Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीवीरजिनस्तुतयः . तुतयः 405 ध० टीका-समवसरणमिति / 'समवसरणं' सुरकृतं तीर्थकृतां धर्मदेशनास्थानम् / 'अत्र' अस्मिन् / 'यस्याः' / 'स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' केतुः-धर्मध्वजः चक्रं-धर्मचक्रं आनको-देवदुन्दुभिः अनेकपद्मानि-सुरकृतकमलानि इन्दुरुक्चामराणि-चन्द्रावदातप्रकीर्णानि उत्सर्पिसालत्रयी-प्रवृद्धप्राकारत्रयी सदवनमदशोकःप्रधानावनमदशोकद्रुमः पृथ्वीक्षणप्रायशोभा-मेदिन्युत्सवभूतच्छाया आतपत्राणि-छत्रत्रयं प्रभा-कान्तिः स्फुरन्-विराजमानः केतुश्च चक्रं च आनकश्च अनेकानि पद्मानि च इन्दुरुक्चामराणि च उत्सर्पिणी सालत्रयी च सन्-शोभनः अवनमन्-पल्लवादिप्राग्भारेण खर्वीभवन् अशोकश्च पृथ्वीक्षणप्रायशोभा-पृथ्व्याभुवःक्षणप्रायशोभा-उत्सवकल्पशोभा आतपत्राणि प्रभा च ताभिर्गुरु-महार्हम् / 'अराराट्' अत्यर्थमराजत् / ‘परेताहितारोचितं' परेताः-अपगताः अहिताः-शत्रवो येषां तैरारोचितं-उपशोभितम् / अथवा पराप्रधाना, इताहिता-गतशत्रुरिति / अर्हत्संहतेर्विशेषणे / ‘रोचितं' शोभितम् / 'प्रवितरतु' प्रयच्छतु / 'समीहितं' वाञ्छितम् / 'सा' / 'अर्हतां' जिनानाम् / 'संहतिः' सङ्घातः / ‘भक्तिभाजां' अनुरागजुषाम् / 'भवाम्भोधि-सम्भ्रान्तभव्यावलीसेविता' भवाम्भोधौ सम्भ्रान्ता-आकुलीभूता या भव्यावली तया सेविता / 'असदवन-मदशोकपृथ्वी' सदवंना च-सोपतापा च मदशोकाभ्यां पृथ्वी च-वितता च या न भवति सा / 'ईक्षणप्रा' ईक्षणानि-चढूंषि ज्ञानानि वा प्राति-पूरयति-आप्याययति या सा / 'यशोभातपत्रप्रभागुर्वराराटपरेताहितारोचितं' यशोभातानि-(कीर्त्या) शोभना(भिता)नि पत्राणि-वाहनानि प्रभजन्ते ये उर्वराराजःपृथ्वीपतयः परेताः-पिशाचाः अहयो-नागाः ताराः-ज्योतिष्काः तेषां उचितं-योग्यम् / यस्याः समवसरणं अत्र अराराट् सा अर्हतां संहतिः समीहितं भक्तिभाजां प्रवितरतु इति सम्बन्धः / / 94 / / अवचूरिः समवसरणं-धर्मदेशनास्थानं यस्याः अत्र-अस्मिन् अराराड्-भृशमराजत सा अर्हतां ततिभक्तिभाजां समीहितं वितरतु / समवसरणं कथंभूतम् ? / स्फुरत्केतुः-धर्मध्वजश्चक्रं-धर्मचक्रं आनको-देवदुन्दुभिः अनेकपद्मानि-सुरकृतकमलानि इन्दुरुक्चामराणि-चन्द्रावदातप्रकीर्णकानि उत्सर्पिणी सालत्रयीप्राकारत्रयं प्रधानावनमदशोकद्रुमः पृथिव्युत्सवभूतच्छायातपत्रत्रयं तस्य प्रभा-कान्तिस्तया गुरु-महार्हम् / पुनः किंभूतम् ? / परेता-अपगता अहिताः-शत्रवो येषां तैरारोचितं-शोभितम् / अथवा परा-प्रधाना इताहिता-गतशत्रुरित्यर्हतां संहतेर्विशेषणे / आरोचितं-शोभितम् / संहतिः कथंभूता ? | भवाम्भोधौसंसारसमुद्रे संभ्रान्ता-आकुलीभूता या भव्यावली तया सेविता | पुनः कथंभूता ? / सदवना-सोपतापा

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234