Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 215
________________ 406 शोभनस्तुति-वृत्तिमाला च मदशोकाभ्यां पृथ्वी-वितता च या न भवति / ईक्षणानि-चढूंषि ज्ञानानि वा प्राति-पूरयति सा | यशसा भातानि-शोभितानि पत्राणि-वाहनानि प्रभजन्ते ये उर्वराराजः-पृथ्वीपतयः परेताः-पिशाचा अहयोनागास्तारा-ज्योतिष्कास्तेषामुचितं-योग्यम् / समवसरणविशेषणमिदम् / / 94 / / भारत्यै प्रार्थनापरमततिमिरोग्रभानुप्रभा भूरिभङ्गेर्गभीरा भृशं विश्ववर्य निकाय्ये वितीर्यात्तरा महतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्वतीतापदानन्दधानस्य सामानिनः / जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौर्भारती तीर्थकृत् ! महति मतिमते हितेशस्य मानस्य वा संसदातन्वती तापदानंदधानस्य सामानि नः // 3 // 95 // -अर्णव० (1) ज० वि०-परमतेति / हे तीर्थकृत् ! तीर्थंकर ! ते-तव मते-शासने सा-प्रसिद्धा, अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात् / तदुक्तम्-“प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते” इति / भारती-वाणी नः-अस्माकं विश्ववर्ये-भुवनोत्तमे सर्वोत्तमे वा निकाय्ये-निवासे मोक्ष इत्यर्थः, वासम्-आश्रयं वितीर्यात्तराम्-अतिशयेन वितरत्विति क्रियाकारकप्रयोगः / इयं कषुक्तिः / अत्र 'वितीर्यात्तराम्' इति क्रियापदम् / का कर्जी ? 'भारती' / कस्य ? 'ते' / कं कर्मतापन्नम् ? 'वासम्' / कस्मिन् ? 'निकाय्ये' निवासे / कथंभूते ? 'विश्ववर्य' / केषाम् ? 'नः' / निकाय्ये पुनः कथंभूते ? 'अहतिमति' हतिः-हननं तदहिते, अविनाशिनीत्यर्थः / अथवा अहतिमिति द्वितीयान्तं वासविशेषणम् / अतिमते इति सप्तम्यन्तं निकाय्यविशेषणम् / तयोश्चायमर्थः-अहतिं-हतिरहितम् अतिशयेन मतेऽभिप्रेते एतत्पक्षे मते-शासने इत्युक्तं तन्न व्याख्येयम् / हीति स्फुटार्थम् / पुनः कथंभूते निकाय्ये ? 'महति' अतिप्रमाणे, पञ्चचत्वारिंश(लक्ष)योजनात्मकत्वात् / तव (ते) कथंभूतस्य ? 'शस्यमानस्य' स्तूयमानस्य / नरामराद्यैरित्यर्थः सामर्थ्याद् गम्यते / पुनः कथं ? 'आनन्दधानस्य' प्रमोदस्थानस्य / पुनः कथं० ? 'अमानिनः' निरहङ्कारस्य / अथवा 'सामानिनः' सह अमानिभिः-निरभिमानिभिः अर्थात् साध्वादिभिर्यः स तथा तस्य / अस्मिन् व्याख्यानपक्षे सा तव भारतीति तच्छब्दसापेक्षं न व्याख्येयम् / 1. मति मते' इत्यपि पदच्छेदः / 2. 'साऽमानिनः' इत्यपि पाठः समीचीनः / 'मतिमतेहिते०' इत्यपि पाठः / .

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234