Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 188
________________ श्रीपार्धजिंनस्तुतयः 379 अवचूरिः राजी-श्रेणी राजीववत्-कमलवद्वक्त्रं यस्याः सा | तथा तरलतरलसत्केतवः-कम्प्रविराजमानध्वजा रङ्गतां-चलतां तुरङ्गाणां व्यालानां-दुष्टदन्तिनां व्यालग्ना-अभिघटिताः कृताधिरोहणा वा ये योधाःसुभटास्तैराचित-आकीर्णो रचितः-कृतश्च यो रणः-सङ्ग्रामस्तत्र या भीतिर्भयं तां हरतीति सा / या अतिहृद्या-अत्यन्तहृदयङ्गमा / सारा-उत्कृष्टा / सा यच्छब्दनिर्दिष्टा / आराद्-दूरादन्तिकाद् वा / जिनानां-सर्वज्ञानाम् / अलम्-अत्यर्थम् ।अमला मतिर्यस्य तस्य / बोधिका-बोधजनका / मा-माम् अधिको यो आमो-रोगस्तस्मात् यद्वा आधिश्च कामश्च तस्मात् / व्याधिश्च कालाननं-यममुखं मरणं च जननं च जरा च त्रासश्च मानश्च न विद्यन्ते व्याध्यादयो यस्यां सा / असमाना-गुणैरसदृशा या जिनानां राजी रणे भीतिहत् सा अव्यादिति संबन्धः / / 90 / / जिनवाण्या विचारः, सद्योऽसद्योगभिद वागमलगमलया जैनराजीनराजी.. . नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा / शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा. ऽऽदेया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती // 3 // 91 // - स्रग्० (1) ज० वि०-सद्योऽसद्योगेति / जैनराजी-जिनसम्बन्धिनी वाक्-वाणी ते-तव मुदं-हर्षं देयात्वितीर्यादिति क्रियाकारकान्वयघटना / अत्र ‘देयात्' इति क्रियापदम् / का की ? 'वाक्' / कां कर्मतापन्नाम् ? 'मुदम्' / कुत्र ? 'इह' अत्र जगति / कथम् ? 'सद्यः' तत्क्षणम् / वाक् किमीया ? “जैनराजी' / कथंभूता ? असद्योगभित्' असन्-अशोभनो यो योगः-अकार्यादिव्यापारः तं भिनत्ति सा तथा / अथवा असन्तः-असाधवः तैर्योगः-संसर्गः तं भिनत्ति सा तथा / पुनः कथं० ? 'अमलगमलया' अमला-निर्मला ये गमाः-सदृशपाठाः तेषां लयः-श्लेषो यस्यां सा तथा / पुनः कथं० ? ‘इनराजीनूता' इनाः-चक्रवर्तिवासुदेवादयः पतयः सूर्या वा तेषां राजी श्रेणी तया नूता-स्तुता / पुनः कथं० ? 1. शास्त्रीशा स्त्रीनराणां' इत्यपि पदच्छेदः 2., भ्रान्तम्पदमिदम्, 'काऽसौ' इत्युचितमत्र /

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234