Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 183
________________ 374 शोभनस्तुति-वृत्तिमाला अवचूरिः मा-मां पातात्-नरकादिपतनात् पाताद्-रक्षतात् / स पार्थः-त्रयोविंशो जिनः / किंविशिष्टः ? / मालां-स्रजं दधत्-दधानः / यां मालामलीनां-भ्रमराणामाली-पटली उदारा-प्रचुरा मुदा-हर्षेण आराद्अन्तिके अरम्-अत्यर्थं लीना-श्लिष्टा सती अदधत्-पीतवती / किंभूताम् ? / मधुरो मधुः-मकरन्दरसो यस्याः सा ताम् / पार्श्वः किंभूतः ? / आलानवद् बाहू यस्य सः / सुष्ठु उचिता या उमा-कीर्तिस्तया चितो-व्याप्तः / रुचिररुचयोः-रम्यकान्तयो रदा-दन्ता यस्य सः / तथा यस्येयं यदीया तनुः-शरीरं आपत्त्रा-विपदो रक्षिका / किंभूता ? / देवानां संबन्धिनी या राजीवराजी-स्वर्णाम्बुजश्रेणी सैव पत्र-वाहनं यस्याः सा / पार्थः किंभूतः ? / अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात् प्रौढो रवो-देशनाध्वनिर्यस्य सः / नन्दकः-समृद्धिजनकः नन्दयिता वा / नोदको नो-प्रेरको न भवतीत्यर्थः / / 89 / / जिनेश्वराणां स्तुतिःराजी राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग व्यालव्यालग्नयोधाचितरचितरणे भीतिहद् याऽतिहृद्या / सारा साऽऽराज्जिनानामलममलमतेर्बोधिका माऽधिकामा दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना // 2 // 90 // - सग० (1). ज० वि०-राजीति / सा जिनानां-तीर्थकृतां राजी-श्रेणी, माशब्दोऽस्मच्छन्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, 'अधिकामात्' अधिक-उत्कटो य आमो-रोगस्तस्मात्, अथवा आधिः-मनःपीडा, कामः कन्दर्पः तस्मात् (अलम्) अव्यात्-पायात् इति क्रियाकारकयोगः / अत्र अव्यात्' इति क्रियापदम् / का कर्ची ? 'राजी' / केषाम् ? 'जिनानाम्' / कं कर्मतापन्नम् ? 'मा' / कस्मात् ? 'अधिकामात्' 'आधिकामाद्वा' / जिनानां राजी कथंभूता ? 'राजीववक्त्रा' कमलवदना / पुनः कथं० ? 'अतिहृद्या' अतिशयेन हृदयङ्गमा / पुनः कथं० ? 'सारा' उत्कृष्टा / पुनः कथं० ? 'बोधिका' बोधिजनका / कस्य ? ‘अमलमतेः' निर्मलधियो जनस्य | पुनः कथं० ? 'अव्याधिकालाननजननजरात्रासमाना' व्याधिः-रोगः, कालाननं-यममुखं, जननं-जन्म, जरा-वार्धकं, त्रास-आकस्मिकं भयं, मानः-अहङ्कारः,

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234