Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 400 ___ शोभनस्तुति-वृत्तिमाला यशसा-कीर्त्या भातानि-शोभीनि पत्राणि-गजवाजिसुखासनप्रमुखानि वाहनानि प्रभजन्त इति यशोभातपत्रप्रभाजः, एतादृशाः उर्वराराजः-राजानो-भूभुजः परेताः-पिशाचा-व्यन्तरदेवविशेषाः अहयोनागाख्या-भवनवासिदेवविशेषाः तारा-ज्योतिष्कदेवविशेषाः तेषामुचितं-योग्यम् / / ___अथ समासः-स्फुरन्तश्च ते केतवश्च स्फुर० 'कर्मधारयः' / न एकान्यनेकानि 'तत्पुरुषः / अनेकानि च तानि पद्मानि च अनेक० 'कर्मधारयः' / इन्दोरिव रुचिर्येषां तानि इन्दुरुचीनि 'बहुव्रीहिः' / इन्दुरुचीनि च तानि चामराणि च इन्दु० 'कर्मधारयः' / सालानां त्रयी सालत्रयी 'तत्पुरुषः' / उत्सर्पिणी चासौ सालत्रयी च उत्सर्पि० 'कर्मधारयः' / अवनमंश्चासावशोकश्च अवन० 'कर्मधारयः' / संश्चासाववनमदशोकश्च सदव० 'कर्मधारयः' / पृथ्व्याः क्षणप्राया पृथ्वी० 'तत्पुरुषः' / पृथ्वीक्षणप्राया शोभा येषां तानि पृथ्वी० ‘बहुव्रीहिः' / आतपात् त्रायन्त इत्यातपत्राणि 'तत्पुरुषः' / पृथ्वीक्षणप्रायशोभानि च तान्यातपत्राणि (च) पृथ्वी० ‘कर्मधारयः' / स्फुरत्केतवश्च चक्रं च आनकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सर्पिसालत्रयी च सदवनमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतु० 'इतरेतरद्वन्द्वः' / स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणां प्रभा स्फुरत्केतु० 'तत्पुरुषः' / स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभाभिर्गुरु स्फुरत्केतु० "तत्पुरुषः' / परेताः अहिता येषां ते परे० 'बहुव्रीहिः' / परेताहितैरारोचितं परेता० 'तत्पुरुषः' / भक्तिं भजन्त इति भक्तिभाजः 'तत्पुरुषः' / तेषां भक्ति० / अम्भोधिरिवाम्भोधिः / भवश्चासावम्भोधिश्च भवाम्भोधिः ‘कर्मधारयः' / भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ताः 'तत्पुरुषः' / भव्यानामावली भव्यावली 'तत्पुरुषः' / भवाम्भोधिसम्भ्रान्ता चासौ भव्यावली च भवाम्भो० 'कर्मधारयः' / भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता भवाम्भो० 'तत्पुरुषः' / सह दवनेन वर्तत इति सदवना 'तत्पुरुषः' / मदश्च शोकश्च मदशोको 'इतरेतरद्वन्द्वः' / मदशोकाभ्यां पृथ्वी मदशोक० 'तत्पुरुषः' / सदवना चासौ मदशोकपृथ्वी च सदवन० 'कर्मधारयः' / न सदवनमदशोकपृथ्वी असदवन० 'तत्पुरुषः' / ईक्षणानि प्रातीति ईक्षणप्रा ‘तत्पुरुषः' / यशसा भातानि यशो० 'तत्पुरुषः' / यशोभातानि च तानि पत्राणि च यशो० 'कर्मधारयः' / यशोभातपत्राणि प्रभजन्त इति यशोभा० / उर्वराया राज उर्वरा० 'तत्पुरुषः' / यशोभातपत्रप्रभाजश्च ते उर्वराराजश्च यशोभा० 'कर्मधारयः' / यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभा० 'समाहार(इतरेतर?)द्वन्द्वः' / यशोभातपत्रप्रभागुर्वराराट्परेताहिताराणामुचितं यशोभा० 'तत्पुरुषः / इति काव्यार्थः / / 94 / / सि० वृ०-समवसरणमत्रेति / सा अर्हता-परमेष्ठिनां सन्ततिः-समूहः भक्तिभाजां-सेवाकारिणां श्रद्धावतां समीहितं-वाञ्छितं प्रवितरतु-प्रकर्षण करोत्वित्यर्थः / प्रविपूर्वक 'तृ प्लवनतरणयोः' धातोः

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234