Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 378 शोभनस्तुति-वृत्तिमाला दे० व्या०-राजीति / सा जिनानां-तीर्थंकराणां राजी-पङ्क्तिः अलम्-अत्यर्थं यथा स्यात् तथा मां अव्याद्-रक्षतादित्यन्वयः / 'अव रक्षणे' धातुः / 'अव्यात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? / जिनानाम् / कं कर्मतापन्नम् ? / माम् / किंविशिष्टा जिनानां राजी ? / 'राजीववक्त्रा' राजीवंकमलं तद्वद् वक्त्रं-मुखं यस्याः सा तथा / “पत्रं राजीवपुष्करे” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 227) / पुनः किंविशिष्टा ? / 'अतिहृद्या' अतिशयेन हृदयङ्गमा / पुनः किंविशिष्टा ? / बोधिकावोधजनका / कस्य ? / ‘अमलमतेः' अमला-निर्मला मतिः-बुद्धिः यस्य स तस्य / पुनः किंविशिष्टा ? | 'अव्याधिकालाननजननजरात्रासमाना', व्याधिः-पीडा, कालाननं-यममुखं मरणमिति यावत्, जननंउत्पत्तिः, जरा-विस्रसा, त्रासः-आकस्मिकं भयं, मानः-स्मयः, एतेषां पूर्वं 'द्वन्द्वः' ततो न विद्यन्ते व्याधिकालाननजननजरात्रा-समाना यस्याः सा तथेति समासः / पुनः किंविशिष्टा ? / 'असमाना' (नास्ति) सदृशो यस्याः सा तथा, धर्मचक्रवर्तित्वात् / यत्तदोर्नित्याभिसम्बन्धात् / (या) जिनानां राजी भीतिहत्, वर्तत इत्यध्याहारः / 'वर्तते' इति क्रियापदम् / का कर्जी ? | जिनानां राजी / किंविशिष्टा जिनानां राजी ? / 'भीतिहृत्' भीतिं हरतीति भीतिहृत् / कस्मिन् ? / 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' अतिशयेन तरलाः तरलतराः चञ्चला इत्यर्थः, ते च ते लसन्तो-राजमानाः केतवः-पताका येषु एतादृशां रङ्गतां-चलतां तुरङ्गाणां व्यालानां-दुष्टदन्तिनां च विशेषेण लग्ना ये योधाःसुभटाः तैः चितो-व्याप्तो रचितः-प्रारब्धो यो रणः-संग्रामः तस्मिन् / / इति द्वितीयवृत्तार्थः / / 90 // ध० टीका-राजीति / 'राजी' परम्परा / 'राजीववक्त्रा' कमलानना / 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' तरलतरलसत्केतवः-कम्प्रतरविलसच्चिह्नका रङ्गतां-चलतां तुरङ्गाणां व्यालानां च-दुष्टदन्तिनां व्यालग्ना-भिटिताः कृताधिरोहणा वा ये योधाः-सुभटास्तैराचित-आकीर्णो रचितः-कृतो यो रणः-सङ्ग्रामः तत्र / भीतिहृत्' भयहरा / 'या' | ‘अतिहृद्या' अतीव हृदयङ्गमा / 'सारा' उत्कृष्टा / 'सा' / 'आरात्' दूरात् अन्तिकाद् वा / 'जिनानां' तीर्थकृताम् / 'अलं' अत्यर्थम् / 'अमलमतेः' निर्मलधियः / ‘बोधिका' बोधिजनका / 'मा' शब्दो मामित्यस्यार्थे / 'अधिकामात्' अधिकः-उत्कटो य आमो-रोगस्तस्मात्, अथवा आधिश्च कामश्च आधिकामं तस्मात् / 'अव्यात्' पायात् / 'अव्याधिकालाननजननजरात्रासमाना' कालाननं-यममुखं मरणमित्यर्थः, न विद्यते व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च यस्याः सा / 'असमाना' असदृशी / या इत्थंभूते रणे भीतिहत् सा जिनानां राजी मा अधिकामादव्यादित्यन्वयः / / 90 / / 1. इदं विचारणीयम् /

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234