती भव्यलोकं-भविकजनं परम्-उत्कृष्टं यथा स्यात् तथा सुतरां अव-रक्षेत्यर्थः / 'अव रक्षणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / अत्र ‘अव' इति क्रियापदम् / का की ? | त्वम् / कं कर्मतापन्नम् ? / भव्यलोकम् / भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः / कथम् ? / परम् / कथम् ? / सुतराम् / त्वं कथंभूता ? / 'परमवसुतराङ्गजा' अतिशयेन परमवसू-उत्कृष्टतेजसौ अङ्गजौपुत्रौ यस्याः सा तथा / पूर्वभवापेक्षया एतद् विशेषणम् | पुनः कथंभूता ? | ‘आरावसन्नाशितारातिभारा'

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234