Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ पा. विषयवसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [ 242 निवृतिमाप्यापि निरुपाधिभाबमाप्यापि यदुरासदं दुष्प्राप्यं सुखमवाप्यते तत्सोपाधिकत्वेऽपि अवाप्तः प्राप्ता, अमुक्तः, भवस्थैरिति यावत् , निवृतिं मुकिमपि, अपिना अन्यस्याप्तौ तु का कयेति ध्वन्यते / आप्य दुरासदम् दुष्प्रापम् / मुक्तिसुखापेक्षयाऽप्यधिकं सुखमापेत्यर्थः // 170 // કમારામાં શિરોમણિ સમાન તે અમરદત્ત તે મણિમંજરીને જોઈ તે સુખ પામ્યો કે જે મુક્ત આત્માઓ મુક્તિ મેળવીને પણ દુખે કરીને મેળવી શકે છે. ૧૭૦માં __अथ मित्रमुदो नागरकृतस्तुतिमाहकटसुहृत्प्रियता कटसङ्गराम्बुधितटप्रतिपत्तिरनाहता / कटविसाध्वसमानसवृत्तिताकटमतिप्रचयोऽपचयोज्झितः // 171 / / इति स मित्रमुदाश्रितसंमदैरभिनुतो मणिसारकनागरैः / न गुणवद् यदि वस्तु विवण्यते, क्व रसनारसमभुद्तमश्नुताम् ? // 172 // कटा सातिशया क्रियाकारिका, सार्थिका इतियावत् , सुहृदि प्रियता प्रेम एतादृशकार्यसाधनेन सुहृदि प्रेम सार्थकम् सातिशयम् वा इत्यर्थः / अनाहता निर्विघ्ना, कटा सफला, क्रियाकारिकेतियावत् / सङ्गरस्य प्रतिज्ञायाः तद्रूपस्य अम्बुधितटस्य समुद्रतटस्य च प्रतिपत्तिः प्राप्तिः / कटे काले विसाध्वसा निर्भया मानसवृत्तिः मनोनिश्चलता यस्य स तादृशस्तभावः, अपचयोज्झितः हासरहितः कटे आपदि मतिप्रचयःबुद्धिराशिः / इतीत्थम् मणिः मुख्यो येषां ते मणि सारवन्तः ते च ते नागरा तैः आश्रितसंमदैः प्राप्तहर्षेः मणिसारकस्य तदाख्यवणिजो नागरैः पौरैः स मित्रमुत् , अभिनुतः स्तुतः / तादृशदु:साध्यकार्यसाधकस्य स्तुतिरुचित वेत्याह-यदि गुणवत् उत्कृष्टं वस्तु न विवण्यते, तदा, रसना जिह्वा अद्भुतं विलक्षणं रसं प्रीतिं क्व अश्नुताम् प्राप्नोतु / गुणवद्वस्तुप्रशंसयैव हि रसनाया: रसग्रहणम् / अन्यथा तु स्वादग्रहणम् इति भावः // 171 / 172 / / युग्मम् // કે મિત્રપ્રેમ! નિવિન રૂપે પ્રતિજ્ઞા રૂપી સમુદ્રના તટની કેવી પ્રાપ્તિ કેવિ નિર્ભય મનોવૃત્તિ ? કદી ક્ષીણ ન થાય એવો કેવો બુદ્ધિ વૈભવ ! મિત્રમુદનું બધું ય અશ્વત છે. આમ અત્યંત હર્ષ પામેલા મણિસાર વગેરે નગરસ્વજનોથી તે મિત્રમુદ અભિનંદિત કરાય. ગુવાલી વસ્તુ વર્ણન તેમ થાય તો nia महसुस 24 ४या अनुभवे ? // 171-172 // सुजनभावमितेरथ नागरैर्भजति शुष्मणि तत्र च साक्षिताम् / स्वमनसः परितापनिवृत्तये व्यधित सोऽपि विवाहविधि तया // 173 // अथ पश्चात्, सुजनभावं सज्जनताम् , इतैः प्राप्तैः सजनैरित्यर्थः, नागरैः, सह तदृष्टव्येत्यर्थः / कृतसहाय इत्यथोमभ्यते, तत्र शुष्मणि अग्नो "वहिः शुष्मा कृष्णवर्मा" इत्यमरः। साक्षिता भजति च, अग्नि साक्षीकृत्येत्वः; सः अमरदत्तोऽपि, स्वमनसः, परितापस वियोगजनितज्वरस्थ. निवृत्तये शान्तये वया मणिमञ्जर्या सह विवाहविधि व्यषित-चकार ॥१७शा
Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288