Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 217
________________ 408 शोभनस्तुति-वृत्तिमाला श्चासौ निष्पारसंसारनीराकरश्च जनन० 'कर्मधारयः' / जननमृतितरङ्गनिष्पारसंसारनीराकरस्यान्तः जनन० 'तत्पुरुषः' / जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जन्तो जनन० 'तत्पुरुषः' / जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जन्तश्च ते जनाश्च जनन० 'कर्मधारयः' / जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनानामुत्तारो० जनन० 'तत्पुरुषः' / जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारे नौर्जनन० 'तत्पुरुषः' / तीर्थं करोतीति तीर्थकृत् 'तत्पुरुषः' / तत्सम्बो० हे तीर्थकृत् ! / तापस्य दानं तापदानं 'तत्पुरुषः' (तत्) / इति काव्यार्थः / / 95 / / (2) सि० वृ०-परमतेति / हे तीर्थकृत् ! तीर्थकर ! ते-तव मते-शासने सा-प्रसिद्धा भारती-वाणी न:: अस्माकं विश्ववर्ये-भुवनोत्तमे निकाय्ये-निवासे अर्थान्मोक्षे वा ममाश्रयं वितीर्यात्तराम्-अतिशयेन (दद्यात्) इत्यर्थः / विपूर्वक 'तृप्लवनतरणयोः' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'ऋत इर्' (सा० सू० 820) / 'य्वोर्विहसे' (सा० सू० 316) इति दीर्घः / तथा च 'वितीर्यात्' इति सिद्धम् / अत्र 'वितीर्यात् (तराम्)' इति क्रियापदम् / का की ? | भारती / कं कर्मतापन्नम् ? / वासम् / कस्य ? | ते / कस्मिन् ? / निकाय्ये / “मन्दिरं सदनं सद्म, निकाय्यो भवनं कुटः” इति हैमः (अभि० का० 4, श्लो० 56) / कथंभूते निकाय्ये ? / 'विश्ववर्य' विश्वस्मिन् वर्य-प्रधानं विश्ववर्यं तस्मिन् / केषाम् ? | 'नः' षष्ठीबहुवचने अस्माकं इत्यस्य नसादेशः / पुनः कथंभूते निकाय्ये ? | ‘अहतिमति' हतिः-हननं तदहिते, अविनाशिनीत्यर्थः / अथवा अहतिमिति द्वितीयान्तं वासविशेषणम् / अतिमते इति सप्तम्यन्तं निकाय्यविशेषणम् / तयोश्चायमर्थः-अहर्ति-हतिरहितं, अतिशयेन मते-अभिप्रेते / एतत्पक्षे मते-शासने इत्युक्तं तन्न व्याख्येयम् / हीति स्फुटार्थम् / पुनः कथंभूते ? | महति-अतिप्रमाणे, पञ्चचत्वारिंशल्लक्षयोजनत्वात् / तव (ते) कथंभूतस्य ? | शस्यमानस्य-स्तूयमानस्य / नरामराद्यैरिति गम्यम् / पुनः कथंभूतस्य ? | ‘आनन्दधानस्य' आनन्दस्य धानं आनन्दधानं तस्य, प्रमोदस्थानस्येत्यर्थः / पुनः कथंभूतस्य ? | ‘अमानिनः' न विद्यते मानः-अभिमानो यस्य स तस्य / अथवा सामानिनः सह अमानिभिःनिरभिमानिभिरर्थात् साध्वादिभिर्यः स तथा तस्य | पुनः कथंभूतस्य ? / ईशस्य-स्वामिनः / जगतामिति गम्यम् / पुनः किं कुर्वाणस्य ? / दधानस्य-पुष्णतः / कानि ? / सामानि-प्रियवचनानि / भारती कथंभूता ? / सा / अयं तच्छब्दो यच्छब्दं नापेक्षते, प्रशस्ता(सिद्धा?)र्थेऽभिहितत्वात् / पुनः कथंभूता ? / 'परमततिमिरोग्रभानुप्रभा' परेषां-बौद्धादीनां मतानि-शासनानि तान्येव तिमिराणि-तमांसि तत्र भानो:सूर्यस्य प्रभेव प्रभा, तन्मततिमिरोच्छेदकत्वात् / पुनः कथं० ? | गभीरा-अलब्धमध्या, गम्भीरेति यावत् / कैः कृत्वा ? / 'भूरिभङ्गैः' भूरयः-प्रचुराः भङ्गाः-अर्थविकल्पाः तैः [भूरिभङ्गैः] / कथम् ? | भृशम्अत्यर्थम् / पुनः कथंभूता ? / 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः' जननानि

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234