Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 404 शोभनस्तुति-वृत्तिमाला भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता / दवनं च मदश्च शोकश्च दवनमदशोकाः, दवनमदशोकैः सहिता सदवनमदशोका; न विद्यन्ते सदवनमदशोका येषां ते असदवनमदशोकाः अर्थात् साधवः, असदवनमदशोकानां-साधूनां पृथ्वीव पृथ्वी आयता-विशाला भूमिरिव असदवनमदशोकपृथ्वी / ईक्षणानिज्ञानादीनि नयनानि प्राति-ददातीति ईक्षणप्रा / 'प्रा दाने' धातोरित्यस्य प्रातीति प्रयोगः / यशसा भातानि यशोभातानि, यशोभातानि च तानि पत्राणि च यशोभातपत्राणि, यशोभातपत्राणि प्रकर्षण भजन्ते ते यशोभातपत्रप्रभाजः, उर्वराया राट् (जः) उर्वराराजः, यशोभातपत्रप्रभाजश्च ते उर्वराराजश्च यशोभातपत्रप्रभागुर्वराराजः, यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभातपत्रप्रभागुर्वराराट्परेताहिताराः, यशोभातपत्रप्रभागुर्वराराट्परेताहितारेः(राणां) उचितं-पूर्णं शोभायमानं यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् / इति द्वितीयवृत्तार्थः / / 94 / / (4) दे० व्या०-समवसरणमत्रेति / सा अर्हता-तीर्थङ्कराणां सन्ततिः-श्रेणिः भक्तिभाजां समीहितंवाञ्छितं प्रवितरतु-ददातु इत्यन्वयः / 'तृ प्लवनतरणयोः' इति धातुः / 'प्रवितरतु' इति क्रियापदम् / का की ? / सन्ततिः / केषाम् ? / अर्हताम् / कं कर्मतापन्नम् ? / समीहितम् / केषाम् ? / 'भक्तिभाजां' भक्तिं-सेवां भजन्तीति भक्तिभाजः तेषाम् / यत्तदोर्नित्याभिसम्बन्धाद् यस्याः अर्हत्सन्ततेः समवसरणंवप्रत्रयं अराराड्-अत्यर्थं यथा स्यात् तथा अत्र-अस्मिन् लोके शुशुभे इत्यध्याहारः (?) / 'शुशुभे (अराराट्)' इति क्रियापदम् / किं कर्तृ ? / समवसरणम् / कस्याः ? / यस्याः / किंविशिष्टं समवसरणम् ? / 'स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' / केतुः-धर्मध्वजः, चक्रं-धर्मचक्रं, आनको-देवदुन्दुन्धिः, “भेरी दुन्दुभिरानकः” इत्यमरः (?), पद्मानि-सुरकृतकमलानि, शालत्रयी-प्राकारत्रयी, अशोकः-(कङ्केल्लि)वृक्षः, आतपत्राणिछत्राणि एतेषां पूर्वं 'द्वन्द्वः', तथा च स्फुरन्-विराजमानः केतुश्च चक्रं च आनकश्च अनेकानि पद्मानि च इन्दुरुक्चामराणि च उत्सर्पिणी शालत्रयी च सन्-शोभनः अवनमन्-पल्लवादिभारेण खर्वीभवन् अशोकश्च पृथ्व्याः क्षणप्रायशोभा-उत्सवसदृशशोभा च आतपत्राणां प्रभा च ताभिः गुरु-गरिष्ठमित्यर्थः / पुनः किंविशिष्टम् ? / ‘परेताहितारोचितं' परेताः-दूरीभूताः अहिता-शत्रवो येषां तैः आ-समन्तात् रोचितंशोभितम् / यद्वा परा-प्रधाना इताहिता-गतदुर्जना इत्यर्हत्सन्ततेर्विशेषणम् / रोचितं-शोभितं इति समवसृतेर्विशेषणम् / पुनः किंविशिष्टम् ? / 'यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम्' उर्वराराजोराजानः परेताः-पिशाचाः अहयो-नागकुमाराः तारा-ज्योतिष्काः एतेषां पूर्वं 'द्वन्द्वः', ततो यशोभातानियशसा शोभितानि पत्राणि-वाहनानि भजन्ते ये उर्वराराट्परेताहिताराः तेषां उचितं-योग्यम् / / इति द्वितीयवृत्तार्थः / / 94 / /

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234