Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 259
________________ 248 हेतो, अत्र हेतुसप्तमी सति अधृतिमान् सचिन्तचेताः धरणीधवः अमरदत्तनृपः, निजै: अभीष्टजनः प्रियजनैः, शुद्धिमन्वेषणमकृत, किन्तु, कञ्चन तदुदन्तं कमपि मित्रमुवृत्तान्तं न अविन्दत प्राप्तवान् // 192 / / કેટલાક દિવસથી તે મિત્રને સમાચાર નહિ મલવાથી અધીર થઈ ગયેલે રાજા પોતાના પ્રિયજને દ્વારા તેની શોધ કરિ. પણ તેને કોઈ સમાચાર મળ્યા નહિ. ૧૯રા प्रियवयस्यकवार्तमनाप्नुवन् , हृदि वहन्नसमाधिमरं नृपः / इति विचिन्तयति स्म स कोऽपि विद्, यदि समेति तदा रुचिरं भवेत् // 163 // प्रियस्य, वयस्य एव वयस्यकस्तस्य सुहृदः वात एतिचं जनश्रुति “जनश्रुतिः किम्बदन्ती" वाते तिचं इति हैमः / अनाप्नुवन अलभमानः अत एव, हृदि असमाधिभरं सातिशयचिन्ता वहन नृपः सोऽमरदत्तः इति वक्ष्यमाणप्रकारं विचिन्तयति स्म, तञ्चिन्तामेवाह-यदि कोऽपि वित् विद्वान् , अदृष्टार्थज्ञः समेत्यागच्छति, तदा रुचिरम् शोभनं भवेत् , तत्सकाशान्मित्रवृत्तान्तलाभ सम्भवादिति भावः // 193 / / પ્રિય મિત્રના સમાચાર મહિ મળવાથી મનમાં અત્યંત અસ્વસ્થતાનું ધારણ કરતે રાજા એમ વિચારવા લાગે કે જે કઈ જ્ઞાની આવે તે સાર થાય. 193 अथ वनीपतिरप्यवनीपति, समुपगम्य विनम्य जगाद तम् / तव वने समुपास्थित चिच्चतुष्टयधरो वृषघोषमुनीश्वरः // 194 // ___ अथात्रावसरे, वनीपतिः वनपालः उद्यानरक्षकः तमवनीपतिममरदत्तनृपं समुपगम्य विनम्य, अपिश्चार्थे, जगाद, किमित्याह-तव वने उद्याने, चितां ज्ञानानां चतुष्टयस्य मतिश्रुतावधिमनःपर्यायात्मकस्य धरः चिचतुष्टयवान् वृषघोषमुनीश्वर धर्मघोषसूरिः, समुपास्थित आयातः // 194 / / પછી વનપાલે આવી પ્રણામ કરી રાજા ને કીધું કે ચાર જ્ઞાનના ધારક ધર્મષ મુનિ તમારા ઉદ્યાનમાં સમસય છે. 194 अमरदत्तनृपः प्रमदोबसद्धहलरोमसमाचितविग्रहः / सदयितोऽथ विवन्ध गुरूनयं गुरुमुखात्सुकृतश्रवणं व्यधात् / ___ अथ, प्रमदेन गुर्वागमनजनितहर्षेण उल्लसद्भिः विकसितैः अश्वनं गच्छद्भिः बहलैः निबिडेः रोमभिः समाचितः समन्वितः विग्रहः शरीरं यस्य स तादृशः हर्षात्पुलकितशरीरः अयम् अमरदत्त / नृपः, सदयितः सभाय:, गुरुन् तान् मुनीश्वरान् विवन्य, गुरुमुखात् सुकृतस्य च उपचारात्तत्कारिसदनुष्ठानधर्मस्य श्रवणं व्यधात् // 195 / / ૫છી અમરદત્ત રાજ હથી ઉલાસ પામતા મયથી રોભિત હવાના થતે ૫ની સાથે, ગરની A BH भुयाय प्रदान / पवाहास पामता भरिया

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288