Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 168
________________ -बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [157 निर्माप्य, भावस्य भावनायाः खण्डनं वैकल्प्यं तदशेन, ध्रुवं खण्डितमसमग्र फलमविन्दत प्राप, तद्यथेति कथानिर्देशे // 6 // સમયમાં શ્રેષ્ઠીના પુત્ર મથન જેમ જિનેશ્વર મંદિર કરાવી, ભાવ ખંડિત થવાને લીધે જ ખંડિત ફળ પામ્યો હતો, તેની વાર્તા આ પ્રમાણે છે. दक्षिणेऽत्र भरते रतेः पुरं, नाम रत्नपुरमस्ति सान्वयम् / तत्र कोऽपि कनकप्रभोऽभवत् , क्षिप्ततप्तकनकप्रभो नृपः // 62 // अत्र भरते दक्षिणे भागे, रतेः प्रीतेः पुरमास्पदम् , सान्वयं रत्नानां पुरं नगरमित्यन्वयार्थेन सहितं रत्नपुरं नाम पुरमस्ति, तत्र रत्नपुरे, कोऽपि विलक्षणः, क्षिप्ता तिरस्कृता, ततोऽप्युत्कृष्टवर्णत्वात् तप्तस्य विशुद्धस्य कनकस्य स्वणस्य प्रभा कान्तियन स तादृशः कनकवणेः, कनकप्रभो नाम नृपः अभवत् / / 62 // અહિં દક્ષિણાર્ધ ભારતમાં પ્રીતિના નગર જે રત્નપુરનામે યથાર્થ નગર હતું. ત્યાં કઈક પિતાની કાન્તિથી તપાવેલા સુવર્ણને પણ તિરસ્કૃત કરનાર એ કનકપ્રભ નામે રાજા હતો. મેરા तत्प्रियापि कनकप्रभाऽननि, प्रीतिवन्जिवनसारणिप्रभा / / यां समीक्ष्य मधुराकृतिं शिवा, वल्लभं स्ववपुषाऽप्यनीनहत् // 63 // तस्य कनकप्रभस्य प्रिया अपि, प्रीतिरनुराग एव वलिः तस्या बने सारणिः प्रणाली उद्यानसेचिनी सेव प्रीतिसंवर्धकत्वात्प्रभाति भासते इति सा प्रीतिमति कनकप्रमानामाऽजनि / यो मधुराकृति मनोहराकारा समीक्ष्य, शिवा पार्वती, वल्लभं शिवं स्ववपुषा स्वाधशरीरेणापि अनीनहत् संश्लिष्यति स्म, मत्तोऽप्यधिकसुन्दरी सेति शिवः कदाचित्तद्वशः माभूदिति शङ्कया अर्धशरीरेण शिवशरीर एव सदा तस्थौ, यथा स अवसरालाभेन न तां कामयेतेति यावत् / शिवस्य अधनारीनटस्वरूपस्य पूर्वोक्तहेतुना संभावनमिति // 63 // તેની પ્રિયા કનકપ્રભા નામે હતી, જે પ્રેમની વેલરીના વનસારુ નીક જેવી હતી. જેનું મધુર સૌન્દર્ય જોઈને જ જાણે, પાર્વતીએ પોતાના પતિ શિવને પિતાના શરીરથી બાંધી રાખ્યા હતા. (જેથી કનકપ્રભા પ્રત્યે આકર્ષાય નહિ. ) 63 आस तत्र वसुदत्त इम्यक-स्त्यागकीर्तिमरचन्दनोज्ज्वलः / प्रार्थनाभिमुखमन्यकामिनी-वर्गमेव विमुखीचकार यः // 64 // तत्र रत्नपुरे, त्यागो दानं तेन या कीर्तिः तस्या भरः अतिशयः एव चन्दनं सर्वत्र सुरभिप्रसारकत्वात् , तेन उज्ज्वलः प्रसिद्धः इभ्यकः धनाढयः वसुदत्तनामा आस, यः वसुदत्त एव नान्यः, प्रार्थनाभिमुखं प्रार्थयन्तम् अन्यकामिनीवर्ग परस्त्रीसमूह विमुखीचकार निराशमकरोत् , प्रार्थयन्तमपि कामिनीजनं तत्याजेत्यर्थः / एतेन तस्य विलक्षणजितेन्द्रियतोक्ता // 4 //

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288