Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 171
________________ 362 शोभनस्तुति-वृत्तिमाला अतिशयेन तमोहरा ‘तमोहरतमा' / पुनः किंविशिष्टा भारती ? / अदरिद्रा-सम्पूर्णा ऊहा-वितर्का यस्यां सा ‘अदरिद्रोहिका' / स्वार्थे कन् / पुनः किंविशिष्टा भारती ? / मानो-दर्पः अहंकारो वा तस्य त्याजनंत्यागः तं करोतीति ‘मानत्याजनकृत्' / कया ? / 'आनत्या' प्रणतिभावेन | पुनः किंविशिष्टा भारती ? / ‘अक्षोभ्या' न क्षोभयितुं शक्या / केषाम् ? / 'वादिनां' कुतीथिकानाम् / किंविशिष्टानां वादिनाम् ? / 'प्रोन्मादिनां' प्रकर्षेण यथा तथा जल्पनशीलानाम् / अत्र मे इति युष्पच्छब्दस्य विशेषादेशरूपं संबोधनपदादग्रे बद्धं तन्न भवति “संबोधनपदादग्रे न भवन्ति वसादयः” (सा० सू० 345) इति वचनात् कथं घटते तदाह-मे इत्यस्य षष्ठ्यन्तप्रतिरूपाव्ययत्वात् अस्मच्छब्दस्य विशेषार्थत्वान्निपातत्वेन विशेषादेशाभावात् इति न वसादयः / इति पदार्थः / / अथ समासः-कुरुते इति कुर्वाणा / अणवश्च ते पदार्थाश्च अणुपदार्थाः; अणुपदार्थानां दर्शनं अणुपदार्थदर्शनं, अणुपदार्थदर्शनस्य वशः-आयत्तः अणुपदार्थदर्शनवशः, तस्माद् अणुपदार्थदर्शनवशात् / भाः-कान्तिः विद्यते यस्यासौ भास्वान्, भास्वतः प्रभा भास्वत्प्रभा, तस्याः भास्वत्प्रभायाः / मोहश्च रतं च मोहरते, जनानां कृत्ते मोहरते येन स जनकृत्तमोहरतः, तस्य सं० हे जनकृत्तमोहरत ! / नदरिद्रा अदरिद्राः, अदरिद्रा ऊहा यस्यां सा अदरिद्रोहिका ।क्षोभयितुं योग्या क्षोभ्या, नक्षोभ्या अक्षोभ्या / जिनानां पतिः जिनपतिः, तस्य सं० हे जिनपते ! / प्रकृष्ट उन्मादो येषां ते प्रोन्मादिनः, तेषां प्रोन्मादिनाम् / वदनं वादः, वादः अस्ति ए(ये)षां इति वादिनः, तेषां वादिनाम् / मानस्य त्याजनं मानत्याजनं, मानत्याजनं. करोतीति मानत्याजनकृत् / तमांसि हरतीति तमोहरा, अतिशयेन तमोहरा (तमोहरतमा) / अरीणां द्रोहः अरिद्रोहः, तं अरिद्रोहं करोतीति अरिद्रोहकारिका / / इति तृतीयपदार्थः / / 87 / / / दे० व्या०-कुर्वाणेति / हे जिनपते ! गतार्थम् / हे ईश ! स्वामिन् ! ते-तव भारती मे-मम अरिद्रोहिका-शत्रुक्षयकारिणी स्तादित्यन्वयः / ‘स्तात्' इति क्रियापदम् / का कर्जी ? | भारती-वाणी / “वाग् ब्राह्मी भारती गौर्गीः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 155) / कस्य ? / ते-तव / किंविशिष्टा भारती ? / अरिद्रोहिका / कस्य ? / मे-मम / पुनः किंविशिष्टा ? / शस्ता-प्रशस्ता, अविसंवादित्वात् / पुनः किंविशिष्टा ? / 'अदरिद्रोहिका' न सन्ति दरिद्रा-अर्थशून्या ऊहाः-तर्का यस्याः सा तथा / पुनः किंविशिष्टा ? | अक्षोभ्या-अचालनीया / न क्षोभ्या अक्षोभ्या इति समासः / पुनः किंविशिष्टा ? | ‘मानत्याजनकृत्' मानस्य अहङ्कारस्य त्याजनं करोतीति तथा / 'किप०' (पा० अ०३, पा० 2, सू०७६), ‘ह्रस्वस्य पिति कृति तुक्' (पा० अ० 6, पा० 1, सू० 71) / केषाम् ? / 'वादिनां'१. 'अरिद्रोहिका' इति पदं मूलकाव्ये, तस्मादयं विग्रहो भ्रान्तिमूलकः / 2. असम्बद्धमप्राकरणिकम्पदमिदम् /

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234