Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 197
________________ 388 शोभनस्तुति-वृत्तिमाला विशेषणं क्रियते / पुनः किंविशिष्टा या ? / अविषमा-सौम्या विषभृतः-सर्पाः त एव तेषां वा भूषणानि यस्याः सा ‘अविषमविषभृद्भूषणा' / पुनः किंविशिष्टा या ? | ‘अभीषणा' अक्रूरा | पुनः किंविशिष्टा या ? / भीः-भयं तेन (तया) हीना-रहिता / पुनः किंविशिष्टा या ? / 'कुवलयं-नीलोत्पलं, तस्य वलयंमण्डलं तद्वत् श्यामो-नीलो देहो यस्याः सा 'कुवलयवलयश्यामदेहा' नीलकृष्णयोरैक्यत्वात् / पुनः किंविशिष्टा या ? / अमदा-अनौद्धत्यकारिणी ईहा-चेष्टा इच्छा-वाञ्छा वा यस्याः सा 'अमदेहा' / एतादृशी वैरोट्या त्वां तर्याद् (त्रासाद्?) रक्षताम् / इति पदार्थः / / .. अथ समासः-तारं तेजो यस्याः सा तारतेजाः / सन् चासौ असिश्च सदसिः, सदसिं बिभर्तीति सदसिभृत् / अलकानां अन्ताः अलकान्ताः, कान्ताश्च ते अलकान्ताश्च कान्तालकान्ताः, कालाः कान्तालकान्ता यस्याः सा कालकान्तालकान्ता / अपगता अरयो यस्मात् स अपारिः, तमपारिम् / पारिन्द्राणां राजा इति पारिन्द्रराजः, तं पारिन्द्रराजम् / ‘राजाहःसखिभ्यष्टच्' (पा० अ० 5, पा० 4, सू० 91) / “पारिन्द्रो वाहसः शयुः” इति हैमकोषः (का० 4, श्लो० 371) / सुष्ठु रवो यासां ताः सुरवाः, सुराणां वध्वः सुरवध्वः, सुरवाश्च ताः सुरवध्वश्च सुरवसुरवध्वः, सुरवसुरवधूभिः पूजिता सुरवसुरवधुपूजिता / अरीणां समूहः आरं, आरं जितं येन स जितारः, तं जितारम् / न विषमः अविषमः, विषं बिभर्तीति विषभृत्, अविषमश्चासौ विषभृत् अविषमविंषभृत्, एवं (स एव) भूषणं यस्याः सा अविषमविषभृद्भूषणा; यद्वा अविषमविषभृतः भूषणं यस्याः सा अविषमविषभृद्भूषणा / न भीषणा अभीषणा | भिया हीना भीहीना / अहीनां इनः अहीनः, अग्र्या चासौ पनी च अग्र्यपत्नी, अहीनस्य अग्र्यपत्ती अहीनाग्र्यपत्ती / कुवलयानां वलयं कुवलयवलयं, कुवलयवलयवत् श्यामो देहो यस्याः सा कुवलयवलयश्यामदेहा / न मदा अमदाः, अमदा ईहा यस्याः सा अमदेहा ' / अस्यां स्तुतौ सर्वपदेषु चित्रयमकालङ्कारः / इति तुर्यवृत्तार्थः / / 92 / / श्रीमत्पार्धजिनेन्द्रस्य, स्तुतेरों लिपीकृतः / - सौभाग्यसागराख्येन, सूरिणा ज्ञानसेविना / / त्रयोविंशतितमश्रीपार्श्वजिनस्तुतिः // 4 / 23 / 92 // दे० व्या०-यातेति / सा वैरोट्या देवी त्वां-भवन्तं त्रासाद्-आकस्मिकभयाद् अरं-शीघ्रं यथा स्यात् तथा त्रायतां-रक्षतादित्यन्वयः / 'त्रा रक्षणे' धातुः / 'त्रायताम्' इति क्रियापदम् / का कर्जी ? / वैरोट्या देवी / कं कर्मतापन्नम् ? / त्वाम् / (कस्मात्?) त्रासात् / किंविशिष्टं त्वाम् ? / 'जितारं' अरीणो समूहः 1. 'कुवलयानि-नीलोत्पलानि तेषां वलयं' इति प्रतिभाति / 2. 'ऐक्यत्वाद्' इत्यनुचितम्, 'ऐक्याद्' इत्यत्रोचितम् /

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234