Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 210
________________ श्रीवीरजिनस्तुतयः 401 'आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / ‘अप्०' (सा० सू० 691) / 'गुणः' (सा० सू० 692) / 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रवितरतु' इति सिद्धम् / अत्र ‘प्रवितरतु' इति क्रियापदम् | का की ? / सन्ततिः / केषाम् ? / अर्हताम् / किं कर्मतापन्नम् ? / समीहितम् / केषाम् ? / 'भक्तिभाजां' भक्तिम्-अनुरागं श्रद्धां वा भजन्ति ते भक्तिभाजस्तेषाम् / अर्हतां सन्ततिः कथंभूता ? / 'भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता' भव एव अम्भोधिः भवाम्भोधिः तस्मिन् भवाम्भोधौ-संसारसागरे सम्भ्रान्ता-व्याकुलीभूता या भव्यानामावली-पङ्क्तिस्तया सेविता-आराधिता / पुनः कथंभूता ? / 'असदवनमदशोकपृथ्वी' सह दवनेन-उपतापेन वर्तत इति सदवना, मदोजात्याद्यभिमानः शोकः-शोचनं ताभ्यां पृथ्वी-वितता सदवना मदशोकपृथ्वी च न भवति या सा तथा / पुनः कथंभूता ? / 'ईक्षणप्रा' ईक्षणानि-लोचनानि प्राति-पूरयति आप्याययतीति ईक्षणप्रा, अथवा ईक्षणानि-ज्ञानानि प्राति-ददातीति ईक्षणप्रा / सेति सा का ? | यस्याः अर्हतां सन्ततेः समवसरणंदेवविनिर्मितधर्मदेशनास्थानमंत्र-अस्मिन् जगति अराराड्-अत्यर्थं अराजत् / ‘राजृ दीप्तौ' अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'दिबादावट्' (सा० सू०७०७) / ‘अप्०' (सा० सू० 691) / तथा च 'अराराट्' इति सिद्धम् / अत्र 'अराराट्' इति क्रियापदम् / किं कर्तृ ? / समवसरणम् / कस्याः ? | यस्याः / कुत्र ? / अत्र / कथंभूतं समवसरणम् ? | ‘स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' / स्फुरन्तः-चलन्तः केतवः-ध्वजाः चक्रं-धर्मचक्रं आनकाः-देवदुन्दुभयः, अनेकानि च तानि पद्मानि च अनेकपद्मानि-बहूनि सुरनिर्मितकमलानि इन्दोरिव रुक्-रोचिर्येषां तानि चन्द्रोज्ज्वलानि, एवंविधानि चामराणि-वालव्यजनानि उत्सर्पिसालत्रयी-उत्सर्पिणी सा चासौ सालानां-वप्राणां त्रयी सालत्रयी, अवनमंश्चासावशोकश्च अवनमदशोकः (संश्चासौ अव० सद०) पृथ्व्याः क्षणप्राया शोभा येषां तानि [पृथ्वी] क्षणप्रायशोभानि च तानि आतपात् त्रायन्त इत्यातपत्राणिछत्राणि, तथा च स्फुरत्केतवश्च चक्रं च आनकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सर्पिसालत्रयी च सदवनमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणि ‘इतरेतरद्वन्द्वः', एतेषां स्फुरत्केत्वादीनां याः प्रभाःकान्तयस्ताभिः गुरु-गरिष्ठम् / “सालः पादपमात्रे स्यात् प्राकार” इति विश्वः / पुनः कथंभूतम् / ‘परेताहितारोचितं' परेताः-अपगताः अहिताः-शत्रवो येषां ते तथा गतवैरा अर्थान्मुनयस्तैः (आ)रोचितंशोभितम् / पुनः कथंभूतम् ? / 'यशोभातपत्रप्रभागुवराराट्परेताहितारोचितम्' यशसा-कीर्त्या भातानिशोभितानि पत्राणि-गजवाजिसुखासनप्रमुखाणि वाहनानि प्रभजन्त इति यशोभातपत्रप्रभाजः, “पत्रं स्याद् वाहने पर्णे, पक्षे च क्षरपक्षिणाम् (?)" इति विश्वः, एतादृशा ये उर्वराराजो-भूभुजः परेताः-पिशाचाः व्यन्तराः-देवविशेषाः अहयो-नागकुमाराः-भवनपतिदेवविशेषाः ताराः-ज्योतिषिकास्तेषामुचितं-योग्यं,

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234