Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ भाचार्यविजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 201 सितविहङ्गमपक्तिरवेक्ष्य यं, समुदितं नमसि स्तनितोद्धतम् / अवजिता शिखिनां विरुतैरिव, प्रचलिता सर एव नु मानसम् // 40 // नभसि, आकाशे, समुदितम्, समुन्नतम्, अत एव स्तनितोद्भतम् स्तनितेन मेघगर्जितेन स्तनितं गर्जितम् इतिहैमः / स्तनितेन उद्धतम् उत्कटम् यं जलभृतम् अवेक्ष्य शिखिनो मयूराणाम् विरुतैः केकाभिः जातैरिति शेषः। मेघं दृष्टा मयूरा विरुवन्ति इति भावः। अवजिताः तिरस्कृता इव / वर्षौ हि केकैव प्रशस्यते न त हंसस्वरः, स त झरदि प्रशस्यते तत्र च केका न प्रशस्यते / यदुक्तं माघे-"समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् / शरदि हंसरवाः परुषोकृतस्वर मयूरमचूरमणीयताम्" इति / यद्वा नभसि समुदितं स्तनितोद्धतम् यं अवेक्ष्य सितविहङ्गमपक्तिः शिखिना विरुतैः अवजिता इवेत्यन्वयः, पूर्वत्रान्वये अवेक्षणाश्रयाः शिखिन एव / अत्र पक्षे तु सितविहङ्गमपंक्तिरिति भेदः / सितविहङ्गमपक्तिः सिताः श्वेता ये विहङ्गमाः पक्षिणः हंसा इत्यर्थः, तेषां पंक्तिः, श्रेणिः, हंसा हि आकाशे श्रेणीबद्धाश्चलन्तीति भावः। मानसं तदाख्यं सरः हृदं प्रति प्रचलिता एव, न्वित्युत्प्रेक्षायाम् / वर्षाकाले हंसा मानसं यान्तीति प्रसिद्धिः / तत्र मयूरविरुतविजिवत्वोत्प्रेक्षा / अन्योऽपि हि विजितोऽन्यत्र गच्छन् दृष्ट इति भावः / उत्प्रेक्षाहारः // 40 // उपययौ जलभृत्समयोऽन्यदा, तपऋतुं गमयन्विषयावहिः / जलमयं भुवनं स सृजभिव, प्रततवारिकदम्बकवर्षणैः // 41 // स पूर्वोक्तप्रकारेण वर्णितः जलभृतः मेघस्य समयः वर्षतुः यद्वा जलभृत् तत्समयश्चेत्यर्थः / अभ्यदा ग्रीष्मानन्तरम् तपऋतुं तपश्चासौ ऋतुश्च तं ग्रीष्मर्तुम् सकारस्य रुत्वे यत्वे लोपे चासन्धिः। विषयादेशाद्वहिः गमयन् , निष्कासयन्नित्यर्थः / नान्यः स्वविषयेऽन्यस्थितिं सहत इति भावः / यद्वा तपः दुःखं तेन ऋतोर्विषयावहिः निष्कासनमुचितमेवेत्यथः / वर्षौ घमः शाम्यतीत्येवमुक्तिःप्रततवारिकदम्बकवर्षणैः प्रततानि यानि वारीणां जलानां कदम्बकानां समूहाना भाराणाम् वर्षणानि तैः कृत्वा मुवनं जगत् जलमयं जलप्लावितं सृजन् कुर्वन्निव उपययौ सम्प्रवृत्तः / अत्र प्रीष्मर्तोः शमने निष्कासनत्वस्याध्यवसायादतिशयोक्तेः, सृजन्निवेत्युत्प्रेक्षायाश्च मिथोऽनपेक्षया स्थितत्वात्संसृष्टिः / यदुतम्-"मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते” इति // 4 // જેને આકાશમાં ઉમટેલો જોઈ મયૂર ગર્જનના ઉચા અવાજને અનુસરી, નૃત્ય ક્રિયાથી નાચીને હર્ષ પ્રકટ કરે છે. ભારે ગર્જના કરતે એવો આકાશમાં ઊચે ચઢિ આવેલે જોઈ ત પક્ષિઓ હસેના સમૂહ મયુરોના અવાજેથી હારેલાની જેમ માનસ સરોવર તરફ જતા રહ્યા તેવી વર્ષાઋતુને એક દિવસે ગ્રીષ્મ ઋતુ દેશવટો આપતે બહોળા પ્રમાણમાં પાણીના ઘોધ વરસાવીને આખી પૃથ્વીને જલમય કરતે જાણે આવી ५७च्या. / / 38-40-41 // // त्रिभिविशेषकम् // विमलसैप्रमहापुलिनोदिता-यतवटद्रुमसन्निधिमाश्रितौ / सहचरौ मिलतः किल तत्र तौ, कनकमौधिकया श्रुतखेलया // 42 //
Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288