Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीपार्धजिनस्तुतयः 383 पातकामौ, न स्तः पातकामौ यस्याः सा अपातकामा, यद्वा ततहततमःपातकाश्च अपातकामाश्च यस्यां सा तैतहततमःपातकापातकामा / शास्ति-शिक्षयतीति शास्त्री / यद्वा शास्त्राणां ईशा शास्त्रीशा / स्त्रियश्च नराश्च स्त्रीनराः, तेषां स्त्रीनराणाम् / हृदयं हरतीति हृदयहृत् / न यशांसि अयशांसि, अयशसां रोधिका अयशोरोधिका / न विद्यते बाधा यस्यां सा अबाधिका [वा] | आदातुं योग्या आदेया / इति तृतीयवृत्तार्थः / / 91 / / दे० व्या०-सद्योऽसद्योगेति / सा जैनराजी वाग्-वाणी इह-अस्मिन् लोके ते-तुभ्यं सद्यः-तत्कालं मुदं-हर्षं देयाद्-दद्यादित्यन्वयः / ‘दा दाने' धातुः / ‘देयाद्' इति क्रियापदम् / का कर्ची ? / वाक् / कां कर्मतापन्नाम् ? / मुदम् / कस्य ? / ते-तव / कस्मिन् ? / इह / कथम् ? / सद्यः / किंविशिष्टा वाक् ? / 'जैनराजी' जिनराजानामियं जैनराजी / पुनः किंविशिष्टा ? / 'असद्योगभित्' असन्तम्-अशोभनं योगकायादिव्यापारं यद्वा असद्भिः-असाधुभिः योग-सम्बन्धं भिनत्तीति तथा / पुनः किंविशिष्टा ? / 'अमलगमलया' अमला-निर्मला ये गमाः-सदृशपाठाः तेषां लयः-श्लिष्टता यत्र सा तथा / पुनः किंविशिष्टा ? | ‘इनराजीनूता' इनाना-राज्ञां सूर्याणां वा राजी-पंक्तिः तया नूता-स्तुता / पुनः किविशिष्टा ? / 'नूतार्थधात्री' नूता-नवीना ये अर्थास्तेषां धात्री-धरणशीला | पुनः किंविशिष्टा ? / 'ततहततमःपातका' तमः-अज्ञानं पातकं-पापं अनयोः 'द्वन्द्वः', पश्चात् तते-विस्तृते हते-नाशिते तमःपातके ययेति विग्रहः / पुनः किंविशिष्टा ? | ‘अपातकामा' नास्ति पातः-च्यवनं कामः-कन्दर्पो यस्यां सा तथा / पातश्च कामश्चेति पूर्वं 'द्वन्द्वः' / पुनः किंविशिष्टा ? / शास्त्री-शास्त्रसम्बन्धिनी / शास्त्रीशासिका / 'शासु अनुशिष्टौ' / 'तस्येदम्' (पा० अ० 4, पा० 3, सू० 120) / पुनः किंविशिष्टा ? / 'हृदयहृत्' हृदयं हरतीति हृदयहत्, मनोहारिणीत्यर्थः / केषाम् ? / नराणां-मनुष्याणाम् / पुनः किंविशिष्टा ? / 'अयशोरोधिका' न यशः अयशः इति 'नसमासः', तस्य रोधिका-प्रसरणविघातिनी / पुनः किंविशिष्टा ? / 'अबाधिका' बाधा-पीडा तां न करोतीत्यबाधिका, सर्वेषां सुखजनकोपदेशदातृत्वात् / पुनः किंविशिष्टा ? | ‘आदेया' आदातुं योग्या आदेया, ग्रहणयोग्येत्यर्थः, अविसंवादित्वेन सर्वैरपि तद्ग्रहणात् / वाक् किं कुर्वती ? ।त्याजयन्ती-मोचयन्ती / काम् ? |जरां-वयोहानिम् / कथम् ? / 'मनुजमनु' पुमांसं पुमांसं अनु-लक्षीकृत्य / पुनः किं कुर्वती ? / जयन्ती-जयमासादयन्ती / इति तृतीयवृत्तार्थः / / 91 / / ध० टीका-सद्य इति / ‘सद्यः' तत्क्षणम् / ‘असद्योगभित्' असन्तं-अशोभनं योग-कायादिव्यापारं, असद्भिर्वा-असाधुभिर्योग-सम्बन्धं भिनत्ति या सा | ‘वाक्' वाणी / ‘अमलगमलया' अमलो गमानां लयः

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234