Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीनमिजिनस्तुतयः 345 जलादीनां सकाशादित्यर्थः / किंभूतः ? / गुरुः-महान् / वाहः-अश्वः / न विद्यते पातः-च्यवनं आपद्विपत् अघं-पापं च यस्यां सा चासौ नगरी च, युक्त्या मुक्तिरेव, तस्या याने-गमने सुष्ठुमतः-अभिप्रेतः / स्फुटा-अविसंवादिन्यो विकटा-विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च (ताः) भजते यः (स) स्फुटविकटहेतुप्रमितिभाक् / उरुः-विशालः / वा शब्दश्चकारार्थे / अहो इत्यामन्त्रणे / पाता-त्रायकः / पदघनगरीयान् पदघनः-अर्थनिबिडः गरीयांश्च महत्त्वयुक्तः / यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्च / / 83 / / कालीदेव्याः स्तुतिःविपक्षव्यूहं वो. दलयतु गदाक्षावलिधरा ऽसमा नालीकालीविशदचलना नालिकवरम् / समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनयासमानाली काली विशदचलनानालिकबरम् // 4 // 84 // - शिख० (1) - ज० वि०-विपक्षेति / काली-काल्याख्या देवी वः युष्माकं विपक्षव्यूहं दलयतु-विनाशयतु इति क्रियाकारकप्रयोगः / अत्र ‘दलयतु' इति क्रियापदम् / का की ? 'काली' / किं कर्मतापन्नम् ? 'विपक्षव्यूहम्' / केषाम् ? 'वः' / काली कथंभूता ? 'गदाक्षावलिधरा' गदा-प्रहरणविशेषः अक्षावलिःमाला ते धारयतीति गदाक्षावलिधरा / पुनः कथं० ? 'असमा' असदृशी / पुनः कथं० ? 'नालीकालीविशदचलना' नालीकाली-कमलावली तद्वद् विशदौ-उज्ज्वलौ चलनौ-पादौ यस्याः सा तथा / काली किं कुर्वाणा ? 'समध्यासीना' सम्यक् अधिरोहन्ती / किं कर्मतापन्नम् ? 'नालिकवरं' प्रधानपद्मम् / नालिकवरं कथंभूतम् ? 'विशदचलनानालिकवरं' विशन्तः-निलीयमानाः अचलाः-स्थिराः एतादृशा ये नानालिनः नानालयो वा-विचित्रमधुकराः तैः कबरं-कर्बुरम् / अत्र यमकवशात् बवयोरैक्यम् / काली पुनः कथं० ? ‘अम्भोभृतघननिभा' जलभरितमेघप्रभा, श्यामवर्णेत्यर्थः / पुनः कथं० ? 'अम्भोधितनयासमानाली' अम्भोधितनया-लक्ष्मीः तस्याः असमाना-अनन्यसमा आली-सखी / / अथ समासः-विपक्षाणां व्यूहः विपक्षव्यूहः 'तत्पुरुषः' / तं विपक्ष० / गदा च अक्षावलिश्च गदाक्षावली ‘इतरेतरद्वन्द्वः' / गदाक्षावली धारयतीति गदाक्षावलि० 'तत्पुरुषः' / न समा असमा 'तत्पुरुषः' / नालीकानामाली नालीकाली ‘तत्पुरुषः' / नालीकालीवद् विशदौ नालीक० 'तत्पुरुषः' /

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234