Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 386 शोभनस्तुति-वृत्तिमाला + +++++++++++++ (2) सि० वृ०-यातेति / हे भव्यात्मन् ! सा अहीनाग्र्यपली अहीनो-धरणेन्द्रः तस्याग्र्यपलीमुख्यराज्ञी वैरोट्यादेवीत्यर्थः / पद्मावतीत्यपि स्तुतिस्तोत्रादौ धरणेन्द्रपनीति दृश्यते [सिद्धसेनसरिणा मतैकाधिक्य-विंशतिस्थानप्रकरणे (विंशे स्थाने) “देवीओ चक्केसरी 1 अज(जि)या 2 दुरिया(रि) 3 कालि 4 महाकाली 5 / अच्चुअ 6 संता 7 जलो(जाला) 8 सुतारया 9 सोअ 10 स(सि)रिवच्छा 11 / / पवरा 12 पि(विज)यं 13 कूसा 14 पन्नयत्ति(ण्णत्ती) 15 निव्वाणि 16 अच्चुया 17 धरणी 18 / वैरुट्ट 19 द(छु)त्त 20 गंधारी 21 अंबा(ब) 22 पउमावई 23 सिद्धा 24 / " इति वचनात् तथा हेमाचार्येणाप्येवमुक्तम् (अभि० का० 1, श्लो० 46)- . “नरदत्ताऽथ गान्धार्य-म्बिका पद्मावती तथा / सिद्धायिका चेति जैन्यः, क्रमाच्छासनदेवताः / / " इति] परं श्रीभगवतीसूत्र-प्रवचनसारोद्धार-पार्थचरित्रादौ कुत्रापि तथा दर्शनाभावात् धरणेन्द्रस्य पद्मावती पलीति न प्रतिभाति / तेनैतद् विचार्यमार्यधुर्यैरिति / [पञ्चमाङ्गस्य दशमशतकस्य पञ्चमोद्देशके इत्युक्तम्-“धरणस्स णं भंते ! नागकुमारिंदस्स नागकुमाररण्णो कति अंग्गमहिसीओ पन्नत्ताओ ? (अज्जो !छ अग्गमहिसीओ पन्नत्ताओ) तंजहा-अला 1 सक्का 2 सतेरा 3 सोदामणी 4 इंदा 5 घणविजुत्ता 6, तत्थ णं एगमेगाए देवीए छ छ देविसहस्सा परिवारो प०, पभृणं ताओ एगमेगाए देवीए अन्नाई छ छ देविसहस्साई परियारं विउव्वित्तए” इत्याद्युक्तम् / ] त्वां-भवन्तं त्रासाद्-भयात् त्रायतां-रक्षतु इत्यर्थः / 'त्रैङ् दैङ् पालनयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् / ‘अप्०' (सा० सू० 691) / 'ऐ आय्' (सा० सू० 47) / 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘त्रायताम्' इति सिद्धम् / अत्र ‘त्रायताम्' इति क्रियापदम् / का की ? | अहीनाग्र्यपत्नी / कं कर्मतापन्नम् ? / त्वाम् / कस्मात् ? / त्रासात् / सेति तच्छब्दयोगाद् यच्छब्दयोजनामाह-या अहीनाग्र्यपली पारिन्द्रराजं-अजगरेन्द्रं याता-गता प्राप्तेति यावत् / अत्र ‘अस्ति' इति क्रियापदम् / का की ? / 'या' / किं कर्मतापन्नम् ? / 'पारिन्द्राराजम्' पारिन्द्राणाम्-अजगराणां राजा पारिन्द्रराजः, 'राजाहःसखिभ्यष्टच्' (पा० अ० 5, पा० 4, सू० 91) इति टच्, तम् / “चक्रमण्डल्यजगरः पारिन्द्रो वाहसः शयुः” इति हैमः (का० 4, श्लो० 371) / कथंभूतं पारिन्द्र१. कोऽयं सूरिरिति जिज्ञासातृप्त्यर्थं श्यतां श्रीएकविंशतिस्थानप्रकरणस्य मुनिश्रीदेवविजयलिखिता प्रस्तावना (पृ० 1-2) / 2. 'सामा' इति पाठस्तत्रस्थः /

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234