Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 209
________________ 198 ] श्रीशान्तिनाथमहाकाव्ये तादृश व्यतिकरस्यापवादजनकत्वात् तस्याः सुरक्षाद्यर्थ चेति भावः / ततस्तदनन्तरम् स समये गर्भपूर्तिकाले सती पतिव्रता मदना सकललक्षणसारसमन्वितं सकलानां लक्षणानां सामुद्रिकोक्तानां सारे श्रेष्ठांशेन समन्वितम् सुतं पुत्रमसूत सुषुवे // 30 // ત્યારે તેણે કુલપતિની આગળ તે વૃત્તાન્ત કીધે, અને તે કુલપતિ કલીન એવી તે મકરધ્વજની પત્નીને ગુપ્ત રીતે રાખી પછી તે સતી સ્ત્રીએ સર્વ લક્ષણોથી યુક્ત એવા પુત્રને જન્મ આપ્યો. આ૩મા ____ अथ मनायाः रोगोत्पत्तिमाहविदधतीषु यथाऽवगमं तपोधनकनीषु चिकित्सितमञ्जसा / उचितमेषजहीनतया वने, विषमसूचिरुजाऽजनि साऽदिता // 31 // यथेति-अवगमं ज्ञानमनतिक्रम्य यथाऽवगमम् स्वज्ञानानुसारेण तपोधनकनीषु, तप एव धनं यस्य स तादृशस्तस्य कन्यासु तापसीषु अञ्जसा सौकर्येण चिकित्सितम् रोगपताकारोपायम् विदधतोषु कुर्वतीध्वपि सत्सु वने, वैद्यादिसाधनस्य नगर एव सम्भवादिति भावः / उचितेन योग्येन रोगप्रतोकारसमर्थेन भेषजेन हीनतया रहिततया सा मदना विषमसूचिरुजा विषमया असाध्यया सूचिरुजा विषूचिकारोगेण अर्दिता पीडिता अजनि जाता // 31 / / તપસ્વીઓની કન્યાઓ તત્પરતાથી જ્ઞાન પ્રમાણે ચિકિત્સા કરવા છતા યોગ્ય ઔષધના અભણ મકરધ્વજની પત્ની વિષુચિકા રેગથી પીડિત થઈ ગઈ. 35 विधुरतां धृतवत्सु जटाधरेष्वपि तदीयरुजाऽनुपशान्तितः / दयितया सह देवधरस्तदा, वणिगुपैदपि निजेरसेनया // 32 // तदीयाया मदनासम्बन्धिन्याः रुजायाः रोगस्य अनुपशान्तितः अशमनाद्धेतोः जटाधरेष्वपितदाख्यकुलपतिष्वपि आदरार्थे बहुवचनम् / वानप्रस्थानां केशकर्तनाभावात् / जटाधारित्वम् / अपिना तेषां ममत्वाद्यभावेऽपि सस्नेहदयालुत्वात् वैधुर्यमिति विरोधपरिहार सूचितः / विधुरताम्-मातरि मृतायामयं बालः कथं प्रतिपाल्यं इति, विमनस्कताम, मनःपीडामित्यर्थः। धृतवत्सु, तदा तस्मिन् समये निजरसेनया निर्जरसेनेत्याख्यया. दयितया प्रियया सह देवधरः तदाख्यः वणिग उपैत समागच्छदपि / अपिर्विधुरत्वागमनयोः समकालत्वाय / एतेन जातकस्य दैवानुकुल्यमुक्तम्,अप्रे तेनैव तज्ञालनवर्णनात्॥३२॥ તેને રોગ શાંત નહિ થવાથી જટાધારી મુનિએ ખેદ અનુભવે છતે દેવધર નામે વણિક નિર સેના નામની પોતાની પત્ની સાથે ત્યાં આવ્યો. ૩રા पुरवरं स च हर्षपुरं गतो, वलित उजयिनीनगरीवणिक् / गुरुनटाघरभक्तिपरायणा, शुभमनाः प्रविवेश तपोवनम् // 33 // उलयिन्याः तदाख्यायाः नगर्याः वणिक् स देवधरः, पुरवर नगरश्रेष्ठम् हर्षपुरं तदास्यं नमरं गतः, वाणिज्यामिति शेषः, वलितः ततः परावृत्तश्च-गुरुजटाधरभक्तिपरायणः गुरौ जटाधरे तदास्ये

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288