Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 398 शोभनस्तुति-वृत्तिमाला वैमानिकस्य सम्बन्धिनी उदारा च तारा च, अथवा वरतमः सङ्गमः-समागमो यस्याः सा वरतमसङ्गमा उदारतारा-अदीनलोचनकनीनिका उदितानङ्गा-उद्गतस्मरा या नार्यावली-नारीणां आवली-पङ्क्तिस्तस्या लापेन-जल्पितेन देहेन ईक्षितेन च अमोहितानि अक्षाणि-इन्द्रियाणि यस्य सः / भवान्' त्वम् / 'मम' मे / वितरतु' प्रयच्छतु / 'वीर!' हे वीरजिन ! / निर्वाणशर्माणि' मोक्षसुखानि / 'जातावतारः' अवतीर्णः, उत्पन्न इत्यर्थः / ‘धराधीशसिद्धार्थधाम्नि' धराधीशः-क्षितिपतिः यः सिद्धार्थाभिधानस्तस्य धाम्नि-गृहे / 'क्षमालङ्कृतौ' क्षमायाः-भुवोऽलङ्कारभूते / ‘अनवरतं' अजस्रम् / ‘असङ्गमोद !' सङ्गमोदाभ्यां रहित ! / यदिवा सङ्गाद् यो मोदः स नास्ति यस्य असौ असङ्गमोदः-स्वतन्त्रसुखस्तस्यामन्त्रणम् / 'अरत !' असक्त ! / 'अरोदित !' रोदितहीन ! / 'अनङ्गन !' अङ्गनावर्जित ! / 'आर्यावं !' आर्यानवति यस्तदामन्त्रणम् / 'लीलापदे' विलासानां स्थाने / 'हे' इत्यामन्त्रणं पदम् / ‘क्षिताम !' क्षपितरोग / 'हित !' हितकारिन् ! / 'अक्षोभवान्' नक्षोभवान्, न भयान्वितः / हे वीर ! भवान् मम निर्वाणशर्माणि वितरत्विति सम्बन्धः / / 93 / / अवचूरिः .. नमताममराणां शिरोरुहेभ्यः-केशेभ्यः सस्ताः सामोदानां निर्निद्राणां-विकसितानां मन्दाराणां या मालास्तासां रजसा-परागेण रञ्जितांहे !-पाटलितचरण ! / धरित्र्या-भुवः कृतावन !-विहितरक्षण ! / वरतम ! - प्रधानतम ! | संगमनाम्नो देवस्य संबन्धिनी उदारा तारा उदितानङ्गा-उद्गतस्मरा अथवा वरतमः संगमः-समागमो यस्याः सा वरतमसंगमा उदारतारा-अदीनकनीनिका उदितानङ्गा-उद्गतस्मरा या नार्यावली-नारीणां पङ्क्तिस्तस्या लापेन-जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि-इन्द्रियाणि यस्य स भवान्-त्वं मम वितरतु हे वीरजिन ! निर्वाणशर्माणि-मोक्षसुखानि / जातावतारः-अवतीर्णः, उत्पन्न इत्यर्थः / धराधीशः-क्षितिपतिर्यः सिद्धार्थस्तस्य धाम्नि-गृहे / कथंभूते ? ।क्षमालंकृतौ-भुवोऽलंकारभूते / अनवरतम्-अजस्रम् / हे असङ्गमोद !-सङ्गमोदाभ्यां रहित ! / यद्वा सङ्गाद् यो मोदः स नास्ति यस्यासौ असङ्गमोदः / स्वतन्त्रसुख इत्यर्थः / हे अरत !-अनासक्त ! / हे अरोदित !-रोदनहीन !, शोकरहितेत्यर्थः / हे अनङ्गन !-अङ्गनारहित ! / हे आर्याव ! आर्यानवति यस्तदामन्त्रणम् / धाम्नि कथंभूते ? / लीलानांविलासानां पदे-स्थाने / हे इत्यामन्त्रणे / भवान् कथंभूतः ? | क्षितामः-क्षपितरोगः / हे हित !हितकारिन् ! / पुनः कथंभूतः ? / अक्षोभवान्-न भयान्वितः / हे वीर ! भवान् मम निर्वाणशर्माणि वितरत्विति संबन्धः / / 93 / /

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234