Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 225
________________ 416 शोभनस्तुति-वृत्तिमाला आरावो-ध्वनिविशेषः तेन सन्नाशितः-सम्यगदर्शनं नीतः अरातिभारः-शत्रुसमूहो यया सा / पुनः कथंभूता ? / 'भासिनी-भासनशीला / पुनः कथंभूता ? / 'हारतारा' हारेण-मौक्तिकस्रजा ताराउज्ज्वला / पुनः कथंभूता ? / 'बलक्षेमदा' बलं-सामर्थ्य क्षेमं-कल्याणं अनयोः ‘इतरेतरद्वन्द्वः', ते ... ददातीति तथा / पुनः कथंभूता ? / 'असन्ना' न सन्ना असन्ना, अखिन्नेत्यर्थः / पुनः कथंभूता ? | . 'शितारातिभा' शितं-तनूकृतं यदारं-पित्तलं तस्येव अतिभा-अतिशयेन प्रभा यस्याः सा तथा / “रीरिः (तिः) स्त्रियामारकूटो न स्त्रियामथ ताम्रकं” इत्यमरः (श्लो० 1900) / पुनः कथंभूता ? / 'अमदा' न विद्यते मदो-दो यस्याः सा, मदरहितेत्यर्थः / कस्याम् ? / भासि-दीप्तिविषये / अवशिष्टानि सर्वाणि अम्बिकायाः सम्बोधनानि / तेषां व्याख्या त्वेम्-हे ‘सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !' सरभसं-सवेगं नतः-प्रणतो यो नाकिनारीजनः-देवाङ्गनालोकः तस्य उरोजपीठीपुस्तनपीठिकासु लुठन्तः-इतस्ततः परिस्खलन्तस्ताराः-उज्ज्वला ये हाराः-कण्ठाभरणानि तेषां स्फुरन्तःप्रसरन्तो ये रश्मयः-मयूखास्तैः सारे-कवुरीभूते क्रमाम्भोरुहे-चरणारविन्दे यस्याः सा तस्याः सम्वोधनं हे सरभस० / “सारः शबलवातयोः” इति विश्वः / हे संस्थिते !-अधिरूढे ! / कस्मिन् ? / ‘गजारौ' गजानामरिः गजारिः तस्मिन्, केसरिणीत्यर्थः / कथंभूते गजारौ ? / अजिते-केनाऽप्यनभिभूते / पुनः कथंभूते ? / 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिः-तडित् तद्वत् रुचिरा-मनोज्ञा उरवो-विशालास्ताश्च ताश्चञ्चन्त्यः-दीप्यमाना याः सटाः-केसरास्ताभिः सङ्कटो-व्याप्तः स चासावुत्कृष्ट:अतिशायी यः कण्ठो-निगरणं तेनोद्भटः-करालस्तस्मिन् / पुनः कथंभूते ? / राजिते-शोभिते / पुनः कथंभूते ? / 'नीहारतारावलक्षे' नीहारो-हिमं तारा-नक्षत्राणि अनयोः ‘र्द्वन्द्वः', तद्वद् वलक्ष:धवलस्तस्मिन् / “अवदातगौरशुभ्रवलक्षधवलार्जुनाः” इति हैमः (का० 6, श्लो० 29) / हे अम्व !मातः ! / 'अम्बादीनां धौ ह्रस्वः' (सा० सू० 201) इत्यनेन ह्रस्वत्वम् / दण्डकच्छन्दोऽदः / ‘तदूर्ध्वं चण्डवृष्ट्यादि-दण्डकाः परिकीर्तिताः' इति च तल्लक्षणम् / / 4 / 24 / 96 // इति श्रीमहाराजाधिराजपादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातिसाहश्रीअकब्बरजल्लालदीनप्रदत्तषुस्फहमापराभिधानमहोपाध्यायश्रीसिद्ध(द्धि)चन्द्रगणिविरचिताया शोभनाचार्यनाम्ना विहितायाः शोभनस्तुतेः टीकाया श्रीमहावीरतीर्थकरस्येयं स्तुतिवृत्तिः / तत्समाप्तौ च समाप्ता श्रीशोभनस्तुतिवृत्तिः // (3) सौ० वृ०-सरभसेति / हे ‘अम्ब !' हे मातः ! / 'अम्बादीनां धौ ह्रस्वः' (सा० सू० 201) इति वचनात् हे अम्ब ! / हे अम्बिके ! सिद्धायिकापरनाम्नि ! देवि ! / पुनः (?) सरभसं-सहनं सवेगं यथा स्यात् तथा नतः-प्रणतो यो नाकिना-देवानां नारीजनः-स्त्रीगणः तस्य उरोजाः-स्तनाः तेषां पीठी-स्थली

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234