Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 264
________________ आ. विषयदर्षनसूरीबररचितवृत्तिसहिते अष्टमः सर्गः [ 253 . तव भटेवखिलेषु पलायितेप्वथ पलायितवान् स सुहत्तव / क्वचन केचन तेऽपि च मण्डले, परमपत्रपयाऽस्थुरवाङ्मुखाः // 206 // अथ नाहलराजिसमागमानन्तरम् , अखिलेषु तव भटेषु पलायितेषु, भयादितिभावः। स तव सुहृत्, मित्रं, मित्रमुत्, पलायितवान् , स्वस्यासहायत्वात् नाहलानाश्चानेकत्वात्, ततः स्वरक्षणस्याशक्यत्वात् प्राणरक्षार्थ पलायनस्यैवोपायस्यावशिष्टत्वात् , नतु पूर्वमेव, वीरधर्मविरुद्धत्वादिति. भावः / ते भटा अपि च केचन, क्वचन मण्डले व्यूहे देशे वा "देशो मण्डलम्" इति हैमः / परमत्यन्तमपत्रयया लज्जया, अवाहमुखा अधोमुखाः अस्थुः, लज्जितो हि अवाङ्मुखो भवतीति स्वभावः तव देशे न समागता इति भावः // 209 / / कचन कानन एव परिभ्रमं-स्तृषित एव निपीय सरोजलम् / श्रममपासितुमातपवर्जिते, शयित्वान् वटभूमिरुहस्तले // 210 // कचन कस्मिंश्चित् कानने वने एव "गहनं काननं वनम्" इत्यमरः / परिभ्रमन्नेव, तृषितः सरोजलं निपीय पीत्वा, श्रमम् , अपासितुम् दूरीकर्तुम् , आतपवर्जिते सुच्छायत्वात् शीतले, वटभूमिरुहः वटवृक्षस्य तलेऽधः शयितवान् , निद्रया हि श्रमो विनीयते इति भावः // 210 // તમારા મિત્ર કઈ વનમાં ભમતો ભમતો તરસ લાગવાથી તળાવમાં પાણી પીને ધાઉખાવા તડકા રહિત એવા વડલાના ઝાડ નીચે સૂઈ ગયા. ૨૧ના तदुरुकोटरतोऽत्र विनिःसृत-स्तमदशसहसैव सरीसृपः / उपगते हि विधौ प्रतिकूलतां, प्रतिपदं महतां विपदेत्यपि // 21 // अत्र शयिते तस्मिन् सति, तस्य वटवृक्षस्य तरोः विशालत्वात् कोटरतः सहसा अकस्मादेव विनिःसृतः बहिरागतः सरीसृपः सर्पः तं मित्रमुदमदशत् "व्यालः सरीसृप"इत्यमरः / ननु किमिति विपदं गतस्य पुनर्विपदागम इति चेत् एवमेव भवतोत्याह-हि यतो विधौ दैवे प्रतिकूलताम् उपगते महतां समर्थानामपि प्रतिपदं पदे पदे विपदेति आगच्छति, एवञ्च तस्य पुनर्विपदागमो नाश्चर्याय, मानवानामल्पसाधनत्वानितरा प्रतिकारक्षमत्वादितिभावः // 211 // તે ઝાડના મેટા કેટરથી નિકળેલ સર્પ તેને અકસ્માત , ભાગ્ય જે પ્રતિકૂલ હોય તો મોટાઓને પણ પગલે પગલે વિપદાઓ હેય છે. ll11 तमथ तस्य विषेण विचेतनं, सपदि कोऽपि जटी समजीजिवत् / उपकृतिः सुकृताय महीयसे, भवति संजनिता यदसंस्तुते // 212 //

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288