Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 211
________________ 402 शोभनस्तुति-वृत्तिमाला यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभातपत्रप्रभागुर्वराराट्परेताहिताराः 'इतरेतरद्वन्द्वः' / “यत्र द्वित्वं बहुत्वं च, स द्वन्द्व इतरेतरः / समाहारो भवेदन्यो, यत्रैकत्वं नपुंसके // 1 // " इत्युमापतिधरमहोपाध्यायाः / / 94 / / सौ० वृ०-समवसरणमत्रेति / सा अर्हता-तीर्थकृतां संहतिः-समूहः भक्तिभाजां-भक्तिकराणां जनानां समीहितं-वाञ्छितं प्रवितरतु इत्यन्वयः / 'प्रवितरतु' इति क्रियापदम् / का की ? / 'संहतिः' / केषाम् ? / 'अर्हताम्' / किं कर्मतापन्नम् ? / 'समीहितम्' / केषाम् ? / 'भक्तिभाजाम्' / किंविशिष्टा अर्हतां संहतिः ? | भवाम्भोधौ-संसारसमुद्रे सम्भ्रान्ताः-व्याकुलीभूता ये भव्या-मुक्तिगमनयोग्याः तेषां आवली-श्रेणिः तया सेविता-आराधिता ‘भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता' / पुनः किंविशिष्टा अर्हतां संहतिः ? / दवनः-तापः मदो-जात्यादिः शोकः-शुक्-शोचनं तेन सहिताः सदवनमदशोकाः तेषां पृथ्वी (सद०, न सद०) असदवनमदशोकपृथ्वी' / पुनः कथंभूता अर्हतां संहतिः ? / ईक्षणानि-नयनानि ज्ञानादीनि प्राति-ददातीति 'ईक्षणप्रा' / पुनः किंविशिष्टा अर्हतां संहतिः ? / 'सा' सा-प्रसिद्धा / तच्छब्दो यच्छब्दमपेक्षते / सा का ? / यस्याः / अर्हतां संहत्याः समवसरणं-धर्मदेश(ना)स्थानकं चतुर्विधदेवनिकायनिर्मितं अत्र-जगति अराराडित्यन्वयः / 'अराराट्' इति क्रियापदम् / किं कर्तृ ? / 'समवसरणम्' / 'अराराट्' अतिशयेन वि(व्य)राजत् / कस्याः ? / 'यस्याः' संहत्याः / कुत्र ? / 'अत्र' संसारे / किंविशिष्टं समवसरणम् ? / स्फुरन्तो-दीप्यमानाः चलन्तो वा केतवो-ध्वजाः धर्मध्वजादयः चक्र-धर्मचक्रं आनकाध्वनदुन्दुभयः पटहाः वा अनेकानि पद्मानि सुरनिर्मितानि इन्दुः-चन्द्रः तद्वद् रुक्-कान्तिः येषां तानि तादृशानि चामराणि-वालव्यजनानि तथा उत्सर्पिणी-प्रोत्तुङ्गा सालत्रयी तथा सन्-शोभनः अवनमन्पुष्पफलदलप्राग्भारेण नमन् यः अशोकः-कङ्केल्लितरुः तथा पृथिव्यां-जगति क्षणप्रायाणि उत्सवयोग्या शोभा-कान्तिः येषु तानि आतपत्राणि-छत्राणि तेषां प्रभा-कान्तिः तया गुरु-महत्-महयँ ‘स्फुरत्केतुचक्रानकानेकपोन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' / पुनः किंविशिष्टं समवसरणम् ? | परेता-गता अहिताः-शत्रवः येषां ते तादृशाः साधवः तैः आसमन्तात् रोचितं-व्याप्तं (?) ‘परेताहितारोचितम्' / यद्वा किंविशिष्टा अर्हतां संहतिः ? / परेता-गता अहिताःसप्तेतयो यस्यां सा 'परेताहिता' / “साग्रे च गव्यूतिशतद्वये रुजा 1 वैरी(रे) 2 तयो 3 मार्य 4 तिवृष्ट्य 5 वृष्टयः 6 / दुर्भिक्ष 7 मन्यस्वकचक्रतो 8 भयं स्यान्नेति (नैत एकादश कर्मघातजाः) // ".

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234