Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 208
________________ श्रीवीरजिनस्तुतयः 399 जिनसमूहस्य स्तुतिःसमवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयी सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् / प्रवितरतु समीहितं साऽर्हतां संहतिभक्तिभाजां भवाम्भोधिसम्भ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् // 2 // 94 // -- अर्णव० (1) ज० वि०-समवसरणमत्रेति / सा अर्हतां-पारगतानां संहतिः-समूहः भक्तिभाजां-सेवाकारिणां समीहितं-वाञ्छितं प्रवितरत्विति क्रियाकारकसम्बन्धः / अत्र ‘प्रवितरतु' इति क्रियापदम् / का की ? 'संहतिः' / केषाम् ? 'अर्हताम्' / किं कर्मतापन्नम् ? 'समीहितम्' / केषाम् ? 'भक्तिभाजाम्' / अर्हतां संहतिः कथंभूता.? 'भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता' भवाम्भोधौ-संसारसागरे सम्भ्रान्ता-व्याकुलीभूता एवंविधा या. भव्यावली-भव्यजन्तुसन्ततिः तया सेविता-आराधिता / पुनः कथंभूता ? 'असदवनमदशोकपृथ्वी' सह दवनेम-उपतापेन वर्तत इति सदवना, मदो-जात्याद्यभिधानः, शोकःशोचनं, ताभ्यां पृथ्वी-वितता, सदवना मदशोकपृथ्वी च न भवति या सा तथा / पुनः कथं० ? 'ईक्षणप्रा' ईक्षणानि-लोचनानि प्राति-पूरयति आप्याययतीति ईक्षणप्रा / अथवा ईक्षणानि-ज्ञानानि प्राति-ददातीति ईक्षणप्रा / सेति तच्छब्दसाहचर्या यच्छब्दयोजनामाह-यस्या अर्हतां संहतेः समवसरणं-सुरकृतं धर्मदेशनास्थानं अत्र-अस्मिन् जगति अराराङ-अत्यर्थमराजत् / अत्र 'अराराट्' इति क्रियापदम् / किं कर्तृ ? 'समवसरणम्' / कस्याः ? 'यस्याः' / कुत्र ? 'अत्र' | समवसरणं कथंभूतम् ? 'स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' स्फुरन्तः-चलन्तः केतवःध्वजाः चक्रं-धर्मचक्रं आनकाः-देवदुन्दुभयः अनेकपद्मानि-बहूनि सुरनिर्मितकमलानि इन्दुरुक्-चामराणि चन्द्रोज्ज्वलानि वालव्यजनानि उत्सर्पिसालत्रयी-उत्तुङ्गप्राकारत्रयं सदवनमदशोकः सन्-प्रधानोऽवनमन्नम्रीभवन् अशोकः-कट्टेल्लिपादपः पृथ्वीक्षणप्रायाणि-भुव उत्सवावहानि आतपत्राणि-छत्राणि, एतेषां स्फुरत्केत्वादीनां याः प्रभाः-कान्तयः ताभिर्गुरु-महार्हम् / पुनः कथं० ? ‘परेताहितारोचितं' परेताःअपगता अहिताः-शत्रवो येषां ते तथा, गतवैरार्था यत्यादयः, तैरारोचितं-उपशोभितम् / आरोचितमिति पृथगेव समवसरणविशेषणम्, परेता हिता इति च विशेषणद्वयमर्हतां संहतेः / तदर्थश्चायम्-परा-प्रधाना इताहिता-गतशत्रुरिति / समवसरणं पुनः कथं० ? 'यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम्' 1. 'शालत्रयी' - इत्यपि पाठः / 2. 'प्रायशोभानि-भुव उत्सवावहा शोभा-कान्तिर्येषु तानि' इति प्रतिभाति /

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234