Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 252 ] श्री शान्तिनाथमहाकाले - / सती, अर्दितचेतसामित्युक्तिरितिभावः / वैरकथा द्वेषभावः न, ज्ञानिना पुरतः सर्वे एव वैरभावं त्वजन्ति तत एव ताः प्रपलायिषतेतिभावः // 205 / / મારા જેવા માત્રથી તે દેવતાઓ હમણાંજ તમારી પુત્રીને છોડી ભાગી ગયા છે. જ્ઞાનીઓની દષ્ટિ પશે તે સહજ શત્રુ ભાવવાળાઓને વૈરભાવ રહેતો નથી. ર૦પા स्मृतभवान्तरजातिरथ व्रतं, भवविरक्तिरयाचत साऽप्यलम् / गुरुमुखाधिकभोगफलश्रुतेः शिवफलं गृहिधर्ममुपाददे // 206 // अथ पूर्वभववृत्तश्रवणानन्तरम्, सा शोकदत्तसुताऽपि, स्मृता भवान्तरस्य जातिजन्म यया सा तादृशी जातजातिस्मरणा अत एव अलमतिशयेन. भवे विरक्तिर्यस्याः सा तादृशी वि व्रतं संयममयाचत / तथा, गुरुमुखेन अधिकभोगं सातिशयसुखरूपं फलं तस्य श्रुतेः महाशये भोगफलं कर्मास्ति सम्प्रति तव तस्मिन् मुक्ते दीक्षा ग्रहीष्यसीति श्रुतेः श्रवणात् शिवफलं कल्याणजनकं परम्परया मोक्षजनकं वा गृहीधर्म गार्हस्थ्यधर्मम् , उपाददे // 206 / / પછી તેણીએ જાતિ સ્મરણ થઈ જવાથી સંસારથી વૈરાગ્ય પામી વ્રતની પ્રાર્થના કરવા લાગી. ગુરુ મુખે ભોગફૂલ કર્મ વધારે છે એમ સાંભલી મેક્ષદલ આપનાર શ્રાવક ધર્મ અંગીકાર કર્યો. ર૦૬ नृपतिविज्ञपनासमनन्तरं, गुरुरवोचत मित्रचरित्रकम् / तव भटैः सह भक्तिपरैस्तदा गहन एव पपात स मित्रमुत् // 207 // नृपतेः अमरदत्तनृपस्य विज्ञपनायाः समनन्तरम् गुरुः धर्मघोषसूरिः, मित्रस्य नृपतिमित्रस्य मित्रमुदः चरित्रमेव चरित्रकमवोचत / तदुक्तिमेवाह-तदा तव सकाशाचलितः स मित्रमुत्, भक्तिपरैराज्ञाकारिभिस्तवभटैः योधैः सहैव, गहने कानने पपात जगाम, गच्छन्नासीदित्यर्थः / / 207 / / રાજાની વિનંતી પછી ગુરુછ મિત્રમુદના સમાચાર કહેવા લાગ્યા, તે વખતે ભડ એવા તમારા યોદ્ધાઓ સાથે મિત્રમુદ સંકટમાં પડી ગયાર૦ળા दिनमवास्थित यावदतन्द्रितो जनसुखाय सखा तव तत्र सः / बहलनाहलराजिरुपागमद् यमभटा इव तावदतर्किता // 208 // स तव सखा मित्रं मित्रमुत्, नत्र गहने जनानामनुचराणां सुखाय परिश्रमापगम्याय दिन यावत् अतन्द्रितः निरलसः, सावधान इति यावत् / अवास्थित तस्थौ, तावत् तदवसर एव यमभटा य. मानुचरा इव बहलं दृढं गाढमविरलमिति हैमोक्तेः / बहला दृढा नाहलास्तेषां म्लेच्छजातीनां पुलिन्दाना "पुलिन्दा नाहला निष्ठ्याः " इत्यादि हैमः / राजिः श्रेणी, अतर्किता अकस्मादुपागमत् / / 208 // ત્યાં તમારે તે મિત્ર લોકોના સુખ સારૂ એક દિવસ આલસ વગરને રહ્યો, તેટલામાં યમના ભટે જેવાં ઘણા ઑછાનું રાલું ઓચિંતુ આવી પડયું. 208
Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288