Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 216
________________ श्रीवीरज़िनस्तुतयः 407 पुनः कथं० ? 'ईशस्य' स्वामिनः / जगतामिति गम्यते / पुनः किं कुर्वाणस्य ? 'दधानस्य' पुष्णतः / कानि कर्मतापन्नानि ? 'सामानि' प्रियाणि / भारती कथंभूता ? 'परमततिमिरोग्रभानुप्रभा' परेषांशाक्यादीनां मतानि तद्रूपाणि यानि तिमिराणि-तमांसि तत्र भानुप्रभा-तरणिकिरणकल्पा, तदुच्छेदकत्वात् / पुनः कथं० ? 'गभीरा' अलब्धमध्या / कैः कृत्वा ? 'भूरिभङ्गैः' भूरिभिः-प्रचुरैः भङ्गैःअर्थविकल्पैः / कथम् ? 'भृशम्' अत्यर्थम् / पुनः कथं० ? जननमृतितरङ्गनिष्पारसंसारनीराकरान्तनिमज्जज्जनोत्तारनौः' जननानि-जन्मानि मृतयः-मरणानि तद्रूपा ये तरङ्गाः-वीचयः यत्र स तथा निष्पारःपाररहितः, एवंविधो यः संसारनीराकरः-भवपाथोधिः तस्यान्तः-मध्यं तत्र निमज्जन्तः-बुडन्तः ये जनालोकाः तेषामुत्तारणं-पारप्रापणं तत्र नौरिव-अनाविकेव नौः / पुनः कथंभूता ? 'मानस्य वा संसत्' वाशब्द इवार्थे भिन्नक्रमश्च, तत एवं योज्यते-मानस्य-पूजायाः संसदिव-सभेव / भारती किं कुर्वती ? 'आतन्वती' विस्तारयन्ती / किं कर्मतापन्नम् ? तापदानं' तापस्य-सन्तापस्य दानं-खण्डनम् / अवशिष्टे च द्वे तीर्थकृतः सम्बोधने, तयोश्चायमर्थः-हे ‘अतन्वतीतापत्' अतनवः-महत्यः अतीताः नाशं गताः आपदः-विपदो यस्मात् स तथा तत्सम्बो० हे अतन्व० / कथम् ? 'सदा’ नित्यम् / हे ‘हित !' हितकारिन् ! कस्मै ? 'मतिमते' मनीषिणे / एते द्वे भारत्या विशेषणे अपि घटेते / तथा चैवं व्याख्या-अतनवोऽतीता आपदो यस्याः सा तथा / मतिमता-मनीषिणा ईहिता-समीहिता, उपादेयतयाऽभिप्रेतेत्यर्थः / / ____ अथ समासः-परेषां मतानि पर० 'तत्पुरुषः' / तिमिराणीव तिमिराणि | परमतानि च तानि तिमिराणि (च) पर० 'कर्मधारयः' / भानोः प्रभा भानुप्रभा 'तत्पुरुषः' / उग्रा चासौ भानुप्रभा च उग्र० 'कर्मधारयः' / (परमततिमिरेषु) उग्रभानुप्रभेव उग्रभानुप्रभा परमततिमिरोग्रभानुप्रभा 'तत्पुरुषः' / भूरयश्च ते भङ्गाश्च भूरिभङ्गाः ‘कर्मधारयः' / तैः भूरि० / विश्वे विश्वस्मिन् वा वो विश्ववर्यः ‘तत्पुरुषः' / तस्मिन् विश्व० / हतिरस्यास्तीति हतिमान् / न हतिमान् अहतिमान् ‘तत्पुरुषः' / तस्मिन्नह० / अथवा न विद्यते हतिर्यस्य सोऽहतिः ‘बहुव्रीहिः' / तमहतिम् / अतिशयेन मतः अतिमतः 'तत्पुरुषः' / तस्मिन्नतिमते / न तनवोऽतनवः / अतनवश्च ता अतीताश्च अतन्वतीताः ‘कर्मधारयः' / अतन्वतीता आपदो यस्मात् सोऽतन्व० 'बहुव्रीहिः' / तत्सम्बो० हे अतन्व० / अथवा अतन्वतीता आपदो यस्याः साऽतन्व० 'बहुव्रीहिः' / आनन्दस्य धानमानन्दधानं 'तत्पुरुषः' / तस्यानन्द० / मानोऽस्यास्तीति मानी / न मानी अमानी 'तत्पुरुषः' / तस्यामानिनः / अथवा न मानिनोऽमानिनः 'तत्पुरुषः' / सह अमानिभिर्वर्तते यः स सामानी 'तत्पुरुषः' / तस्य सामा० / जननानि च मृतयश्च जनन० 'इतरेतरद्वन्द्वः' / तरङ्गा इव तरङ्गाः / जननमृतयस्तरङ्गा यस्य स जनन० 'बहुव्रीहिः' / नीराणामाकरो नीराकरः 'तत्पुरुषः' / नीराकर इव नीराकरः / संसारश्चासौ नीराकरश्च संसार० 'कर्मधारयः' / निर्गतः पारो यस्मात् स निष्पारः ‘बहुव्रीहिः' / निष्पारश्चासौ संसारनीराकरश्च निष्पार० 'कर्मधारयः' / जननमृतितरङ्ग HERE

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234