Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीवीरजिनस्तुतयः 409 जन्मग्रहणानि मृतयो-मरणानि तल्लक्षणास्तरङ्गाः-कल्लोला यत्र स तथा निष्पारः-पाररहितः एवंविधो यः संसार एव नीराकरः-समुद्रस्तस्यान्तः-मध्यं तत्र निमज्जन्तो-बुडन्तो ये जनाः-लोकास्तेषां उत्तारः-उत्तरणं तटप्रापणं तत्र नौरिव नौः-तरिः / “पारालिन्दी (?)स्तरङ्गो नौः” इति हारावली / पुनः कथंभूते ? / 'मानस्य वा संसत्' वाशब्दोऽत्र इवार्थे भिन्नक्रमश्च, तत एवं व्यज्यते-मानस्य-पूजायाः संसदिव-सभेव / यदाह “मन्येशलेधुवंप्रायो-नूनमित्येवमादिभिः / उत्प्रेक्षा व्यज्यते शब्दै-रिवशब्दोऽपि तादृशः // " इति / “वा प्रचेतसि जानीयादिवार्थे च तदव्ययम्” इति मेदिनी / भारती किं कुर्वती ? / आतन्वती-विस्तारयन्ती / किम् ? | 'तापदानं' तापस्य-सन्तापस्य दानं-खण्डनम् / अवशिष्टे च द्वे तीर्थकृत्संबोधने / तयोश्चायमर्थः-हे ‘अतन्वतीतापत् !' अतनवो-महत्यो अतीता-विनाशं प्राप्ता आपदोदुर्दशा यस्मात् स तथा तस्य संबोधनं हे अतन्व० / कथम् ? / सदा-नित्यम् / हे हित !-हितकारिन् / कस्मै ? / मतिमते-मनीषिणे, मतिः-सदसद्विवेकिताबुद्धिः सा विद्यते यस्य स मतिमान् तस्मै / / 95 / / (3) सौ० वृ०-परमतेति / हे 'तीर्थकृत् !' तीर्थं चातुर्वर्ण्यसङ्घः प्रवचनं प्रथमगणधरो वा “तित्थं चाउवण्णे संघे पवयणे पढमगणहरे वा” इत्यागेमपाठात् तीर्थं करोतीति तीर्थकृत् तस्य सं० हे तीर्थकृत् ! / हे 'अतन्वतीतापत् !' अतनुः-महती अतीता-गता आपत्-विपत् यस्मात् सः अतन्वतीतापत्, तस्य सं० हे अतन्वतीतापत् ! / हे ‘हित !' हे हितकारिन् ! / [हे 'ईश !' हे स्वामिन् ! |] सा तव भारती निकाय्येआलये निवासं-वासं वितीर्यात्तराम् इत्यन्वयः / 'वितीर्यात्तराम्' इति क्रियापदम् / का की ? / 'भारती' वाणी / 'वितीर्यात्तरां' दद्यात्तराम्-अतिशयेन दद्यात् / किं कर्मतापन्नम् ? / 'निवास' स्थानम् / कस्मिन् ? / 'निकाय्ये' भवने / “निकाय्यो भवनं कुटः” इत्यभिधानचिन्तामणिः (का०४, श्लो०५६) / किंविशिष्टे निकाय्ये ? / 'विश्ववर्ये' विश्वं जगत् तस्मिन् वर्य-प्रधानं विश्ववर्यं तस्मिन् विश्ववर्ये, लोकाग्रस्थाने मोक्षे इत्यर्थः / केषाम् ? / 'नः' अस्माकम् / किंविशिष्टा भारती ? / 'सा' सा-प्रसिद्धा / अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात्, [परं] तदुक्तम्-“प्रकान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते” इति / पुनः किंविशिष्टा भारती ? | परेषां-शाक्यादीनां मतानि तानि एव तिमिराणि-अन्धकाराणि तेषु तेषां वा उग्रा-दीप्ता भानोः-सूर्यस्य प्रभा-कान्तिः परमततिमिरोग्रभानुप्रभा, परपाषण्डमतध्वान्तविनाशकत्वाद् भानुरित्यर्थः / पुनः किंविशिष्टा भारती ? / 'गभीरा' अगाधमध्या / कैः ? / भूरयः-बहवः भङ्गाः-अर्थविकल्पाः, भूरिभङ्गाः तैः ‘भूरिभङ्गैः' / कथम् ? / 'भृशं' 1. तीर्थ चातुर्वर्ण्यः सङ्घः प्रवचनं प्रथमगणधरो वा / 2. भगवती।

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234